मध्यप्रदेशराज्यम्

मध्यप्रदेशराज्यं (हिन्दी: मध्य प्रदेश, आङ्ग्ल: Madhya Pradesh) भारतस्य् मध्य्खण्डेर विद्यमानं किञ्चन राज्यम् अस्तिध । अस्य विस्तीर्णता ३,०८,२५२ च.कि.मी. परिमिता अस्ति । मध्यप्रदेशस्य राजधानी भोपाल इति नगरम् अस्ति । २००० तमवर्षस्य 'नवम्बर'मासस्य १ दिनाङ्के अस्मात् राज्यात् छत्तीसगढनामकः प्रदेशः पृथक् कृतः, नूतनराज्यत्वेन संस्थापितश्च । ततः पूर्वं मध्यप्रदेशराज्यं भारते बृहत्तममं राज्यम् आसीत् । इदानीं राजस्थानराज्यं बृहत्तमम् अस्ति । मध्यप्रदेशस्य केषाञ्चन क्षेत्राणाम् उल्लेखाः पुराणेषु अपि लभ्यन्ते । एकलक्षवर्षतः पूर्वं मध्यप्रदेशस्य रायसेनमण्डले 'भीम बेट्का' गुहायां मानवाः वसन्ति स्म इति अत्रत्यानां जनानां विश्वासः । अत्र विद्यमानानि गुहाचित्राणि ३०० वर्षेभ्यः पूर्वं चित्रितानि ।

मध्यप्रदेशराज्यम्
  राज्यम्  
भारतस्य भूपटे मध्यप्रदेशराज्यम् राज्यस्य स्थानम्
भारतस्य भूपटे मध्यप्रदेशराज्यम्
Coordinates: 22.42°उत्तरदिक् 72.54°पूर्वदिक् / २२.४२; ७२.५४
देशः
निर्माणम् १ 'नवम्बर' १९५६
राजधानी भोपाल
बृहत्तमनगरम् Indore
मण्डलानि 50
सर्वकारः
  Type Unicameral Legislature (230 seats)
  Body मध्यप्रदेशसर्वकारः
  राज्यपालः ओम प्रकाश कोहली
  मुख्यमन्त्री शिवराज सिंह चौहान
  उच्चन्यायालयः Madhya Pradesh High Court Jabalpur
विस्तीर्णता
  राज्यम् <
क्षेत्रविस्तारः 2nd
जनसङ्ख्या (2011)
  राज्यम् ७२
  रैङ्क् षष्ठ
  नगरम् २०
  ग्रामीणम् ५२
मानसमयः (UTC+05:30)
पिन् 45xxxx-48xxxx
अन्ताराष्ट्रीयकूटसङ्ख्या (ISD) 091-7xxx
ऐ एस् ओ ३१६६ कोड् IN-MP
मानवविकाश-साङ्ख्यिकी (HDI) 0.488 (medium)
HDI रैङ्क् 26th (2005)
साक्षरता 70.60% (2011)
लिङ्गानुपातः 930 (2011)
अधिकृता भाषा हिन्दीभाषा

भौगोलिकम्

मध्यप्रदेश-राज्यं भारतस्य द्वितीयं बृहत्तमं राज्यं वर्तते । मध्यप्रदेशराज्यं द्वयोः भागयोः विभक्तम् अस्ति । क्षेत्रीयः भागः, शैलप्रस्थीयः भागः च । अस्य प्रदेशस्य उत्तरभागः क्षेत्रीयः अस्ति । किन्तु मध्यभागः, पश्चिमभागश्च शैलप्रस्थीयः भागः अस्ति । इदं क्षेत्रं मालवा-शैलप्रस्थः कथ्यते । प्राकृतिकसंरचनादृष्ट्या इदं राज्यं सप्तभागेषु विभक्तम् अस्ति । मध्यभारतस्य शैलप्रस्थः, बुन्देलखण्ड-उच्चप्रदेशः, मालवा-शैलप्रस्थः, विंध्यकगारक्षेत्रं, “नर्मदा घाटी”, सतपुडा-पर्वतशृङ्खला, बघेलखण्ड च । मध्यप्रदेशस्य पश्चिमोत्तरदिशि मध्यभारतस्य शैलप्रस्थः स्थितः अस्ति । तस्य विस्तारः ३२,८९६ चतुरस्रकिलोमीटर्मितः अस्ति । इदं शैलप्रस्थीयं क्षेत्रम् उत्तरप्रदेश-राज्यं, राजस्थान-राज्यं यावत् विस्तृतम् अस्ति । प्रदेशस्य मध्योत्तरभागे बुन्देलखण्डस्य उच्चप्रदेशः स्थितः अस्ति । “नर्मदा घाटी” इत्यस्यस्य क्षेत्रस्य विस्तारः ८६,००० चतुरस्रकिलोमीटर्मितः अस्ति । इदं क्षेत्रं महाराष्ट्र-राज्यं, गुजरात-राज्यं यावत् विस्तृतम् अस्ति । अस्य क्षेत्रस्य उत्तरे विन्ध्यपर्वतशृङ्खला, दक्षिणे सतपुडापर्वतशृङ्खला च विद्यते । सतपुडा-पर्वतशृङ्खला नर्मदागोदावरी-नद्योः विभाजनं करोति । सोन-नदी बघेलखण्ड-शैलप्रस्थीयक्षेत्रस्य प्रमुखा नदी वर्तते । अस्मिन् क्षेत्रे आदिवासिजनाः अधिकमात्रायां निवसन्ति । अस्य राज्यस्य जलवायुः उष्णकटिबन्धीयः अस्ति । मध्यप्रदेश-राज्यस्य उत्तरदिशि उत्तरप्रदेश-राज्यम्, उत्तरपूर्वदिशि छत्तीसगढ-राज्यं, दक्षिणदिशि महाराष्ट्र-राज्यं, पश्चिमदिशि राजस्थान-राज्यं गुजरात-राज्यं च अस्ति । अस्य राज्यस्य मध्यस्थात् कर्करेखा गच्छति [1]

नद्यः

मध्यप्रदेश-राज्ये बह्व्यः नद्यः प्रवहन्ति । नर्मदानदी, चम्बलनदी, ताप्तीनदी, सोननदी, बेतवानदी, क्षिप्रानदी, कालीसिन्धनदी, तवानदी च इत्यादयः अस्य राज्यस्य प्रमुखाः नद्यः सन्ति । नर्मदा-नदी अस्य राज्यस्य जीवनरेखा अपि कथ्यते । अमरकण्टक-नगरम् अस्याः नद्याः उद्गमस्थलं वर्तते । इन्दौर-मण्डलस्य महू-नगरस्य समीपे जानापाव-पर्वतक्षेत्रं चम्बल-नद्याः उद्गमस्थलं वर्तते । सिहावा-नगरस्य समीपे महानद्याः, सतपुडा-पर्वतशृङ्खलायाः बैतुल-शैलप्रस्थे ताप्ती-नद्याः, मालवा-शैलप्रस्थे कालीसिन्ध-नद्याः, विन्ध्याचलपर्वते पार्वती-नद्याः, कैमूर-पर्वतशृङ्खलायां टोंस-नद्याः, उज्जैन-नगरे क्षिप्रा-नद्याः, पचमढी-नगरे तवा-नद्याः च उद्गमस्थलम् अस्ति [2]

अरण्यम्

मध्यप्रदेशराज्यं वनदृष्ट्या समृद्धम् अस्ति । अस्य राज्यस्य भौगोलिकक्षेत्रस्य पञ्चत्रिंशत्प्रतिशतं (३५) भागः वनविस्तारः अस्ति । राज्ये एकलक्षचतुरस्रकिलोमीटर्मिते क्षेत्रे वनानि सन्ति । मध्यप्रदेशराज्ये अन्येषां राज्यानाम् अपेक्षया सर्वाधिकानि वनानि सन्ति । व्यवस्थादृष्ट्या प्रदेशे त्रिप्रकारकाणि वनानि सन्ति । आरक्षितवनं, संरक्षितवनं, अवर्गीकृतवनं च । मध्यप्रदेशराज्ये मुख्यतः चतुष्टप्रकारकाणि वनानि सन्ति । उष्णकटिबन्धीयवनं, शुष्कवनम्, उष्णकटिबन्धीयार्द्रवनम्, उपोष्णकटिबन्धीयपर्वतीयवनम्, उष्णकटिबन्धीयकण्टकीयवनं च । सर्वप्रथमं मध्यप्रदेश-राज्येन एव वनानां राष्ट्रियकरणं कृतम् । इदं राज्यं “टाईगर् स्टेट्” इति नाम्ना अपि ज्ञायते । यतः अस्मिन् प्रदेशे भारतस्य व्याघ्राणां १९ प्रतिशतं व्याघ्राः सन्ति । अस्मिन् राज्ये प्रायः पञ्च व्याघ्रपरियोजनाक्षेत्राणि सन्ति । सतपुडा-व्याघ्रपरियोजना, बान्धवगढ-व्याघ्रपरियोजना, पेंच-व्याघ्रपरियोजना, पन्ना-व्याघ्रपरियोजना, कान्हा-व्याघ्रपरियोजना च । मध्यप्रदेश-राज्ये चित्रकायः, मृगः, महिषः, कृष्णमृगः, भल्लुकः, व्याघ्रः, सिंहः इत्यादयः वन्यजीवाः सन्ति । राज्येऽस्मिन् अन्यराज्यानाम् अपेक्षया राष्ट्रियोद्यानानि, अभयारण्यानि च सर्वाधिकानि सन्ति [3]

राष्ट्रियोद्यानानि

  1. कान्हा-राष्ट्रियोद्यानम् – इदं मध्यप्रदेशराज्यस्य मण्डला-मण्डले स्थितम् अस्ति । अस्य विस्तारः ९४० चतुरस्रकिलोमीटर्मितः अस्ति । चित्रकायः, कृष्णमृगः, सिंहः, व्याघ्रः च वन्यप्राणिनः सन्ति ।
  2. फासिल-राष्ट्रियोद्यानः – इदम् अपि मध्यप्रदेशराज्यस्य मण्डला-मण्डले विराजते । अस्य विस्तारः २७ चतुरस्रकिलोमीटर्मितम् अस्ति । जीवाश्मः, पादपाः च अस्य उद्यानस्य वन्यजीवाः सन्ति ।
  3. बान्धवगढ-राष्ट्रियोद्यानम् – मध्यप्रदेशराज्यस्य उमरिया-मण्डले स्थितम् अस्ति इदम् उद्यानम् । अस्य विस्तारः ४३७ चतुरस्रकिलोमीटर्मितः अस्ति ।
  4. पन्ना-राष्ट्रियोद्यानम् – इदं मध्यप्रदेशराज्यस्य पन्ना-मण्डले स्थितम् अस्ति । अस्य विस्तारः ५४३ किलोमीटर्मितः वर्तते । चित्रकायः, व्याघ्रः, भल्लुकः च इत्यादयः वन्यप्राणिनः सन्ति ।
  5. सतपुडा-राष्ट्रियोद्यानम् – मध्यप्रदेशस्य होशङ्गाबाद-मण्डले स्थितमिदम् उद्यानम् । अस्य विस्तारः ५२५ चतुरस्रकिलोमीटर्मितः अस्ति । भल्लुकः, व्याघ्रः, चित्रकायः, मृगः चेत्यादयः प्राणिनः सन्ति ।
  6. वनविहार-राष्ट्रियोद्यानम् – इदम् उद्यानं मध्यप्रदेशराज्यस्य भोपाल-मण्डले स्थितम् अस्ति । अस्य विस्तारः ४.४ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य सर्वे प्राणिनः प्राप्यन्ते ।
  7. माधव-राष्ट्रियोद्यानम् – उद्यानमिदं मध्यप्रदेशराज्यस्य शिवपुरी-मण्डले स्थितम् अस्ति । अस्य विस्तारः ३७७ चतुरस्रकिलोमीटर्मितः वर्तते । कलङ्कमृगः, वराहः, चित्रकायः च वन्यप्राणिनः सन्ति [4]

इतिहासः

मध्यप्रदेशराज्यस्य इतिहासः अतीव पुरातनः अस्ति । पाषाणयुगस्य त्रयाणां कालानाम् अवशेषाः मध्यप्रदेशराज्ये प्राप्यन्ते । षष्ठशताब्द्यां षोडशमहाजनपदेषु जनपदद्वयम् आसीत् । चेदि, अवन्ती च । विक्रमादित्यः मध्यप्रदेशस्य शासकः राजा आसीत् । तेन विक्रमसंवतः आरम्भः कृतः । राज्ञा अशोकेन सर्वप्रथमम् उज्जैन-नगरे शासनं कृतम् । समयान्तरे इदं क्षेत्रं गुप्तसाम्राज्यस्य मुख्याङ्गम् अभवत् । समुद्रगुप्तः गुप्तशासकानां सफलशासकः आसीत् । भगवतः बुद्धस्य काले राजा चन्द्रप्रद्योतः अस्य प्रदेशस्य राजा आसीत् । सप्तमशताब्द्यां हर्षवर्धनेन राज्ञा अस्मिन् प्रदेशे शासनं कृतम् आसीत् । नवमशताब्द्याम् अस्मिन् प्रदेशे चन्देल-वंशस्य शासनम् आरब्धम् । तैः “खजुराहो” इत्येतन्नगरम् अस्य नगरस्य राजधानी कृता । “नन्नुक” इत्याख्यः चन्देल-राजवंशस्य संस्थापकः आसीत् । चन्देल-वंशजैः एव खजुराहो-नगरे भव्यमन्दिराणां निर्माणं कारितम् । अनन्तरं प्रतिहारवंशजैः, गहरवार-वंशजैः च शासनं कृतम् । एकादशशताब्द्याः आरम्भे मुस्लिमशासकाः मध्यभारतम् आगतवन्तः । अकबर-राज्ञः शासनकाले मुगल-वंशस्य शासनम् आरब्धम् । मुगल-शासकानां पतनान्तरं मराठा-शासकैः अस्मिन् प्रदेशे शासनं कृतम् । किन्तु आङ्ग्ल-शासकानां प्रभावः अधिकः आसीत् । तेन कारणेन मराठा-शासकाः पराजिताः । ग्वालियर-नगरे सिन्धिया-वंशस्य शासनम् आसीत् । “रानोजी” इत्याख्यः सिन्धिया-वंशस्य संस्थापकः आसीत् । “महादजी” इत्याख्यः सिन्धियावंशस्य प्रतापी राजा आसीत् । उच्यते यत् ई. स. १८१० पर्यन्तं सिन्धिया-वंशस्य राजधानी उज्जैन-नगरम् आसीत् [5]

विभागाः, मण्डलानि च

मध्यप्रदेशराज्ये ५० मण्डलानि सन्ति । प्रशासनसौकर्यार्थं राज्यं दशधा विभक्तम् । दशसु विभागेषु ५० मण्डलानि समाविष्टानि । यथा-

  1. भोपालविभागः - भोपालमण्डलं, रायसेनमण्डलं, राजगढमण्डलं, सीहोरमण्डलं, विदिशामण्डलम् इत्येतानि पञ्च मण्डलानि भोपालविभागे अन्तर्भूतानि ।
  2. चम्बलविभागः - मुरैनामण्डलं, श्योपुरमण्डलं, भिण्डमण्डलम् इत्येतानि त्रीणि मण्डलानि चम्बलविभागे अन्तर्भूतानि ।
  3. ग्वालियरविभागः - ग्वालियरमण्डलम्, अशोकनगरमण्डलं, दतियामण्डलं, गुनामण्डलं, शिवपुरीमण्डलम् इत्येतानि पञ्च मण्डलानि ग्वालियरविभागे अन्तर्भूतानि ।
  4. इन्दौरविभागः - इन्दौरमण्डलम्, अलीराजपुरमण्डलं, बडवानीमण्डलं, बुरहानपुरमण्डलं, धारमण्डलं, झाबुआमण्डलं, खण्डवामण्डलं, खरगौनमण्डलम् इत्येतानि अष्ट मण्डलानि इन्दौरविभागे अन्तर्भूतानि ।
  5. जबलपुरविभागः - जबलपुरमण्डलं, बालाघाटमण्डलं, छिन्दवाडामण्डलं, कटनीमण्डलं, मण्डलामण्डलं, नरसिंहपुरमण्डलं, सिवनीमण्डलम् इत्येतानि सप्त मण्डलानि जबलपुरविभागे अन्तर्भूतानि ।
  6. नर्मदापुरविभागः - बैतूलमण्डलं, हरदामण्डलं, होशङ्गाबादमण्डलम् इत्येतानि त्रीणि मण्डलानि नर्मदापुरविभागे अन्तर्भूतानि ।
  7. रीवाविभागः - रीवामण्डलं, सतनामण्डलं, सीधीमण्डलं, सिङ्गरौलीमण्डलम् इत्येतानि चत्वारि मण्डलानि रीवाविभागे अन्तर्भूतानि ।
  8. सागरविभागः - सागरमण्डलं, छतरपुरमण्डलं, दमोहमण्डलं, पन्नामण्डलं, टीकमगढमण्डलम् इत्येतानि पञ्च मण्डलानि सागरविभागे अन्तर्भूतानि ।
  9. उज्जैनविभागः - उज्जैनमण्डलं, देवासमण्डलं, मन्दसौरमण्डलं, नीमचमण्डलं, रतलाममण्डलं, शाजापुरमण्डलम् इत्येतानि षण्मण्डलानि उज्जैनविभागे अन्तर्भूतानि ।
  10. शहडोलविभागः - शहडोलमण्डलम्, अनूपपुरमण्डलं, डिण्डोरीमण्डलम्, उमरियामण्डलम् इत्येतानि चत्वारि मण्डलानि शहडोलविभागे अन्तर्भूतानि ।

महानगराणि

मध्यप्रदेशराज्ये चत्वारि महानगराणि सन्ति । इन्दौर, भोपाल, जबलपुरं, ग्वालियर च [6]

इन्दौर

मध्यप्रदेश-राज्यस्य किञ्चन इन्दौर-मण्डलम् अस्ति, तस्य केन्द्रम् इन्दौर-नगरम् । इदं मालवा-शैलप्रस्थे स्थितम् अस्ति । मध्यप्रदेश-राज्यस्य हृदयं मन्यते इदं नगरम् । अस्मिन् नगरे द्वे नद्यौ प्रवहतः । एका खान-नदी, अपरा सरस्वती-नदी च । अस्मिन् नगरे बहूनि वीक्षणीयस्थलानि सन्ति । एतेषु स्थलेषु अधिकानि स्थलानि मानवनिर्मितानि सन्ति । इन्दौर-नगरं मध्यप्रदेश-राज्यस्य बृहत्तमं नगरम् अस्ति । अष्टादशशताब्द्यां भगवतः इन्द्रेश्वरस्य एकं मन्दिरम् आसीत् । अस्य मन्दिरस्य नाम्ना एव “इन्दौर” इति नाम अभवत् । “राव नन्दलाल चौधरी” इत्याख्येन अस्य नगरस्य अन्वेषणं कृतम् आसीत् । अस्मिन् नगरे बहुभिः शासकैः शासनं कृतम् । अतः अस्य नगरस्य इतिहासः समृद्धः अस्ति । तेष्वपि होलकर-राजवंशजाः प्रसिद्धाः सन्ति ।

इन्दौर-महानगरे प्राचीनानि भवनानि, स्मारकाणि, मन्दिराणि च सन्ति । अतः पर्यटकाः भ्रमणार्थम् इन्दौर-नगरं गच्छन्ति । अस्य नगरस्य पर्यटनस्थलानि जनेषु लोकप्रियानि सन्ति । राजवाडा, कांच-मन्दिरं, ग्लास-मन्दिरं, बीजासेन टेकरी च इत्यादीनि अस्य नगरस्य वीक्षणीयस्थलानि सन्ति । तत्र “लालबाग पैलेस्” इत्येतत् होलकर-शासकस्य निवासस्थलम् आसीत् । अतः मध्यप्रदेश-राज्ये तत्प्रसिद्धम् अस्ति । मेघदूत-उपवनम् अस्य नगरस्य सुन्दरम् उद्यानं वर्तते । गीताभवनम् अस्य नगरस्य प्रार्थनास्थलं वर्तते । तत्र समीपस्थेषु स्थलेषु प्रत्येकं धर्माणां जनाः गच्छन्ति । इन्दौर-महानगरे सङ्ग्रहालयः अपि अस्ति । तत्र बहुप्राचीनानि स्मारकाणि सन्ति । “राजवाडा” इत्येतत् स्थलम् इन्दौर-नगरस्य सर्वाधिकं चर्चितं स्थलम् अस्ति । अस्य नगरस्य शिल्पोद्योगाः, कलाः च मध्यप्रदेशराज्ये प्रसिद्धम् अस्ति । एते सर्वे उद्योगाः विश्वस्तरे प्रचलन्ति । इन्दौर-नगरे पर्यटनाय यातायातसौकर्यं विस्तृतं वर्तते । अतः बहुमात्रायां जनाः पर्यटनाय इन्दौर-महानगरं गच्छन्ति । शीतर्तौ जनाः तत्र भ्रमणार्थं गच्छन्ति ।

इन्दौर-महानगरं मध्यप्रदेश-राज्यस्य औद्योगिकं नगरम् अपि अस्ति । अतः इदं नगरं भारतस्य प्रमुखनगरेषु सम्बद्धम् अस्ति । “तृतीयक्रमाङ्कस्य राष्ट्रियराजमार्गेण”, नवषष्टीतमेन राष्ट्रियराजमार्गेण, षडशीतितमेन राष्ट्रियराजमार्गेण च सह इन्दौर-नगरं संलग्नम् अस्ति । इन्दौर-नगरे सर्वकारप्रचालितानि बसयानानि प्रचलन्ति । इतः परं भाटययानानि अपि प्राप्यन्ते । तत्र चत्वारि रेलस्थानकानि सन्ति । राजेन्द्रनगर-रेलस्थानकं, लोकमान्यनगर-रेलस्थानकं, सैफीनगररेलस्थानकं, लक्ष्मीबाई-नगर-रेलस्थानकं च । एतानि रेलस्थानकानि समीपस्थैः नगरैः ग्रामैः च सम्बद्धानि सन्ति । भारतस्य प्रमुखनगरेभ्यः इन्दौर-नगरात् नियमितरूपेण रेलयानानि प्राप्यन्ते । इन्दौर-नगरे “देवी अहिल्याबाई होलकर” इति नामकं विमानस्थानकम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुकनगरैः सह सम्बद्धम् अस्ति । देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय इत्यादिभ्यः नगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते ।

भोपाल

मध्यप्रदेश-राज्यस्य चतुर्षु महानगरेषु अन्यतमम् अस्ति इदं भोपाल-महानगरम् । इदं मध्यप्रदेशराज्यस्य भोपालमण्डलस्य मुख्यालयः, मध्यप्रदेशराज्यस्य राजधानी च वर्तते । नगरमिदं तडागानां नगरत्वेन ज्ञायते । पुरा भोपाल-महानगरं राजवंशजानां राजधानी अपि आसीत् । भोपाल-नगरं भारतस्य स्वच्छनगरेषु अन्यतमम् अस्ति । भोपाल-नगरस्य समीपे बहूनि वीक्षणीयस्थलानि सन्ति । केवरा-जलबन्धः अस्य नगरस्य प्रसिद्धं पर्यटनस्थलम् अस्ति । “मनुबहन की टेकरी” इत्येतत् स्थलम् अपि भ्रमणाय उत्तमं स्थलं वर्तते । इदं स्थलं पर्वतीयक्षेत्रे स्थितम् अस्ति । इदं स्थलं जैनधर्मस्य अपि धार्मिकस्थलम् अस्ति । शाहपुरा-तडागः भोपाल-नगरस्य बाह्यक्षेत्रे स्थितः अस्ति । स्थानीयजनेषु अयं तडागः लोकप्रियः वर्तते । भोपाल-नगरात् ७ किलोमीटर्मिते दूरे स्थितं भगवतः शिवस्य गुहा-मन्दिरं प्रसिद्धम् अस्ति । भोपाल-नगरे बहूनि ऐतिहासिकानि भवनानि सन्ति । तेषु भवनेषु गौहर-भवनं, शौकत-भवनं, “पुराना किला”, “सदर मञ्जिल” च अन्यतमानि सन्ति ।

राज्ञा भोजेन ई. स. १००० तः १०५५ पर्यन्तं भोपाल-नगरं संस्थापितम् आसीत् । राजा भोजः परमारवंशस्य शासकः आसीत् । “दोस्त मुहम्मद खान” इत्याख्येन अष्टादशशताब्द्याः उत्तरार्धे अस्य नगरस्य आधुनिकविकासः कृतः । अनन्तरं बहुभिः शासकैः शासनं कृतम् आसीत् । “हसीदुल्लाह खान” इत्याख्यः अस्य नगरस्य अन्तिमः शासकः आसीत् । भोपाल-नगरस्य वास्तुकलासु, भोजने, सङ्गीते, कलासु, संस्कृतिषु, पाककलासु च वैदेशिकप्रभावाः दृश्यन्ते । ई. स. १९४९ तमस्य वर्षस्य अप्रैल-मासे भारते अस्य नगरस्य विलयः जातः । ततः प्रभृति भोपाल-नगरं विकासशीलम् अस्ति । भारतभवनं, मोती मस्जिद्, बिरलामन्दिरं, जामा मस्जिद् च भोपालनगरस्य आकर्षणस्य केन्द्राणि सन्ति । भोपालनगरस्य जलवायुः उष्णकटिबन्धीयः अस्ति । अक्टूबर-मासतः दिसम्बर-मासपर्यन्तम् अस्य नगरस्य वातावरणं पर्यटनाय उत्तमं भवति ।

भोपाल-नगरं भूमार्गेण भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । तत्र सर्वकारप्रचालितानि बसयानानि अपि प्रचलन्ति । भोपाल-नगरे एकं रेलस्थानकम् अस्ति । भोपाल-नगरात् देहली-महानगराय, कोलकाता-महानगराय, मुम्बई-महानगराय, इन्दौर-महानगराय, चेन्नै-महानगराय च नियमितरूपेण रेलयानानि प्राप्यन्ते । भोपाल-नगरे राजाभोज-विमानस्थानकं स्थितम् अस्ति । इदं विमानस्थानकं भोपालनगरात् १५ किलोमीटर्मिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् प्रतिदिनं राष्ट्रियाणि, अन्ताराष्ट्रियाणि च वायुयानानि प्राप्यन्ते । मुम्बई-महानगराय, देहली-महानगराय, इन्दौर-महानगराय, ग्वालिय-महानगराय च नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण भोपाल-नगरं भूमार्गेण, रेलमार्गेण, वायुमार्गेण च भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति ।

जबलपुरम्

जबलपुर-नगरं मध्यप्रदेशराज्यस्य जबलपुर-मण्डलस्य मुख्यालयः वर्तते । अत्र भेडाघाट-स्थले श्वेतशैलानां शिलाः सन्ति । अतः सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । अनेन कारणेन इदं नगरं “श्वेतशैलस्य नगरम्” इति कथ्यते । “भेडाघाट” इत्येतत् स्थलं जबलपुरनगरस्य पर्यटनस्थलं वर्तते । साम्प्रतं जबलपुर-नगरं महानगरम् अपि अस्ति । यतः औद्योगिकदृष्ट्या, शैक्षणिकदृष्ट्या च विकासशीलम् अस्ति । इदं नगरम् ऐतिहासिकम् अपि अस्ति । पुरा अस्मिन् नगरे गोण्ड-वंशजैः, कलीचुरी-वंशजैः च शासनं कृतम् आसीत् । अनन्तरं मराठा-वंशजैः, मुगल-वंशजैः च अपि शासनं कृतम् आसीत् । अनन्तरम् इदं नगरं ब्रिटिश्-सर्वकाराधीनम् आसीत् । अस्मिन् नगरे बहूनि तीर्थस्थलानि, पर्यटनस्थलानि च सन्ति । “चौंसठ योगिनी मन्दिर”, “पिसनहारी की मढिया”, “त्रिपुर सुंदरी मन्दिर” एतानि तीर्थस्थलानि प्रसिद्धानि सन्ति । तत्र “डुमना नेचर रिसर्व्” इत्येतत् अभयारण्यम् अपि वर्तते । जबलपुर-नगरस्य बरघी-जलबन्धः सम्पूर्णे भारते विख्यातः अस्ति । जनाः पर्यटनाय तत्र गच्छन्ति । तिलवारा-घट्टः, हनुमान-तडागः, सङ्ग्रामसागर-तडागः, मदनमहल-दुर्गः, “रानी दुर्गावती मेमोरियल म्यूजियम्” इत्यादीनि अस्य नगरस्य वीक्षणीयस्थलानि सन्ति ।

साम्प्रतम् अपि प्राचीनकालावशेषाः दुर्गेषु, मन्दिरेषु च प्राप्यन्ते । तेन कारणेन प्रतिवर्षं पर्यटकानां सङ्ख्या वर्धते । जबलपुर-नगरं मध्यप्रदेश-राज्यस्य “संस्कारधानी” इति अपि कथ्यते । कलाक्षेत्रे संस्कृतिक्षेत्रे च जबलपुर-नगरस्य ख्यातिः वर्तते । “राममनोहर सिन्हा” इत्याख्यस्य जन्म अपि जबलपुर-नगरे अभवत् । तेन भारतीयसंविधानस्य मूलप्रस्तावनायाः परिकल्पना (Design) कृता आसीत् । क्रीडाक्षेत्रे अपि जबलपुर-नगरं ख्यातम् अस्ति । यतः ब्रिटिश्-शासनकाले स्नूकर-क्रीडायाः आविष्कारः अस्मिन् नगरे एव अभवत् । शीतर्तौ जबलपुर-नगरस्य वातावरणं मनोहरं भवति । अतः तस्मिन् काले जनाः भ्रमणार्थं तत्र गच्छन्ति ।

जबलपुर-नगरं मध्यप्रदेश-राज्यस्य, महाराष्ट्र-राज्यस्य च विभिन्ननगरैः सह सम्बद्धम् अस्ति । जबलपुर-नगरे वैयक्तिकवाहनानि, सर्वकारप्रचालितानि बसयानानि च प्रचलन्ति । जबलपुर-नगरं भूमार्गेण भारतस्य प्रमुखनगरैः सह संलग्नम् अस्ति । जबलपुर-नगरे एकं रेलस्थानकम् अस्ति । देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय, अहमदाबाद-महानगराय, चेन्नै-महानगराय, भोपाल-महानगराय च जबलपुर-नगरात् नियमितरूपेण रेलयानानि प्राप्यन्ते । जबलपुर-नगरे “डुमना” इत्याख्यम् एकं लघुविमानस्थानकम् अस्ति । तद्विमानस्थानकं जबलपुर-नगरात् २० किलोमीटर्मिते दूरे स्थितम् अस्ति । तस्माद् विमानस्थानकात् मुम्बई-महानगराय, इन्दौर-महानगराय, देहली-महानगराय, भोपाल-महानगराय च वायुयानानि प्राप्यन्ते । अनेन प्रकारेण जबलपुर-नगरं भूमार्गेण, रेलमार्गेण, वायुमार्गेण च भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । तेन पर्यटकाः सरलतया जबलपुर-नगरं प्राप्तुं शक्नुवन्ति ।

ग्वालियर

ग्वालियर-नगरम् आग्रा-नगरस्य दक्षिणदिशि १२२ किलोमीटर्मिते दूरे स्थितमस्ति । इदं नगरं मध्यप्रदेशस्य पर्यटनराजधानी वर्तते । नगरमिदं मध्यप्रदेशराज्यस्य चतुर्थं बृहत्तमं नगरम् अस्ति । इदं नगरम् औद्योगिकं नगरं, प्रगतिशीलं च वर्तते । नगरमिदम् ऐतिहासिकं वर्तते । तत्र प्राचीनमन्दिराणि, प्राचीनभवनानि, स्मारकाः च सन्ति । तत्र एकः दुर्गः अस्ति । तस्मै दुर्गाय ग्वालियर-नगरं भारते प्रसिद्धम् अस्ति । सः दुर्गः उत्तरभारतीयराजवंशानां प्रशासनिककेन्द्रम् आसीत् । आधुनिकभारतस्य इतिहासे अपि ग्वालियर-नगरस्य स्थानं महत्त्वपूर्णम् अस्ति । अष्टमशताब्द्यां सूरजसेन इत्याख्येन राज्ञा ग्वालियर-नगरस्य स्थापना कृता । “ग्वालिपा” इत्याख्यस्य साधोः नाम्ना अस्य नगरस्य नाम “ग्वालियर” इति कृतम् । तेन साधुना राज्ञः कुष्ठरोगस्य उपचारः कृतः । षष्ठीशताब्द्यां हूणवंशस्य शासनम् आसीत् । अनन्तरम् कन्नौज-साम्राज्यस्य परिहारवंशजस्य आधीन्ये अभवत् । ई. स. ९२३ तमवर्षपर्यन्तं परिहार-राजभिः शासनं कृतम् आसीत् । ई. स. ११९६ तमे वर्षे देहली-साम्राज्यस्य “कुतुबुद्दीन ऐबक” इत्याख्येन राज्ञा इदं साम्राज्यं जितम् । ततः परं “शमसुद्दीन अल्तमश” इत्याख्येन राज्ञा ई. स. १२३२ तमवर्षपर्यन्तं शासनं कृतम् आसीत् । अस्मिन् नगरे मुगल-शासकैः अपि शासनं कृतम् । ई. स. १५५३ तमे वर्षे विक्रमादित्य-राज्ञा ग्वालियर-नगरं जितम् । अष्टादशशताब्द्यां, नवदशशताब्द्यां च “सिन्धिया” इत्याख्येन मराठा-शासकेन ब्रिटिश-जनैः सह ग्वालियर-नगरे शासनं कृतम् । ई. स. १८५७ तमे वर्षे मराठावंशस्य राज्ञ्या लक्ष्मीबाई इत्याख्यया ब्रिटिशशासकैः सह युद्धं कृतम् । तदा तस्याः मृत्युः अभवत् ।

ग्वालियर-दुर्गः, “फुल बाग”, सूरजकुण्डः, “हाथी पूल”, “मान मन्दिर महल”, “जय विलास महल” इत्यादीनि ग्वालियर-नगरस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति । भारतस्य प्रसिद्धः गायकः तानसेनः अपि अस्मिन् नगरे एव जनिं लेभे । ग्वालियर-नगरे प्रतिवर्षं “तानसेनसङ्गीतसमारोहः” आचर्यते । नगरमिदं सिक्ख-धर्मस्य, जैन-धर्मस्य च प्रसिद्धं तीर्थस्थलम् अस्ति ।

ग्वालियर-नगरं राष्ट्रियराजमार्गेण भारतस्य प्रमुखनगरैः च सह सम्बद्धम् अस्ति । देहली, आग्रा, इन्दौर, जयपुर, भोपाल च इत्यादिभ्यः नगरेभ्यः ग्वालियर-नगरात् बसयानानि प्राप्यन्ते । ग्वालियर-नगरे एकं रेलस्थानकम् अस्ति । तद् ग्वालियर-नगरस्य मध्ये स्थितम् अस्ति । इदं रेलस्थानकं देहली-चेन्नै-रेलमार्गस्य मुख्यं रेलस्थानकम् अस्ति । देहली, चेन्नै, कोलकाता, भोपाल, उज्जैन, इन्दौर, मुम्बई च इत्यादिभिः नगरैः सह सम्बद्धम् अस्ति । ततः तेभ्यः नगरेभ्यः प्रतिदिनं रेलयानानि प्राप्यन्ते । ग्वालियर-नगरे एकं विमानस्थानकम् अपि विद्यते । ग्वालियर-नगरात् विमानस्थानकं ८ किलोमीटर्मिते दूरे स्थितम् अस्ति । ततः देहली, वाराणसी, जयपुर, आग्रा, इन्दौर, मुम्बई इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । ग्वालियर-नगरस्य निकटतमम् अन्ताराष्ट्रियविमानस्थानकं देहली-नगरे अस्ति । ग्वालियर-नगरात् देहली-नगरस्य विमानस्थानकं ३२० किलोमीटर्मिते दूरे स्थितमस्ति । अनेन जनाः ग्वालियर-नगरं सरलतया प्राप्तुं शक्नुवन्ति ।

राजनीतिः

मध्यप्रदेश-राज्ये एकसदनात्मकं विधानमण्डलम् अस्ति । राज्यस्य विधानसभायाः सदस्यानां सङ्ख्या २३० अस्ति । राज्ये लोकसभायाः २९ स्थानानि, राज्यसभायाः ११ स्थानानि च सन्ति । “पं. रविशङ्कर शुक्ल” इत्याख्यः मध्यप्रदेश-राज्यस्य प्रथमः मुख्यमन्त्री आसीत् । “पं. कुञ्जीलाल दुबे” इत्याख्यः मध्यप्रदेशराज्यस्य विधानसभायाः प्रथमः अध्यक्षः आसीत् । “डॉ. बी. पट्टाभि सीतारामैया” इत्याख्यः मध्यप्रदेशराज्यस्य प्रथमः राज्यपालः अभवत् । ई. स. १९४४ तमस्य वर्षस्य जनवरी-मासस्य २५ तमे दिनाङ्के मध्यप्रदेशे “पञ्चायतराज-अधिनियमः” प्रस्थापितः । भारतीय जनता पार्टी, भारतीय राष्ट्रीय कॉङ्ग्रेस्, गोण्डवाना गणतन्त्र पार्टी, बहुजन समाज पार्टी, राष्ट्रीय समानता पार्टी च इत्यादयः मध्यप्रदेश-राज्यस्य प्रमुखाः राजनैतिकसमूहाः सन्ति । अस्य राज्यस्य मुख्यन्यायालयः जबलपुर-नगरे स्थितः अस्ति [7]

शिक्षणम्

२०११ वर्षस्य जनगणनानुसारं मध्यप्रदेश-राज्यस्य साक्षरतामानं ७०.२८ प्रतिशतम् अस्ति । तेषु पुरुषाणां साक्षरतामानं ८०.५३ प्रतिशतं, स्त्रीणां साक्षरतामानं ६०.०२ प्रतिशतम् अस्ति । ई. स. १९४६ तमे वर्षे सागर-नगरे “डॉ. हरिसिंह गौर विश्वविद्यालयस्य” स्थापना अभवत् । अयं मध्यप्रदेशराज्यस्य सर्वप्रथमः विश्वविद्यालयः आसीत् । अस्य राज्यस्य जबलपुर-मण्डलस्य साक्षरतामानं सर्वाधिकम् अस्ति । जबलपुर-मण्डलस्य साक्षरतामानं ८२.५ प्रतिशतम् अस्ति । अलीरजपुर-मण्डलस्य साक्षरतामानं न्यूनतमम् अस्ति । अस्य साक्षरतामानं ३७.२ प्रतिशतम् अस्ति ।

सागर-नगरस्य “डॉ. हरिसिंह विश्वविद्यालयः”, उज्जैन-नगरस्य “विक्रम विश्वविद्यालयः”, जबलपुर-नगरस्य “रानी दुर्गावती विश्वविद्यालयः”, इन्दौर-नगरस्य “देवी अहिल्या विश्वविद्यालयः”, ग्वालियर-नगरस्य “जीवाजी विश्वविद्यालयः”, रीवा-नगरस्य “अवधेश प्रतापसिंह विश्वविद्यालयः”. जबलपुर-नगरस्य “जवाहरलाल नेहरू कृषि विश्वविद्यालयः”, चित्रकूट-नगरस्य “महात्मा गान्धी चित्रकूट ग्रामोदय विश्वविद्यालयः”, भोपाल-नगरस्य “माखनलाल चतुर्वेदी राष्ट्रीय पत्रकारिता विश्वविद्यालयः”, भोपाल-नगरस्य “मध्यप्रदेश भोज मुक्त विश्वविद्यालयः” च इत्येतानि मध्यप्रदेशराज्यस्य प्रमुखाणि शैक्षणिकसंस्थानानि सन्ति [8]

भाषा

हिन्दीभाषा मध्यप्रदेशस्य प्रमुखा भाषा । अस्याः भाषायाः नैकानि जनपदरूपाणि अत्र प्रचलितानि सन्ति । तद्यथा- मालवाप्रान्तस्य मालवी, निमाडप्रान्तस्य निमाडी, बुन्देलखण्डप्रान्तस्य बुन्देली, बागेलखण्डप्रान्तस्य बागेली, अवधी च । एतानि सर्वाण्यपि हिन्दीभाषायाः रूपान्तराणि सन्ति । भिलोडी (भिल), गोण्डी, कोर्कु, कालटो (निहाली) इत्येताः मध्यप्रदेशस्य आदिवासिनां भाषाः । शतमानद्वयादपि अधिककालं यावत् अस्मिन् राज्ये मराठाः राज्यभारं कृतवन्तः । अतः केषुचित् प्रदेशेषु अद्यापि मराठीभाषायामेव जनाः व्यवहारं कुर्वन्ति । भोपाल इत्येतन्महानगरे 'अफ्घानिस्थान'-पाकिस्थानदेशाभ्यां प्रवर्ज्यागताः जनाः ’सर्याकी’-’पाश्तो’भाषयोः व्यवहारं कुर्वन्ति ।

साहित्यम्

सुप्रसिद्धः ज्योतिर्विदः वराहमिहिरः उज्जयिन्यां वासमकरोत् । धाराराज्यस्य भोजराजस्य आस्थाने कविभ्यः आदरभावः, आश्रयश्च आसीत् । राजा भोजः स्वयमपि श्रेष्ठः कविः आसीत् । तेन रचिताः कृतयः अद्यापि विराजन्ते । स्वेन धारानगरे स्थापितसंस्कृतपाठाशाला अद्याप्यस्ति । पाठशालायाः भित्तिषु संस्कृतभाषायाम् उत्कीर्णिताः श्लोकाः शोभन्ते । मध्यप्रदेशे न केवलम् एते, अन्येऽपि पण्डिताः - धनपालः, भर्तृहरिः, आशाधारः, मनतुङ्गः, ब्रह्मगुप्तः, भास्कराचार्यः इत्यादयः विराजितवन्तः । चन्द्रगुप्तस्य काले धन्वन्तरी, क्षपणकः (सिद्धसेनः), अमरसिंहः, सङ्कुः, वेतालभट्टः, घटकर्परः, कालिदासः, वराहमिहिरः तथा वररुचिः नवरत्नरूपाः दिग्गजाः विरजन्ते स्म । आधुनिकाः प्रसिद्धाः कवयः माखनलाल चतुर्वेदी, शरद जोशी, गजानन माधव मुक्तिबोध, विनोदकुमार शुक्ला इत्यादयः अत्रस्थाः एव सन्ति ।

नृत्यं सङ्गीतञ्च

मध्यप्रदेशः आदिवासिनां राज्यम् । पाश्चात्यादिदेशीयसंस्कृतेः प्रभावरहिताः अत्रस्थाः जनाः । परम्परागतस्वदेशीसंस्कृतिं अत्रस्थाः जनाः अद्यापि रक्षयन्तः सन्ति । अस्य प्रदेशस्य उत्सवादिषु, गीतनृत्येषु च पुरातनकालस्य साम्प्रदायिकस्वरूपं द्रष्टुं लभ्यते । 'कर्मा' इति तु मध्यप्रदेशस्य वायव्यभागे विद्यमानस्य ’गोण्ड’जनसमूहस्य एवम् ’ओरांव’समूहस्य च साम्प्रदायिकनृत्यमस्ति । इदं नृत्यम् अत्यन्तं प्राचीनम् इति परिगणितमस्ति । इदं नृत्यम् अधिकतया शरत्कालस्यारम्भे, वृष्टिकालस्यान्ते वा द्रष्टुं लभ्यते ।

कला, संस्कृतिश्च

मध्यप्रदेशराज्यं साहित्यिकदृष्ट्या समृद्धम् अस्ति । अस्मिन् राज्ये बहवः प्राचीनाः साहित्यकाराः, कवयः च अभवन् । तेषु शरभङ्गः, अगस्त्यः, महाकविः कालिदासः, नागार्जुनः, भवभूतिः, मण्डनमिश्रः गङ्गाधरः, ईशानः इत्यादयः अस्य राज्यस्य प्राचीनसाहित्यकाराः सन्ति । इतः परं “माखनलाल चतुर्वेदी", “सुभद्रा कुमारी चौहान”, “सेठ गोविन्ददास”, “द्वारिकाप्रसाद मिश्र” इत्यादयः आधुनिकसाहित्यकाराः सन्ति । अस्य प्रदेशस्य राजभाषा हिन्दी अस्ति । किन्तु अस्मिन् प्रदेशे अनुसूचितजातयः, अनुसूचितजनजातयः च निवसन्ति । अतः तासां भाषाः अपि विभिन्नाः भवन्ति । मध्यप्रदेशराज्यस्य ग्वालियर-नगरे राजवंशः निवसति स्म । तस्मिन् समये मानसिंहः ग्वालियर-नगरस्य राजा आसीत् । तेन भारतस्य प्रथमः सङ्गीतविद्यालयः प्रस्थापितः । तानसेनः अपि अस्मिन् विद्यालये सङ्गीतशिक्षणम् अधीतवान् । तानसेनस्य जन्म अपि मध्यप्रदेशे एव अभवत् । “उस्ताद् अलाउद्दीन खाँ” इत्याख्यः प्रसिद्धः सितार-वादकः आसीत् । सः “पं. रविशङ्करस्य” गुरुः आसीत् । “अली अकबर खाँ”, “उस्ताद हाकिम खाँ” च सरोद-वादकः आसीत् । एतौ अपि मध्यप्रदेश-राज्येन सह सम्बद्धौ आस्ताम् [9]

मध्यप्रदेशराज्ये पञ्च सांस्कृतिकक्षेत्राणि सन्ति । निमाड, मालवा, बुन्देलखण्ड, बघेलखण्ड, ग्वालियर च । प्रत्येकं क्षेत्रस्य संस्कृतिः भिन्ना वर्तते । तेषां क्षेत्राणां साहित्यम्, इतिहासः, कला, भाषा, वेशभूषा च भिन्ना अस्ति । मध्यप्रदेशस्स्य संस्कृतिः बहुधा वर्तते । मध्यप्रदेशे पञ्चसंस्कृतीनां समावेशः अस्ति । अपरं च जनजातीनाम् आदिमसंस्कृतेः अपि विस्तारः मध्यप्रदेशराज्ये अस्ति । अनेन प्रकारेण निमाड, मालवा, बुन्देलखण्ड, बघेलखण्ड, ग्वालियर इत्येतानि क्षेत्राणि सांस्कृतिकक्षेत्राणि सन्ति । धार-मण्डलं, झाबुआ-मण्डलं, मण्डला-मण्डलं, बालाघाटा-मण्डलं, छिन्दवाडा-मण्डलं, होशङ्गाबाद-मण्डलं, खण्डवा-मण्डलं, बुरहानपुर-मण्डलं, बैतूल-मण्डलं, रीवा-मण्डलं, सीधी-मण्डलं, शहडोल-मण्डलं च इत्यादीनि मण्डलानि जनजातीयक्षेत्राणि सन्ति । इन्दौर-नगरे, खजुराहो-नगरे, उज्जैन-नगरे, पचमढी-नगरे च नगरे मेला-उत्सवः आचर्यते । पचमढी-नगरे शिवरात्रिपर्वणि जनाः महोत्सवम् आचरन्ति । झाबुआ-नगरे “भगोरिया” इत्ययम् उत्सवः प्रमुखः वर्तते । “अखिल-भारतीय-कालिदास-महोत्सवः”, “तानसेन-महोत्सवः”, “अलाउद्दीन खाँ-उत्सवः”, “कुमारगन्धर्व-उत्सवः”, “खजुराहो-नृत्य-उत्सवः” च इत्यादयः मध्यप्रदेशराज्य प्रमुखाः सांस्कृतिकोत्सवाः सन्ति । दीपावलिपर्व, रक्षाबन्धनं, विजयादशमी चेत्यादयः उत्सवाः अपि आचर्यन्ते ।

निमाड

निमाड-क्षेत्रं मध्यप्रदेशस्य पश्चिमभागे स्थितम् अस्ति । अस्य क्षेत्रस्य एकस्मिन् पक्षे विन्ध्याचलपर्वतशृङ्खला, अपरे पक्षे सतपुडापर्वतशृङ्खला च वर्तते । अस्य क्षेत्रस्य मध्यभागे नर्मदा प्रवहति । पौराणिककाले निमाड-क्षेत्रम् “अनूप-जनपदः” कथ्यते स्म । समयान्तरे इदं “निमाड-क्षेत्रम्” इति नाम्ना ख्यातम् । अनन्तरम् इदं “पूर्व निमाड”, “पश्चिम निमाड” इत्येतयोः द्वयोः भागयोः विभागौ कृतौ ।

मालवा

मालवा-क्षेत्रं कालिदासस्य जन्मभूमिः अस्ति । अस्य क्षेत्रस्य भूमिः उर्वरा वर्तते । विन्ध्याचलशैलप्रस्थे स्थितम् इदं मालवाक्षेत्रम् । इदं क्षेत्रं मध्यप्रदेशराज्यस्य पश्चिमभागे स्थितम् अस्ति । मालवा-क्षेत्रस्य अधिकांशभागस्य कृषिः चम्बल-नदीजलेन क्रियते । अस्य क्षेत्रस्य पश्चिमभागः माही-नद्या सेसिच्यते । प्राचीनकाले इदं मालव इति नाम्ना ज्ञायते स्म । समुद्रतलात् अस्य क्षेत्रस्य औन्नत्यं ४९६ मी. अस्ति । चतुर्थशताब्द्याम् अस्मिन् क्षेत्रे मालव-जातेः जनाः निवसन्ति स्म । अतः तेन कारणेन अस्य नाम मालवा इत्यभवत् ।

बुन्देलखण्ड

बुन्देलखण्डक्षेत्रं मध्यभारतस्य प्राचीनक्षेत्रं वर्तते । “बुन्देली” इत्येषा अस्य क्षेत्रस्य प्रमुखा भाषा वर्तते । यद्यपि अस्य क्षेत्रस्य भौगोलिकी, सांस्कृतिकी च स्थितिः विविधा वर्तते । तथापि अस्य क्षेत्रस्य जनेषु ऐक्यं भवति । अस्मिन् क्षेत्रे बहुभिः शासकैः शासनं कृतम् । बुन्देलखण्ड-क्षेत्रस्य पश्चिमदिशि यमुनानदी, दक्षिणदिशि विन्ध्यपर्वतशृङ्खला, उत्तर-पश्चिमदिशि चम्बलनदी, दक्षिणपूर्वदिशि अजमगढश्रेणयः सन्ति । अस्मिन् क्षेत्रे उत्तरप्रदेशस्य जालौन-मण्डलं, झाँसी-मण्डलं, हमीरपुर-मण्डलं, बांदा-मण्डलम् इत्यादीनि चत्वारि मण्डलानि स्थितानि अस्ति । एवं च मध्यप्रदेशराज्यस्य सागर-मण्डलं, दतिया-मण्डलं, टीकमगढ-मण्डलं, छतरपुर-मण्डलं, पन्ना-मण्डलम् इत्यादीनि पञ्च मण्डलानि स्थितानि सन्ति । “अल्हा-ऊदल”, “ईसुरी”, “कविः पद्माकरः”, “झाँसी की रानी लक्ष्मीबाई”, “हरिसिंह गौर” इत्यादयः अस्य क्षेत्रस्य प्रमुखाः प्रसिद्धाश्च व्यक्तयः सन्ति ।

बघेलखण्ड

बघेलखण्ड-क्षेत्रं मध्यप्रदेशस्य उत्तरपूर्वदिशि स्थितम् अस्ति । अनूपपुर-मण्डलं, रीवा-मण्डलं, सतना-मण्डलं, शहडोल-मण्डलं, सीधी-मण्डलं, उमरिया-मण्डलम्, उत्तरप्रदेशराज्यस्य सोनभद्र-मण्डलं च अस्मिन् क्षेत्रे गण्यते । बघेलखण्ड-क्षेत्रं पौराणिककालीनं वर्तते । रामायणकाले इदं क्षेत्रं कोसल-प्रान्ते स्थितम् आसीत् । वर्तमानकालस्य सोहागपुर-नगरं पुरा विराटनगरम् इति नाम्ना ज्ञायते स्म । तत् विराट्नगरं महाभारतकाले बघेलखण्डे स्थितम् आसीत् । अस्य क्षेत्रस्य जनाः शैवाः, शाक्ताः, वैष्णवाः च सन्ति ।

ग्वालियर

इदं क्षेत्रं मध्यप्रदेशस्य मध्यभागः वर्तते । इदं चम्बलक्षेत्रम् अपि कथ्यते । अस्मिन् क्षेत्रे भारतस्य इतिहासस्य बहव्यः घटनाः घटिताः । ग्वालियर-नगरम् अस्य क्षेत्रस्य सांस्कृतिकम् आर्थिकं च केन्द्रम् आसीत् ।

खाद्यानि

विशालेऽस्मिन् राज्ये भिन्नभिन्नप्रान्तेषु खाद्यानि भिद्यन्ते । गोधूमस्य तथा मांसस्य खाद्यानाम् उत्तरपश्चिमभागयोः अधिकतया उपयोगः दृश्यते । पूर्वदक्षिणभागयोः तण्डुलस्य, मत्स्यस्य च खाद्यानाम् उपयोगं कुर्वन्ति । ग्वालियर्-इन्दौर इत्येतयोः नगरयोः क्षीरस्य तथा क्षीरनिर्मितखाद्यानां उपयोगम् अधिकतया कुर्वन्ति । मालवाप्रान्ते सस्याहारस्य प्राशस्त्यमस्ति । गुजरातराज्यस्य तथा राजस्थानराज्यस्य च खाद्यानां शैली अत्र दृश्यते । ’भुट्टे का कीस्’, गोधूमस्य 'हुड्' तथा दध्ना निर्मितं ’चक्की की शाक’ इत्येतानि खाद्यानि अस्य प्रदेशस्य मुख्यानि खाद्यानि इति परिगणितानि सन्ति ।

खाद्यानाम् आवलिः

  • मावा बाटि
  • खोपरा-पाक
  • श्रीखण्ड
  • मालपुवा
  • रोगन् जोश्
  • भूपाली मुर्ग् रेजाला
  • पनीर् रेजाला
  • गोष्टकूर्मा
  • पिलाफ् (पुलाव्)
  • बाप्ला रोटिका
  • पोहा
  • जलेबी
  • दाल-बाटी
  • चूर्मा

अर्थव्यवस्था, कृषिः च

मध्यप्रदेशराज्यं कृष्याधारितम् अस्ति । अस्मिन् राज्ये कृषिकार्यं प्रधानं वर्तते । अस्य राज्यस्य ७५ प्रतिशतं जनाः कृषिकार्ये आधारिताः सन्ति । अस्य राज्यस्य प्रायः ५० प्रतिशतं स्थलं कृषियोग्यम् अस्ति । चणकः, गोधूमः, तण्डुलाः, तैलबीजं, सोयाबीन् , कार्पासः च अस्य राज्यस्य प्रमुखाणि सस्यानि सन्ति । सम्पूर्णभारतस्य ८२ प्रतिशतं सोयामाष (Soybean)-सस्यम् अस्मिन् राज्ये उत्पाद्यते । अतः इदं “सोयामाष-प्रान्तः” इति नाम्ना अपि ज्ञायते । मध्यप्रदेशराज्यस्य इन्दौर-महानगरे “राष्ट्रिय-सोयाबीन-अनुसंधानकेन्द्रम्” अपि विद्यते । अस्मिन् राज्ये कृष्णमृत्तिका अधिकमात्रायां प्राप्यते । अतः कार्पासस्य, गोधूमस्य च कृषिः पर्याप्तमात्रायां क्रियते । शाजापुर-नगरं लवेटिका-सस्यस्य (corn) प्रमुखकेन्द्रं विद्यते । सेन्धवा-उपमण्डले, बडवानी-उपमण्डले लङ्गुरायाः (Millet) उत्पादनं क्रियते । निमाड-क्षेत्रे चणकस्य सर्वाधिकमात्रायाम् उत्पादनं भवति । मन्दसौर-मण्डलं पुलोमह्याः (Opium) उत्पादनाय भारते प्रसिद्धम् अस्ति । यद्यपि मध्यप्रदेशराज्यं भारतस्य द्वितीयं बृहत्तमं राज्यं वर्तते । प्राकृतिकसंसाधनैः, स्वस्थवातावरणेन, उर्वराकृष्या च इदं राज्यं समृद्धम् अस्ति । अतः मध्यप्रदेश-राज्यं विकासशीलं वर्तते । औद्योगिकक्षेत्रे, कृषिक्षेत्रे च मध्यप्रदेश-राज्ये व्यापारानुसारं निवेशः क्रियते [10]

उद्योगाः

मध्यप्रदेशराज्यं कृष्युत्पादनानां, वनोत्पादनानां, खानिजानां च उत्पादने अग्रगण्यं वर्तते । कार्पासवस्त्राणां, कौशेयवस्त्राणां, चर्मणः, कर्गजानां च उद्योगाः अस्मिन् राज्ये प्रचलन्तः सन्ति । ई. स. १९६५ तमे वर्षे भोपाल-नगरे “मध्यप्रदेश औद्योगिक विकास निगम” इत्यस्याः संस्थायाः स्थापना जाता । खण्डवा-मण्डलस्य नेपानगरे “नेशनल न्यूज् प्रिण्ट् एण्ड् पेपर् मिल्” इत्ययं यन्त्रागारः स्थितः अस्ति । राज्ये राष्ट्रियमुद्राणां यन्त्रागाराः अपि सन्ति । होशङ्गाबाद-नगरे राष्ट्रियमुद्राणां कर्गजाः निर्मीयन्ते । अनन्तरं देवास-नगरस्य यन्त्रागारे राष्ट्रियप्रचलितमुद्राणां मुद्रणं क्रियते । ग्वालियर-नगरे अग्निशलाकायाः यन्त्रागारः विद्यते । ई. स. १९६० तमे वर्षे भोपाल-नगरे “भारत भारी विद्युत् उपकरण लिमिटेड्” इत्याख्यः यन्त्रागारः ब्रिटेन्-देशस्य सर्वकारस्य साहाय्येन संस्थापितः [11]

वीक्षणीयस्थलानि

मध्यप्रदेश-राज्ये पर्यटनस्य बहूनि स्थलानि सन्ति । पर्यटनदृष्ट्या मध्यप्रदेशराज्यं समृद्धम् अस्ति । अस्मिन् राज्ये प्राकृतिकस्थलानि, वन्याभयारण्यानि ऐतिहासिकस्थलानि च सन्ति । मध्यप्रदेश-राज्यं भारतस्य हृदयं मन्यते । अस्य राज्यस्य इतिहासः, भौगोलिकस्थितिः, प्राकृतिकं सौन्दर्यं, सांस्कृतिकभवनानि च राष्ट्रियसम्पत्तिः अस्ति । भारतस्य विभिन्ननगरेभ्यः, विभिन्नदेशेभ्यः च जनाः मध्यप्रदेशराज्यस्य भ्रमणं कर्तुं समागच्छन्ति [12]

खजुराहो

खजुराहो इत्येतत् रमणीयं स्थलं मध्यप्रदेश-राज्यस्य छतरपुर-मण्डले स्थितम् अस्ति । इदं बुन्देलखण्ड-क्षेत्रे विराजते । विन्ध्यपर्वतशृङ्खलायाः समीपे स्थितम् अस्ति इदं स्थलम् । प्राचीनकाले खजुराहो इत्यस्य स्थलस्य “खजूरपुरा”, “खजूर वाहिका” इत्यादीनि नामानि आसन् । अत्र बहूनि हिन्दुमन्दिराणि, जैनमन्दिराणि च सन्ति । अस्मिन् स्थले खजुराहो-मन्दिरं विद्यते । तन्मन्दिरं सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । अस्य मन्दिरस्य स्तम्भेषु, भित्तिषु च मूर्तयः सन्ति । ताः मूर्तयः बलुआ-पाषाणेषु उत्कीर्णाः सन्ति । अतः मन्दिरमिदं विख्यातम् अस्ति । खजुराहो-स्थलस्य इतिहासः सहस्राधिकवर्षेभ्यः पुरातनः अस्ति । इदं चन्देल-साम्राज्यस्य राजधानी आसीत् । चन्द्रवर्मन् इत्याख्यः शासकः अस्य स्थलस्य स्थापकः आसीत् । चन्द्रवर्मणा मध्यकाले बुन्देलखण्ड-क्षेत्रे शासनं कृतम् आसीत् । दशमशताब्दीतः द्वादशशताब्दीपर्यन्तं चन्देल-राजभिः मध्यभारते शासनं कृतम् । ई.स. ९५० तः १०५० पर्यन्तं खजुराहो-मन्दिराणां निर्माणं चन्देल-राजभिः कारितम् आसीत् । तैः आहत्य पञ्चाशीतिः मन्दिराणि निर्मापितानि आसन् । साम्प्रतं तेषु मन्दिरेषु द्वाविंशतिः मन्दिराणि एव सन्ति । मन्दिरेऽस्मिन् शृङ्गारदृश्यानि उत्कीर्णानि सन्ति । ई. स. १९८६ तमे वर्षे “विश्वसंस्थानस्य शैक्षणिकवैज्ञानिकसांस्कृतिकसंस्थानेन (UNESCO)” इदं मन्दिरं वैश्विकसम्पत्तित्वेन उद्घोषितम् । तानि उत्कीर्णानि दृष्टुं जनाः तत्र गच्छन्ति । चतुष्षष्ठीयोगिनीमन्दिरं, जावेरीमन्दिरं, देवीजगदम्बामन्दिरं, विश्वनाथमन्दिरं, केन्द्रीयमहादेवमन्दिरं, लक्ष्मणमन्दिरं च इत्येतानि मन्दिराणि खजुराहो-स्थलस्य प्रसिद्धानि मन्दिराणि सन्ति । खजुराहो-स्थले नृत्यमहोत्सवः अपि आयोज्यते । इमं महोत्सवं प्रतिवर्षं फरवरी-मासस्य २५ दिनाङ्कतः मार्च-मासस्य २ दिनाङ्कपर्यन्तं जनाः आचरन्ति । विश्वस्य विभिन्नदेशेभ्यः जनाः उत्सवे समागच्छन्ति । अस्य स्थलस्य वातावरणं यद्यपि मनोहरं भवति, किन्तु अक्टूबर-मासतः मार्च-मासपर्यन्तं जनाः तत्र भ्रमणार्थं गच्छन्ति । ग्रीष्मर्तौ उष्णतायाः आधिक्येन तत्कालः न वरः । खजुराहो-स्थलं मध्यप्रदेश-राज्यस्य प्रमुखनगरैः सह भूमार्गेण सम्बद्धम् अस्ति । महोबा, जबलपुर, भोपाल, झांसी, ग्वालियर च इत्यादिभ्यः नगरेभ्यः नियमितरूपेण बसयानानि प्राप्यन्ते । जनाः वैयक्तिकवाहनैः अपि तत्र गच्छन्ति । तत्र एकं रेलस्थानकम् अस्ति । तत् मध्यप्रदेश-राज्यस्य समीपस्थैः नगरैः सह सम्बद्धम् अस्ति । इदं रेलस्थानकं लघु अस्ति । महोबा-नगरे अस्य समीपस्थं रेलस्थानकम् अस्ति । खजुराहो-स्थलात् महोबा-नगरं ६३ किलोमीटर्मिते दूरे स्थितम् अस्ति । खजुराहो-नगरे एकं विमानस्थानकम् अपि अस्ति । खजुराहो-नगरात् विमानस्थानकं ५ किलोमीटर्मिते दूरे स्थितम् अस्ति । भारतस्य मुम्बई, देहली, कोलकाता इत्यादिभिः प्रमुखनगरैः सह इदं विमानस्थानकं सम्बद्धम् अस्ति । विमानस्थानकात् भाटकयानानि, बसयानानि च प्राप्यन्ते । जनाः सरलतया खजुराहो-नगरं गन्तुं शक्नुवन्ति ।

उज्जैन

उज्जैन-नगरं मध्यप्रदेशराज्यस्य उज्जैन-मण्डलस्य मुख्यालयः अस्ति । इदम् ऐतिहासिकं नगरं विद्यते । पुरा इदं नगरम् “उज्जयिनी” इति नाम्ना ज्ञायते स्म । नगरमिदं क्षिप्रा-नद्याः तटे स्थितम् अस्ति । उज्जैन-नगरे बहूनि धार्मिकस्थलानि सन्ति । उज्जैन-नगरे अशोक-राज्ञा, विक्रमादित्य-राज्ञा च इत्यादिभिः राजभिः शासनं कृतम् आसीत् । वेदेषु, पुराणेषु च अपि उज्जैन-नगर्याः वर्णनं प्राप्यते । महाभारतकाले इदं नगरम् अवन्तिराज्यस्य राजधानी आसीत् । वराहमिहिरः, ब्रह्मगुप्तः च इत्यादयः प्रसिद्धाः पुरुषाः अनेन नगरेण सह सम्बद्धाः सन्ति । द्वादशज्योतिर्लिङ्गेषु महाकालेश्वरज्योतिर्लिङ्गम् अपि उज्जैन-नगरे स्थितम् अस्ति । चिन्तामणिगणेश-मन्दिरं, बडे गणेशमन्दिरं, हरसिद्धिमन्दिरं, विक्रमकीर्तिमन्दिरं, गोपालमन्दिरं, नवग्रहमन्दिरं च इत्यादीनि मन्दिराणि उज्जैन-नगरस्य प्रमुखाणि धार्मिकस्थलानि सन्ति । भर्तृहरिगुहाः, सान्दीपनी-आश्रमः, कालभैरवमन्दिरं, गढकालिकामन्दिरं, मङ्गलनाथमन्दिरं, मत्स्येन्द्रनाथमन्दिरं च अस्य नगरस्य पर्यटनस्थलानि सन्ति । तेषु “कालियादेह महल” इत्येतत् स्थलं वास्तुकलायै प्रसिद्धम् अस्ति । अतः जनाः तत्र गच्छन्ति ।

पुरा जयसिंह-राज्ञा वेद्यशाला निर्मापिता आसीत् । तेन भारतस्य बहुषु स्थानेषु अपि नैकाः वेद्य शालाः निर्मापिताः । ज्योतिषविद्यायै अपि उज्जैन-नगरं प्रसिद्धम् अस्ति । तत्र “कालिदास अकादमी” इत्याख्या संस्था स्थिता अस्ति । ई. स. १९७८ तमे वर्षे मध्यप्रदेशसर्वकारेण इयं संस्था संस्थापिता । तत्र कालिदासस्य कृतिषु अध्ययनकार्यं, संशोधनकार्यं च प्रचलति । शीतर्तौ जनाः तत्र भ्रमणार्थं गच्छन्ति । यतः ग्रीष्मर्तौ उष्णतायाः आधिक्येन वातावरनम् अनुकूलं न भवति । किन्तु अक्टूबर-मासतः मार्च-मार्च् पर्यन्तं वातावरणं शीतलं भवति । तेन जनाः आनन्देन तत्र भ्रमन्ति ।

उज्जैन-नगरं राष्ट्रियराजमार्गेण भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । भोपाल, इन्दौर, अहमदाबाद, ग्वालियर इत्यादिभ्यः नगरेभ्यः नियमितरूपेण बसयानानि प्राप्यन्ते । उज्जैन-नगरे एकं रेलस्थानकम् अस्ति । इन्दौर, मुम्बई, पुणे, कोलकाता, भोपाल च इत्यादिभिः प्रमुखनगरैः रेलयानानि प्राप्यन्ते । उज्जैन-नगरे विमानस्थानकं नास्ति । उज्जैन-नगरात् ५५ किलोमीटर्मिते दूरे इन्दौर-नगरं स्थितम् अस्ति । तस्मिन् नगरे “देवी अहिल्याबाई होल्कर विमानस्थानकम्” विद्यते । भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते ।

पेंच

पेंच-नगरं मध्यप्रदेश-राज्यस्य सिवनी-मण्डले स्थितम् अस्ति । नगरेऽस्मिन् “पेंच-राष्ट्रियोद्यानम्”, “पेंच टाईगर रिजर्व्” च अस्ति । अतः एव इदं नगरं प्रसिद्धम् अस्ति । उद्याने विविधप्रकारकाः वनस्पतयः, जीवजन्तवः च सन्ति । औषधीयपादपाः अपि बहुप्रकारकाः भवन्ति । वानरः, गन्धमार्जारः, भल्लूकः, व्याघ्रः, श्वा, शूकरः, चित्रकायः, मृगः च इत्यादयः उद्यानस्य मुख्याः पशवः सन्ति । पचधार-ग्रामः, नवेगांव-राष्ट्रियोद्यानं, कान्हा-राष्ट्रियोद्यानं, नागपुर-नागझिरा-अभयारण्यं च इत्यादयः पेंच-नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । “पेंच तुरिया गेट” इत्यस्मात् स्थलात् पचधार-ग्रामः १८ किलोमीटर्मिते दूरे स्थितः अस्ति । पेंच-नगरस्य समीपे विभिन्नजनजातीनां जनाः निवसन्ति । तेषां जनानां परम्परा, संस्कृतिः च अपि भिन्ना भवन्ति । पेंच-नगरात् कान्हा-राष्ट्रियोद्यानम् १९८ किलोमीटर्मिते दूरे स्थितम् अस्ति । प्रतिवर्षम् अक्टूबर-मासस्य १६ दिनाङ्कतः जून-मासस्य २३ तमदिनाङ्कपर्यन्तं पेंच-राष्ट्रियोद्यानस्य भ्रमणं कर्तुं शक्यते । यतः जुलाई-मासतः सितम्बर-मासपर्यन्तं वर्षर्तौ इदम् उद्यानं पिहितं भवति । फरवरी-मासतः अप्रैल-मासपर्यन्तं भ्रमणाय उत्तमकालं भवति । सिवनी-नगरस्य बसस्थानकं पेंच-नगरस्य समीपस्थं बसस्थानकम् अस्ति । ततः सिवनी-नगरं ३० किलोमीटर्मितम् अस्ति । सिवनी-नगरात् महाराष्ट्रस्य, मध्यप्रदेशस्य च प्रमुखनगरेभ्यः बसयानानि प्राप्यन्ते । पेंच-नगरस्य समीपस्थं रेलस्थानकं सिवनी-नगरे अस्ति । तत् ३० किलोमीटर्मिते दूरे स्थितम् अस्ति । ततः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । पेंच-नगरात् नागपुर-नगरस्य सोनेगांव-विमानस्थानकम् अस्ति । तत् १३२ किलोमीटर्मिते दूरे स्थितम् अस्ति । ततः पुणे, मुम्बई, देहली इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते ।

साँची

साँची-ग्रामः मध्यप्रदेश-राज्यस्य रायसेनमण्डले स्थितः अस्ति । पुरा अयं ग्रामः “विदिशागिरि” इति नाम्ना ज्ञायते स्म । अयं ग्रामः भोपाल-नगरस्य पूर्वोत्तरदिशि ४६ किलोमीटर्मिते दूरे स्थितः अस्ति । बेसनगरात्, विदिशा-नगरात् च १० किलोमीटर्मिते दूरे स्थितमस्ति । ग्रामः अयं मध्यप्रदेशराज्यस्य मध्यभागे विराजते । ग्रामेऽस्मिन् बहवः बौद्धस्मारकाणि सन्ति । तानि स्मारकाणि ई. स. पूर्व तृतीयशताब्दीतः द्वादशशताब्दीपर्यन्तकालस्य सन्ति । अस्मिन् ग्रामे बौद्धधर्मस्य एकः स्तूपः अपि स्थितः अस्ति । सः स्तूपः “साँचीस्तूपः” इति नाम्ना विश्वस्मिन् प्रसिद्धः अस्ति । बौद्धविहारः, साँचीसङ्ग्रहालयः, द ग्रेट् बाउल् ऑफ् गुप्ता, अशोकस्तम्भः च इत्यादीनि साँची-ग्रामस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । “साँची-ग्रामे बहूनि बौद्धस्मारकाणि सन्ति” इति सत्यम् अस्ति । साँची-ग्रामस्य इतिहासः भगवता बुद्धेन सह सम्बद्धः अस्ति । किन्तु आश्चर्यमस्ति यत् – “भगवान् बुद्धः साँची-ग्रामं कदापि न आगतवान्” इति ।

पुरा साँची-ग्रामः व्यापारिणां केन्द्रम् आसीत् । तैः व्यापारिभिः बौद्धप्रथायाः प्रचारः अपि कृतः । साँचीस्तूपस्य विषये एका कथा प्राप्यते यत् - “अशोकस्य शासनकाले “देवी” इत्याख्या कन्या आसीत् । सा बौद्धभक्ता आसीत् । अशोकः तस्यां स्निहति स्म । देव्या एव बौद्धस्तूपानां निर्माणाय अशोकः प्रेरितः । साँचीस्तूपस्य प्रवेशद्वाराणां वास्तुकला अद्भुता अस्ति । इदं स्थलं भारतस्य विशिष्टबौद्धस्थलेषु अन्यतमम् अस्ति । नवम्बर-मासतः फरवरी-मासपर्यन्तं साँची-ग्रामे धार्मिकोत्सवाः आचर्यन्ते । अतः जनाः तस्मिन् काले भ्रमणार्थं तत्र गच्छन्ति ।

साँची-ग्रामात् मध्यप्रदेशस्य विभिन्ननगरेभ्यः बसयानानि प्राप्यन्ते । जनाः वैयक्तिकवाहनैः, भाटकवाहनैः च तत्र गच्छन्ति । इन्दौर, भोपाल, विदिशा च इत्यादीनि नगराणि साँची-ग्रामेण सह सम्बद्धानि सन्ति । भोपाल-नगरे साँची-ग्रामस्य समीपस्थं रेलस्थानकम् अस्ति । भोपाल-नगरं साँची-ग्रामात् ५० किलोमीटर्मिते दूरे स्थितम् अस्ति । भोपाल-रेलस्थानकात् भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । ततः साँची-ग्रामाय बसयानानि, भाटकयानानि च प्राप्यन्ते । भोपाल-नगरे राजाभोज-विमानस्थानकम् विद्यते । साँची-ग्रामात् तद्विमानस्थानकं ४६ किलोमीटर्मिते दूरे स्थितम् अस्ति । देहली, मुम्बई, जबलपुर, इन्दौर, ग्वालियर इत्यादिभिः नगरैः सह राजाभोज-विमानस्थानकं सम्बद्धम् अस्ति । ततः तेभ्यः नगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । राजाभोज-विमानस्थानकात् साँची-ग्रामाय बसयानानि, भाटकयानानि च प्राप्यन्ते । जनाः सरलतया साँची-ग्रामं गन्तुं शक्नुवन्ति ।

स्तूपः

इटारसी

इटारसी-नगरं मध्यप्रदेश-राज्यस्य होशङ्गाबाद-मण्डले स्थितम् अस्ति । मध्यप्रदेशस्य प्रसिद्धं रेलस्थानकं, व्यापारिकं केन्द्रं च अस्ति इदं नगरम् । अस्य नगरस्य रेलस्थानकं प्राचीनतमं रेलस्थानकम् अस्ति । कृषिक्षेत्रे, औद्योगिकक्षेत्रे च अस्य नगरस्य विशिष्टं स्थानं वर्तते । इटारसी-नगरं हस्तकलायै, शिल्पकलायै, प्राचीनकलायै च भारते प्रसिद्धम् अस्ति । भोपाल-नगरात् ९० किलोमीटर्मिते दूरे स्थितम् अस्ति इदं नगरम् । हिन्दी-भाषायाः “ईंट”, “रस्सी” इत्येताभ्यां शब्दाभ्यां “इटारसी” नामोत्पत्तिः जाता । यतः अस्मिन् नगरे ईष्टिकायाः, रज्जोः व्यापारः प्रमुखः अस्ति । इटारसी-नगरे खानिजस्य प्रचूरमात्रा लभ्यते । अतः तत्र भारतीयसेनायै शस्त्रास्त्राणि निर्मीयन्ते । अस्मिन् नगरे बहवः यन्त्रागाराः सन्ति । अतः एव व्यावसायिकेन्द्रत्वेन सम्पूर्णे भारते विख्यातम् इदं नगरम् । इटारसी-नगरस्य समीपे पर्यटनस्थलानि अपि बहूनि सन्ति । बोरी-अभयारण्यं, तवा-जलबन्धः, बूढीमाता-मन्दिरं, बडा हनुमन् मन्दिरं, स्वप्नेवरहनुमन्-मन्दिरं, विन्ध्येश्वरीमाता-मन्दिरं, द्वारकाधीशमन्दिरं, मलोथर च इत्यादीनि इटारसी-नगरस्य वीक्षणीयस्थलानि सन्ति । शीतर्तुः अस्य नगरस्य भ्रमणाय उत्तमः कालः अस्ति ।

इटारसी-नगरं मध्यप्रदेशराज्यस्य व्यावसायिकं नगरम् अस्ति । अतः तत्र आवागमस्य श्रेष्ठव्यवस्था अस्ति । राष्ट्रियराजमार्गेण सह इदं नगरं सम्बद्धम् अस्ति । मध्यप्रदेशराज्यस्य इन्दौर, भोपाल, उज्जैन, ग्वालियर इत्यादिभिः प्रमुखनगरैः सम्बद्धम् अस्ति । इटारसी-नगरात् तेभ्यः नगरेभ्यः नियमितरूपेण बसयानानि प्राप्यन्ते । इटारसी-नगरे मध्यप्रदेशराज्यस्य प्राचीनतमं, बृहत्तमं च रेलस्थानकम् अस्ति । तद्विमानस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । ततः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते ।‘भोपाल-नगरस्य राजाभोज-विमानस्थानकम् इटारसी-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । इटारसी-नगरात् तद्विमानस्थानकं ९० किलोमीटर्मिते विद्यते । राजाभोज-विमानस्थानकात् इटारसी-नगराय भाटकयाननि, बसयानानि च प्राप्यन्ते ।

माण्डवगढ

माण्डवगढ-नगरं मध्यप्रदेशराज्यस्य धार-मण्डले स्थितम् अस्ति । माण्डू, शादियाबाद च इत्येते अस्य अपरे नामानि स्तः । पर्यटनदृष्ट्या माण्डवगढ-नगरं रमणीयं स्थलं, ऐतिहासिकं स्थलं च वर्तते । इदं नगरं मालवा-क्षेत्रे अस्ति । अतः मध्यप्रदेशसर्वकारः प्रतिवर्षं मालवा-समारोहस्य आयोजनं करोति । अतः तस्मिन् उत्सवे बहवः जनाः समागच्छन्ति । पुरा माण्डवगढ एकं लघुराज्यम् आसीत् । अफगान-देशस्य “दिलावर खान” इत्याख्येन राज्ञा अस्मिन् राज्ये शासनं कृतम् । “दिलावर खान” इत्याख्यस्य पुत्रः “होसाङ्ग शाह” आसीत् । तेन अपि ग्वालियर-राज्ये शासनम् कृतम् । सः एकः श्रेष्ठः राजा आसीत् । तेन ग्वालियर-राज्यस्य विकासः कृतः । अनन्तरम् अस्मिन् राज्ये मुगल-शासकैः अपि शासनं कृतम् । ई. स. १७३२ तमे वर्षे मराठा-शासकैः अस्मिन् राज्ये विजयः प्राप्तः । वर्षर्तौ माण्डवगढ-नगरस्य वातावरणं सौम्यं, मनोहरं च भवति । अतः तस्मिन् काले ग्वालियर-नगरस्य भ्रमणं वरम् । माण्डवगढ-नगरम् ऐतिहासिकदृष्ट्या अतीव महत्त्वपूर्णम् अस्ति । अस्मिन् नगरे वास्तुकलायाः अपि प्रतिकृतयः प्राप्यन्ते । “होसाङ्ग शाह” इत्याख्येन “होसाङ्ग मकबरा” श्वेतशैलैः निर्मापितम् आसीत् । “होसाङ्ग मकबरा” भारतस्य सर्वप्रथमं श्वेतशैलनिर्मिता रचना अस्ति । अस्याधारेण एव “शाहजहां” इत्याख्यः राजा “ताजमहल” निर्मापितुं प्रेरितः जातः ।

माण्डवगढ-नगरं राष्ट्रियराजमार्गेण, राजकीयराजमार्गेण च सम्बद्धम् अस्ति । माण्डवगढ-नगरात् भारतस्य विभिन्ननगरेभ्यः बसयानानि प्राप्यन्ते । माण्डु-नगरे रेलस्थानकं नास्ति । रतलाम-नगरस्य रेलस्थानकं माण्डवगढ-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । माण्डवगढ-नगरात् रतलाम-नगरं १०५ किलोमीटर्मिते दूरे स्थितम अस्ति । रतलाम-रेलस्थानकं देहली-मुम्बई-रेलमार्गस्य मुख्यरेलस्थानकम् अस्ति । भारतस्य प्रमुखनगरेभ्यः ततः रेलयानानि प्राप्यन्ते । रतलाम-नगरात् बसयानैः माण्डवगढ-नगरं प्राप्यते । माण्डवगढ-नगरस्य समीपस्थं विमानस्थानकम् इन्दौर-नगरे अस्ति । इन्दौर-नगरं १०० किलोमीटर्मिते दूरे स्थितमस्ति । देहली, मुम्बई, ग्वालियर, भोपाल इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः इन्दौर-विमानस्थानकात् नियमितरूपेण वायुयानानि प्राप्यन्ते ।

पन्ना

पन्ना-नगरं भारतस्य पन्नामण्डलस्य केन्द्रमस्ति । हीरकमणये सम्पूर्णभारते प्रसिद्धम् अस्ति इदं नगरम् । पन्ना-नगरस्य हीरकमणयः विश्वस्मिन् विक्रीयन्ते । पन्ना-नगरस्य हीरकमणीनां गुणवत्ता उत्तमा भवति । हिन्दुधर्मस्य अस्मिन् नगरे महत्त्वम् अधिकं विद्यते । पन्नाराष्ट्रियोद्यानं पन्ना-नगरस्य प्रमुखं वीक्षणीयस्थलम् अस्ति । पाण्डवगुहाः, पाण्डवजलप्रपाताः, उद्यानानि च अस्य नगरस्य प्राकृतिकस्थलानि सन्ति ।

पन्ना-नगरं राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । देहली, आग्रा, झाँसी, लखनऊ, फरीदाबाद, वाराणसी, नागपुर, जबलपुर, इलाहाबाद, ढोलपुर, इन्दौर, भोपाल च इत्यादिभिः प्रमुखनगरैः सह सम्बद्धम् अस्ति । पन्ना-नगरे रेलस्थानकं नास्ति । पन्ना-नगरस्य समीपे खजुराहो, सतना च इत्येते द्वे रेलस्थानके स्तः । पन्ना-नगरात् खजुराहो-नगरं ४५ किलोमीटर्मिते, सतना-नगरं ७५ किलोमीटर्मिते च दूरे स्थितमस्ति । ते रेलस्थानके भारतदेशस्य प्रमुखनगरैः च सम्बद्धे स्तः । ताभ्यां रेलस्थानकाभ्यां पन्ना-नगराय बसयानानि, भाटकयानानि च प्राप्यन्ते । पन्ना-नगरे विमानस्थानकम् अस्ति किन्तु साम्प्रतं तस्य उपयोगः न क्रियते । किन्तु खजुराहो-नगरे पन्ना-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । जनाः सरलतया पन्ना-नगरं प्राप्नुवन्ति ।

पचमढी

पचमढी-नगरं मध्यप्रदेश-राज्यस्य एकाकि एव पर्वतीयक्षेत्रम् अस्ति । पचमढी-स्थलं “सतपुडा की रानी”, “क्वीन् ऑफ् सतपुडा” वा इति नाम्ना ज्ञायते । सतपुडापर्वतशृङ्खलायाः भागः अस्ति इदं क्षेत्रम् । इदं स्थलं १११० मीटर्मिते औन्नत्ये स्थितम् अस्ति । पचमढी-नगरं गौण्ड्-जनजातेः आदिवासिवंशस्य राजधानी आसीत् । “भावुत सिंह” इत्याख्यः गौण्ड-आदिवासिनां राजा आसीत् । ई. स. १८५७ तमे वर्षे ब्रिटिश-सेनायाः जेम्स् फोरसिथ् इत्याख्येन नायकेन पचमढी-पर्वतीयक्षेत्रम् अन्विष्टम् । अस्य क्षेत्रस्य विकासाय तस्य योगदानम् अपि अस्ति । ई. स. २००९ तमे वर्षे “विश्वसंस्थानस्य शैक्षणिकवैज्ञानिकसांस्कृतिकसंस्थानेन (UNESCO)” इदं क्षेत्रं जीवमण्डलारक्षितक्षेत्रम् उद्घोषितम् आसीत् । पचमढी-क्षेत्रे बहूनि पर्यटनस्थलानि सन्ति । तत्र स्थितं “धूपगढ” इत्येतत् स्थलं विन्ध्य-सतपुडापर्वतशृङ्खलायाः, मध्यभारतस्य च उच्चतमः बिन्दुः अस्ति । पचमढी-स्थले प्राचीनगुहाः, स्मारकाणि, जलप्रपाताः, वनानि च सन्ति । एतानि स्थलानि पचमढी-नगरस्य आकर्षणस्य केन्द्राणि सन्ति । हांडी खोह, जटाशङ्करगुहा, पाण्डवगुहाः, अप्सराविहारः, बी फॉल्, डचेस् फॉल् च इत्यादयः पचमढी-नगरस्य वीक्षणीयस्थलानि सन्ति । यद्यपि पचमढी-नगरस्य वातावरणं सर्वदा सुखमयम्, आनन्दमयं च भवति, तथापि अक्टूबर-मासतः जून-मासपर्यन्तं पचमढी-नगरस्य वातावरणं सर्वोत्तमं भवति ।

पचमढी-नगरं मध्यप्रदेश-राज्यस्य विभिन्ननगरैः भूमार्गेण संलग्नम् अस्ति । महाराष्ट्र-राज्यस्य सर्वकारसञ्चालितानि बसयानानि अपि पचमढी-नगराय प्राप्यन्ते । भोपाल-नगराय, पिपरिया-नगराय, नागपुर-नगराय च अपि पचमढी-नगरात् बसयानानि प्राप्यन्ते । पिपरिया-नगरस्य रेलस्थानकं पचमढी-नगरस्य निकटतमं रेलस्थानकम् अस्ति । इदं पचमढी-नगरात् ४७ किलोमीटर्मिते दूरे स्थितम् अस्ति । भोपाल-नगरे अपि रेलस्थानकम् अस्ति । तत् पचमढी-नगरात् २०० किलोमीटर्मिते दूरे स्थितम् अस्ति । भोपाल-नगरे स्थितं “राजा भोज-विमानस्थानकं” पचमढी-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । इदं विमानस्थानकं पचमढी-नगरात् १९५ किलोमीटर्मिते दूरे स्थितमस्ति । तस्माद् विमानस्थानकात् दिल्ली-महानगराय, मुम्बई-महानगराय, ग्वालियर-नगराय, इन्दौर-महानगराय च वायुयानानि प्राप्यन्ते । “राजा भोज-विमानस्थानकात् पचमढी-नगराय बसयानानि, भाटकयानानि च प्राप्यन्ते ।

बान्धवगढ

बान्धवगढ इत्येतत् स्थलं मध्यप्रदेश-राज्यस्य रीवा-मण्डले स्थितम् अस्ति । इदं नगरं राष्ट्रियोद्यानाय भारते प्रसिद्धम् अस्ति । इदं नगरं श्वेतव्याघ्राणां निवासस्थानं मन्यते । रीवा-प्रान्तस्य राजा आखेटाय बान्धवगढ-स्थलस्य उपयोगं करोति स्म । तत्र पर्वतक्षेत्रे एकः दुर्गः अपि स्थितः अस्ति । प्रागेव इदं स्थलं राष्ट्रियोद्यानत्वेन मन्यते । पुरा इदम् अभयारण्यम् आखेटाय प्रसिद्धम् आसीत् । किन्तु साम्प्रतं सर्वकारेण अवैधाखेटाय प्रतिबन्धः कृतः । तेन व्याघ्राणां सङ्ख्या वर्धते । ई. स. १९६८ तमे बान्धवगढ-नगरं राष्ट्रियोद्यानत्वेन विख्यातम् अभवत् । भारते सर्वाधिकाः व्याघ्राः अस्मिन् अभयारण्ये वसन्ति । इतः परं चित्रकायाणां (Panthers), मृगानां च विभिन्नप्रजातयः प्राप्यन्ते । तत्र बहवः वन्यजीवाः अपि प्राप्यन्ते । अस्मिन् उद्याने विहगानां पञ्चाशताधिकद्विशतं प्रजातयः प्राप्यन्ते । तत्र विभिन्नप्रकाराकाः वृक्षाः, वनौषधयः चापि सन्ति ।

बान्धवगढ-दुर्गः, विन्ध्यपर्वतशृङ्खला च अस्य स्थलस्य प्रसिद्धे पर्यटनस्थले स्तः । मध्यप्रदेश-राज्ये नव राष्ट्रियोद्यानानि, पञ्चविंशति अभयारण्यानि च सन्ति । अतः एव इदं राज्यं सम्पूर्णे भारते विख्यातम् अस्ति । तेषु अभयारण्येषु बान्धवगढ-राष्ट्रियाभयारण्यं सर्वाधिकं प्रसिद्धम् अस्ति । अनेन कारणेन मध्यप्रदेशराज्यं “टाईगर् स्टेट्” इति कथ्यते । बान्धवगढ-नगरस्य प्राचीनाः गुहाः, घारपुरी-जलबन्धः, शेषशय्या, घोराडेमांव-जलप्रपातः, बघेल-सङ्ग्रहालयः च इत्यादीनि अस्य नगरस्य आकर्षणस्य स्थलानि सन्ति ।

बान्धवगढ-नगरं भूमार्गेण मध्यप्रदेशराज्यस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । मध्यप्रदेश-राज्यस्य सर्वकारेण प्रचालितानि बसयानानि नियमितरूपेण प्राप्यन्ते । कटनी-नगरस्य रेलस्थानकं बान्धवगढ-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । कटनी-रेलस्थानकात् वडोदरा-नगराय, मुम्बई-नगराय, बेङ्गळूरु-महानगराय, चेन्नै-महानगराय च इत्यादिभ्यः भारतस्य प्रमुकनगरेभ्यः रेलयानानि प्राप्यन्ते । कटनी-रेलस्थानकात् बान्धवगढ-नगराय बसयानानि, भाटकयानानि च सरलतया प्राप्यन्ते । जबलपुर-नगरस्य विमानस्थानकं बान्धवगढ-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । मुम्बई-महानगराय, देहली-महानगराय, इन्दौर-महानगराय च वायुयानानि प्राप्यन्ते ।

रीवा

रीवा-नगरं मध्यप्रदेश-राज्यस्य रीवा-मण्डलस्य मुख्यालयः अस्ति । अस्मिन् नगरे सङ्ग्रहालयाः, दुर्गाः, जलप्रपाताः, ऐतिहासिकस्थलानि च सन्ति । एतानि सर्वाणि स्थलानि प्राकृतिकानि, मानवनिर्मितानि च सन्ति । तत्र श्वेतव्याघ्राः अपि प्राप्यन्ते । इदं स्थलं चतुर्षु भागेषु विभक्तम् अस्ति यत् – “बिञ्झ-पर्वतः, अधस्तात् उत्तरीस्थलं, कायमोर-पर्वतः, रीवा-शैलप्रस्थः च । नर्मदा-नद्याः अपरं नाम रीवा अपि अस्ति । अतः अस्य नगरस्य नाम रीवा इति अभवत् । ई. पूर्व तृतीयशताब्द्यां मौर्यशासकानां शासनम् आसीत् । बाघैल-सङ्ग्रहालयः, रीवा-दुर्गः, “पीली कोठी”, गोविन्दगढ-दुर्गः, गोविन्दगढ-भवनं, वैङ्कट-भवनम्, “रानी तालाब”, “एपीएस् विश्वविद्यालय स्टेडियम्”, “भाईरोम बाबा - इत्याख्यस्य प्रतिमा”, रानीपुर कारचुलियन्, केओंती-जलप्रपातः, पुरवा-जलप्रपातः, चाचाय-जलप्रपातः च रीवा-नगरस्य पर्यटनस्थलानि सन्ति । वर्षतुः रीवा-नगरस्य भ्रमणार्थम् उत्तमः ऋतुः वर्तते । जुलाई-मासतः सितम्बर-मासपर्यन्तं जनाः तत्र पर्यटनाय गच्छन्ति । तस्मिन् काले रीवा-नगरस्य सौन्दर्यम् अतीव आह्लादकं दृश्यते ।

रीवा-नगरे मध्यप्रदेश-राज्यस्य सर्वकारेण प्रचालितानि बसयानानि प्राप्यन्ते । इदं नगरं भूमार्गेण मध्यप्रदेशराज्यस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । रीवा-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं रीवा-नगरात् ५.८ किलोमीटर्मिते दूरे स्थितम् अस्ति । भारतस्य, मध्यप्रदेशस्य च प्रमुकनगरेभ्यः रीवा-नगरात् नियमितरूपेण रेलयानानि प्राप्यन्ते । रीवा-नगरं भोपाल-नगरेण, देहली-महानगरेण, जयपुर-नगरेण इत्यादिभिः नगरैः सह सम्बद्धम् अस्ति । खजुराहो-नगरे रीवा-नगरस्य समीपस्थं विमानस्थानकमस्ति । खजुराहो-नगरात् रीवा-नगराय नियमितरूपेण बसयानानि, भाटकयानानि च प्राप्यन्ते ।

महेश्वर

महेश्वर-पत्तनं मध्यप्रदेश-राज्यस्य खरगौन-मण्डले स्थितम् अस्ति । अस्मिन् पत्तने हस्तनिर्मितानि वस्त्राणि प्राप्यन्ते । तत्र हस्तनिर्मिताः शाटिकाः अपि प्राप्यन्ते । अत एव इदं भारते प्रसिद्धम् अस्ति । सांस्कृतिकदृष्ट्या इदं पत्तनं समृद्धम् अस्ति । दुर्गाः, भवनानि, मन्दिराणि च अस्य नगरस्य आकर्षणकेन्द्राणि सन्ति । अस्य नगरस्य भवनानां वास्तुकला अपि अद्भुता अस्ति । अस्मिन् नगरे भगवतः शिवस्य बहूनि मन्दिराणि सन्ति । अस्य नगरस्य जनाः सर्वाणि पर्वाणि उत्साहपूर्वकम् आचरन्ति । शीतर्तौ महेश्वर-पत्तनं गन्तुम् उत्तमं भवति । अतः एव जनाः अक्टूबर-मासतः फरवरी-मासपर्यन्तं महेश्वर-पत्तनं गच्छन्ति ।

महेश्वर-पत्तने मध्यप्रदेशराज्यस्य सर्वकारेण प्रचालितानि बसयानानि प्राप्यन्ते । मध्यप्रदेशराज्यस्य विभिन्ननगरैः सह इदं पत्तनं सम्बद्धम् अस्ति । इन्दौर-महानगरस्य रेलस्थानकं महेश्वर-पत्तनस्य निकटतमं रेलस्थानकम् अस्ति । तत् महेश्वर-पत्तनात् ६६ किलोमीटर्मिते दूरे स्थितम् अस्ति । इन्दौर-नगरं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । इन्दौर-नगरात् महेश्वर-पत्तनाय नियमितरूपेण बसयानानि, भाटकयानानि च प्राप्यन्ते । इन्दौर-नगरस्य विमानस्थानकम् अपि महेश्वर-पत्तनस्य समीपस्थं विमानस्थानकम् अस्ति । भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण महेश्वर-पत्तनस्य परिवहनं सरलम् अस्ति । अतः जनाः सरलतया महेश्वर-पत्तनं प्राप्तुं शक्नुवन्ति ।

विदिशा

मध्यप्रदेशराज्यस्य विदिशामण्डलस्य मुख्यालयः अस्ति इदं नगरम् । अस्य नगरस्य प्राचीनं नाम “भिलसा” इति आसीत् । नगरमिदम् ऐतिहासिकम् अस्ति । नगरे प्राचीनावशेषाः, स्मारकाणि च प्राप्यन्ते । बेसनगरस्य अवशेषाः, उदयगिरि-नगरस्य गुहाः च गुप्तसाम्राज्यस्य प्रमाणभूताः सन्ति । २६०० वर्षेभ्यः पूर्वम् इदं नगरं प्रमुखव्यापारकेन्द्रम् आसीत् । १००० वर्षेभ्यः पूर्वम् अशोक-राजा विदिशा-साम्राज्यस्य राज्यपालः आसीत् । इदं स्थलं भोपाल-नगरस्य समीपे एव स्थितम् अस्ति । अस्मिन् नगरे बहूनि पर्यटनस्थलानि सन्ति । तत्र प्राचीनमूर्तयः, शिलालेखाः, भग्नावशेषाः च प्राप्यन्ते । गिरधारी-मन्दिरं, उदयेश्वर-मन्दिरं, दशावतार-मन्दिरं, मालादेवी-मन्दिरं, बाजरामठ-मन्दिरं, गाडरमल-मन्दिरं, “सोला खम्बी-मन्दिरं” च इत्येतानि विदिशा-नगरस्य वीक्षणीयस्थलानि सन्ति । बीजामण्डलम् अस्य नगरस्य प्रमुखं तीर्थस्थलम् आसीत् । किन्तु साम्प्रतं तस्य मन्दिरस्य भग्नावशेषाः एव प्राप्यन्ते । सिरोञ्ज-जैनसमुदायस्य प्रसिद्धं तीर्थस्थलं मन्यते इदं नगरम् । तत्र हेलियोडोरस-स्तम्भः वर्तते । सः स्तम्भः “खम्बा बाबा” इति नाम्ना ज्ञायते । उदयगिरि-गुहाः, शालभञ्जिका, ग्यारसपुरस्य मूर्तयः च इत्येतानि आकर्षणस्य केन्द्राणि सन्ति । “लोहङ्गी पीर”, “हिण्डोला तोरण” च इमे अपि अस्य नगरस्य ऐतिहासिके स्थले स्तः । शीतर्तौ जनाः विदिशा-नगरं गच्छन्ति । तस्मिन् समये वातावरणं मनोहरं भवति ।

विदिशा-नगरं भूमार्गेण भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । मध्यप्रदेशराज्यस्य सर्वकारेण प्रचालितानि बसयानानि अपि प्रचलन्ति । भोपाल-नगरात्, उदयपुर-नगरात् च विदिशा-नगराय नियमितरूपेण बसयानानि प्राप्यन्ते । विदिशा-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं देहली-चेन्नैरेलमार्गस्य प्रमुखं रेलस्थानकम् अस्ति । इदं रेलस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धमस्ति । इन्दौर-नगराय, देहली-महानगराय, मुम्बई-महानगराय इत्यादिभ्यः नगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । भोपाल-नगरे स्थितं “राजा भोज-विमानस्थानकं” विदिशा-नगरस्य समीपस्थं विमानस्थानकमस्ति । तद् विमानस्थानकं विदिशा-नगरात् ५६ किलोमीटर्मिते दूरे स्थितम् अस्ति । भोपाल-नगरात् अन्ताराष्ट्रियवायुयानानि अपि प्राप्यन्ते । अनेन प्रकारेण सरलतया विदिशा-नगरं प्राप्तुं शक्यते ।

खण्डवा

खण्डवा-नगरं मध्यप्रदेशराज्यस्य खण्डवा-मण्डलस्य मुख्यालयः अस्ति । इदम् एकम् ऐतिहासिकं नगरं वर्तते । अस्मिन् प्राचीने नगरे बहूनि मन्दिराणि, तीर्थस्थलानि, कुण्डाः च सन्ति । अत एव इदं नगरं “मन्दिराणां, कुण्डानां च नगरम्” इति कथ्यते । खण्डवा-नगरे जैनधर्मस्य मन्दिराणि अपि सन्ति । द्वादशशताब्द्यां खण्डवा-नगरे जैनधर्मानुयायिनां सङ्ख्या अधिका आसीत् । अतः इदं नगरं जैनधर्मस्य केन्द्रं मन्यते स्म । ब्रिटिश-शासनकाले खण्डवा-नगरं निमाड-क्षेत्रस्य प्रमुखं वाणिज्यकेन्द्रं मन्यते स्म । खण्डवा-नगरं चलच्चित्रजगतः “किशोरकुमार” इत्याख्यस्य पार्श्वगायकस्य जन्मस्थलम् अपि अस्ति । किशोरकुमारस्य “गौरीकुञ्ज” नामकं स्मारकम् अपि विद्यते । खण्डवा-नगरे बहूनि वीक्षणीयस्थलानि सन्ति । “भवानीमाता-मन्दिरं” खण्डवा-नगरस्य महत्त्वपूर्णं तीर्थस्थलं वर्तते । प्रतिवर्षं सहस्राधिकजनाः दर्शनार्थं तत्र गच्छन्ति । खण्डवा-नगरस्य समीपे ओङ्कारेश्वर-मन्दिरं स्थितम् अस्ति । तत्र “सिद्धवरकूट-मन्दिरं”, “ममलेश्वर-मन्दिरं” च स्थितम् अस्ति । तयोः सिद्धवरकूटं जैनधर्मस्य, ममलेश्वरं च हिन्दुधर्मस्य तीर्थस्थलं वर्तते । असीरगढ-दुर्गः अपि खण्डवा-नगरस्य आकर्षणस्य केन्द्रं विद्यते । अयं दुर्गः “डेक्कन्” इत्यस्य नेत्रत्वेन मन्यते । विश्वस्य विभिन्ननगरेभ्यः पर्यटकाः इमं दुर्गं दृष्टुं गच्छन्ति । खण्डवा-नगरे नैकाः जलबन्धाः सन्ति । तेषु जलबन्धेषु इन्दिरासागर-जलबन्धः, नग्चुन-जलबन्धः च पर्यटनाय महत्त्वपूर्णः अस्ति । अक्टूबर-मासतः मार्च-मासपर्यन्तम् अस्य नगरस्य वातावरणं मनोहरं भवति । अतः जनाः तस्मिन् काले भ्रमणार्थं तत्र गच्छन्ति ।

खण्डवा-नगरे मध्यप्रदेशराज्यस्य सर्वकारेण प्रचालितानि बसयानानि प्रचलन्ति । मध्यप्रदेश-राज्यस्य विभिन्ननगरेभ्यः खण्डवा-नगराय बसयानानि प्राप्यन्ते । खण्डवा-नगरं भूमार्गेण मध्यप्रदेशस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । खण्डवा-नगरे एकं रेलस्थानकम् अस्ति । इदं भोपाल-रेलस्थानकेन, इन्दौर-रेलस्थानकेन च सह सम्बद्धम् अस्ति । ताभ्यां नगराभ्यां प्रतिदिनं खण्डवा-नगराय रेलयानानि प्राप्यन्ते । देहली-महानगराय, मुम्बई-महानगराय, कोलकात-महानगराय, कोचीन-नगराय, बेङ्गळूरु-महानगराय, हैदराबाद-महानगराय, जम्मू-नगराय, पटना-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि रेलयानानि प्राप्यन्ते । इन्दौर-नगरस्य “देवी अहिल्याबाई होलकर” इत्येतत् विमानस्थानकं खण्डवा-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । खण्डवा-नगरात् इन्दौर-नगरं ११० किलोमीटर्मिते दूरे स्थितम् अस्ति । अनेन प्रकारेण खण्डवा-नगरं भारतस्य प्रमुखनगरैः सह भूमार्गेण, रेलमार्गेण, वायुमार्गेण च सम्बद्धम् अस्ति ।

उज्जयिनी-वैशिष्ट्यम्

मध्यप्रदेशस्य उज्जयिन्याम् आदिकविः कालिदासः (क्रि.श. ३७५ तः ४१५ पर्यन्तं) वासं करोति स्म इति प्रतीतिरस्ति । पुराणकाले अस्य नगरस्य अवन्तिकानगरमिति व्यवहारः आसीत् । अस्य नगरस्य अवन्ती, अवन्तिकापुरी, अवन्तिका, कुशस्थली, भगवती, कुमुद्वती, हिरण्यवती, विशाला इत्यादीनि नामान्तराण्यपि सन्ति । अत्रैव कृष्णबलरामयोः गुरोः सान्दीपनिमहर्षेः आश्रमः अस्ति । क्षिप्रानद्याः तटे महाकालस्य ईशस्य मन्दिरमस्ति । भारते विद्यमानेषु द्वादशज्योतिर्लिङ्गेषु अयं स्वयम्भूः ईशः इत्यतः अत्यन्तशक्तिमान् इति भक्तानां विश्वासः । दक्षिणाभिमुखः अयं ईशः इति महद्वैशिष्ट्यम् अस्य शिवलिङ्गस्य । एवम् अस्य वाहनस्य वृषभस्य मुखमपि दक्षिणदिशि वर्तते इति महद्वैशिष्ट्यम् । अतः अस्य शिवलिङ्गस्य ’दक्षिणामूर्तिः’ इत्यपि प्रसिद्धिरस्ति । अत्र प्रतिदीपावल्यां दीपोत्सवः महता वैभवेन आचर्यते । गरुडपुराणोक्तसप्त(अयोध्या, मथुरा, माया, काशी, काञ्ची, अवन्तिका, द्वारावती)पवित्रतमक्षेत्रेषु अन्यतमं क्षेत्रम् इदम् । 'एप्रिल्'-मासादारभ्य 'जून्'-मासाभ्यान्तरं ४५ 'डिग्री' औष्ण्यं भवति । 'अक्टोबर्'-मासादारभ्य 'जनवरी'-मासाभ्यान्तरम् उत्तमं वातावरणं भवति ।

महाकुम्भोत्सवः

द्वादशवर्षेषु एकवारम् अत्र महाकुम्भोत्सवः भवति । अस्मिन् शुभावसरे लक्षाधिकाः जनाः देशविदेशेभ्यः अत्र समागच्छन्ति । नर्मदानद्यां स्नात्वा पुनीताः भवन्ति । उत्सवसमये नागासाधवः एवम् अघोरिजनाः अत्र उपस्थिताः भवन्ति । नद्याः तटे नेत्रं प्रसारयामश्चेत् देवालयसमूहः दृश्यते । उज्जयिन्यां समयनिर्धारणसाधनानि सन्ति इत्यतः भारतस्य ’ग्रीन् विच्’ इति अस्य नगरस्य प्रसिद्धिरस्ति । ’जन्तर् मन्तर्’ मध्ये स्पष्टं समयं मापयितुं शक्यते । ईदृशाः ’जन्तर् मन्तर्’-प्रदेशाः भारते देहली-जयपुर्-वाराणसीनगरेषु राराजन्ते । जयपुरराज्यस्य राजा ईदृशवीक्षणालयान् निर्मापितवान् । खगोलशास्त्रस्य ज्ञानसम्पादनाय एवम् अन्तरिक्षस्य, सूर्यस्य, चन्द्रस्य, नक्षत्राणां च चलनादिविषयेषु ज्ञानसम्पादनाय वीक्षणालयाः सर्वदा उपयुक्ताः भवन्ति ।

परिवहनम्

भूमार्गः

मध्यप्रदेशराज्यस्य मार्गाणां दैर्घ्यं ७३,३११ किलोमीटर्मितम् अस्ति । तेषु राष्ट्रियराजमार्गाणां दैर्घ्यं ४२८० किलोमीटर्मिते, प्रान्तीयराजमार्गाणां दैर्घ्यं ८७२९ किलोमीटर्मिते च अस्ति । अस्मिन् राज्ये भूमार्गाणां निर्माणकार्यं निरन्तरं प्रचलत् अस्ति । प्रायः ६०,००० किलोमीटर्मिते मार्गाणां निर्माणं, नवीनीकरणं च भविष्यति । राज्ये सर्वकारप्रचालितानि बसयानानि अपि प्रचलन्ति । राज्यस्य पर्यटनस्थलानि गन्तुं तानि बसयानानि उपयुज्यन्ते । इदं राज्यं भूमार्गेण भारतस्य विभिन्नराज्यानां महानगरैः, नगरैः च सह सरलतया सम्बद्धम् अस्ति । मध्यप्रदेशराज्ये ई. स. २००५ तमं वर्षं “मार्गाणां वर्षम्” इति नाम्ना आचरितम् ।

धूमशकटमार्गः

मध्यप्रदेशराज्यस्य भोपाल-नगरे, बीना-नगरे, ग्वालियर-नगरे, इन्दौर-नगरे, इटारसी-नगरे, जबलपुर-नगरे, कटनी-नगरे, रतलाम-नगरे, उज्जैन-नगरे च प्रमुखाणि रेलस्थानकानि सन्ति । भोपाल-नगरे, रतलाम-नगरे, जबलपुर-नगरे च रेलविभागस्य क्षेत्रीयमुख्यालयाः स्थिताः सन्ति । एतेभ्यः रेलस्थानकेभ्यः भारतस्य मुख्यनगरेभ्यः नियमितत्वेन रेलयानानि प्राप्यन्ते । अनेन प्रकारेण इदं राज्यं भारतस्य सर्वैः राज्यैः सह धूमशकटमार्गेण सम्बद्धम् अस्ति ।

वायुमार्गः

मध्यप्रदेशराज्यस्य भोपाल-नगरे, ग्वालियर-नगरे, इन्दौर-नगरे, जबलपुर-नगरे, रीवा-नगरे, खजुराहो-नगरे च विमानस्थानकानि सन्ति । एतानि विमानस्थानकानि भारतस्य, विदेशस्य प्रमुखविमानस्थानकैः सह सम्बद्धाः सन्ति । एतेभ्यः विमानस्थानकेभ्यः भारतस्य विभिन्ननगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते ।

सम्बद्धाः लेखाः

सन्दर्भाः

  1. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ९५-९६
  2. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - ९६
  3. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ९७-९८
  4. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - ९८
  5. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ९१-९२
  6. http://hindi.nativeplanet.com/sitemap/
  7. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - ९३
  8. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - १००
  9. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १००-१०१
  10. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - ९९
  11. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - ९९
  12. http://hindi.nativeplanet.com/sitemap/

बाह्यानुबन्धाः

This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.