तमिळनाडुराज्यम्

तमिळनाडुराज्यम् (तमिऴ्: தமிழ்நாடு) भारतस्‍य दक्षिणभागे विद्यमानं राज्यम् अस्‍ति । भारतदेशे सुप्रसिद्धं तमिळुनाडुराज्यं विस्तारदृष्ट्या जनसङ्ख्यादृष्ट्या च एकादशे स्थाने अस्ति । सहस्रकिलोमीटरविस्तृतः सागरतीरप्रदेशः अस्ति । बङ्गालोपसागरतीरे, दक्षिणभागे हिन्दुमहासागरतीरे च अनेकानि देवस्थानानि तीर्थक्षेत्राणि च सन्ति । पश्चिमे अरब्बीसमुद्रः अस्ति । कावेरीनदीतीरे च अनेकदेवस्थानानि पुण्यक्षेत्राणि च सन्ति । तमिळ्नाडुराज्यं देवालयानां राज्यम् इति च कथयन्ति । प्राचीनशौल्या अत्र पूजाराधनोत्सवादयः प्रचलन्ति । जनाः प्रतिदिनं देवालयम् आगच्छन्ति । इति तु सर्वसाधारणः विषयः । परम्परया अत्र जीवनपद्धतिः यथापूर्वमेव अस्ति । द्राविडसंस्कृतिः अत्र दृष्टिगोचरा भवति । मुख्यतया तमिळ्भाषया संवादं कुर्वन्ति । क्वचित् पूजासु अपि तमिळुभाषायाः प्रयोगं कुर्वन्ति। तमिळ् मुख्यभाषा अस्ति ।

तमिळनाडुराज्यम्
தமிழ்நாடு
  राज्यम्  

'मुद्रा'
ध्येयवाक्यम्: सत्यमेव जयते
राज्यगीतम्: तमिळ तै वल्तु
भारतस्य भूपटे तमिळनाडुराज्यम् राज्यस्य स्थानम्
भारतस्य भूपटे तमिळनाडुराज्यम्
तमिळनाडुराज्यस्य भूपटःराज्यस्य स्थानम्
तमिळनाडुराज्यस्य भूपटः
Coordinates: 13.09°उत्तरदिक् 80.27°पूर्वदिक् / १३.०९; ८०.२७
देशः  भारतम्
स्थापिताम् २६ जनवरी १९५०
राजधानीः चेन्नै
बृहदतम्ननगरः चेन्नै
मण्दलानि ३३
सर्वकारः
  राज्यपालः बनवारीलाल पुरोहित
  मुख्यमंत्रीः एडप्पडि पलानिस्वामी, अन्ना ड्रॅविडा मुन्नेद्र कलगम
  Legislature Unicameral (234 seats)
  उच्चन्यायः मद्रासउच्चन्यायः
विस्तीर्णता
  संहतिः <
क्षेत्रविस्तारः ११
जनसङ्ख्या (2011)
  संहतिः ७२
  रैङ्क्
IST (UTC+05:30)
ऐ एस् ओ ३१६६ कोड् IN-TN
HDI 0.570 (medium)
HDI rank 6th (2011)
साक्षरताः 80.3% (2011)
आधिकारिकभाषाः तमिळभाषा
जालस्थानम् tn.gov.in

भौगोलिकस्थितिः

तमिळुनाडु भारतद्वीपगर्भस्य दक्षिणकोट्याम् अस्ति । उत्तरे कर्णाटकम् आन्ध्रप्रदेशः च स्तः । पश्चिमे केरलम् अस्ति । तमिळ्नाडुराज्यस्य पूर्वदिशि पाण्डीचेरी अथवा पुदुचेरी अस्ति । एतस्य प्रान्तस्य दक्षिणे हिन्दुमहासागरः अस्ति । तत्रैव श्रीलङ्काद्वीपः अपि अस्ति । भारते तमिळ्नाडुराज्यस्य तस्य विस्तारानुसारम् एकादशं स्थानम् अस्ति । जनसङ्ख्यानुगुणं सप्तमं स्थानम् अस्ति । एतत् भारतस्य जनसङ्ख्यायाः ६% भवति । वाणिज्यक्षेत्रे एतस्य प्रान्तस्य भागः१०.५६% भवति । एतस्य राज्यस्य प्रमुखा नदी कावेरी। सा कर्णाटकस्य कोडगुमण्डलस्य तलकावेरीनामकात् स्थानात् उद्भूय तमिळ्नाडुराज्ये प्रवहति । वैगै,ताम्रबरणी, पालारु,तेन्पेण्णै,पोरुणै इत्यादय: अनेका: नद्य: अत्र प्रवहन्ति । चेन्नै एतस्य प्रान्तस्य राजधानी अस्ति । एतत् नगरं १९९६ तमवर्षात् पूर्वं मदरास् इति अह्वयन्ति स्म । १९९६ तमे वर्षे सर्वकारेण “चेन्नै” इति नाम दत्तम् । तमिळ्नाडु क्रि.श. ५०० वर्षेभ्यः तमिळ्जनानां भूमिः अस्ति । प्रायः २००० वर्षेभ्यः अत्र ग्रन्थाः, साहित्यानि च तमिळ्भाषया लिख्यमानाः सन्ति । एषः प्रदेशः बहुविधप्राकृतिकवस्तूनां, हैन्दवदेवालयानां, द्रविडसंस्कारस्य च उत्पत्तिस्थानं भवति । एतस्मिन् स्थाने पर्वताः,सुन्दरसमुद्र्तीराः, बहुमतानाम् देवालयाः , ८ युनेस्को स्थलानि(वर्ल्ड् हेरिटेज् सैट्स्) च सन्ति ।

कालावस्था

तमिळ्नाडुराज्यं प्रायः वर्षाकालवृष्टिम् आश्रित्यैव अस्ति । तस्मिन् काले वृष्ट्यभावे जलसमस्या अनुभूयते तत्रत्यैः । सप्टम्बरमासात् डिसम्बर् मासाभ्यान्तरम् अत्र वर्षाकालः भवति । जनवरीमासत: जून-मासाभ्यान्तरम् शुष्कवातावरणं भवति ।

पूर्वचरितम्

तमिळ्नाडुराज्यस्य चरितरस्य कालः पूर्वचरितकालादारभ्य अस्ति । अस्मिन् प्रान्ते दीर्घकालीना, निरन्तरासंस्कृतिः अस्ति इति पुरातत्त्वावशेषविभागस्य(आर्कियालजिकल् डिपार्ट्मेन्ट्) निरूपणानि सन्ति । तानि तिरुनेल्वेलीनगरात् २५ किलोमीटर् दूरे विद्यमाने आदिच्चनल्लूर् इत्यस्मात् प्रदेशात् प्राप्तानि । तत्र१६९ मनुष्यकपालानि मृत्पात्राणि ,अस्थीनि, विविधधान्यानि इत्यदीनि वस्तूनि च प्राप्तवन्तः । तानि ३८०० वर्षपूर्वतां निरूपयन्ति । तत्र तमिळ्ब्ब्राह्मिलिपिः प्रयुक्ता दृश्यते । आदिच्चनल्लूर् प्रदेशे इतोऽपि संशोधनानि करणीयानि इत्यतः तत् पुरातत्त्वावशेषविभागस्थानम् इति उद्घोषितवन्तः सन्ति । भौगोलिकशास्त्रनिपुणा: ६५ मिलियन् वर्षपूर्वतनडैनोसार् मृगस्य अण्डान् अरियलूर् मण्डले आविष्कृतवन्तः सन्ति ।

मध्यकालः(६००-१३००)

सङ्घकाले चोळानाम् आधिक्यम् आसीत् । तथापि ते कानिचन शतकानि यावत् न आसन् । पाण्ड्यानां ,पल्लवानां च मध्ये विद्यमानायाः स्पर्धायाः काले एव चोळानां शासनम् आरब्धम् । चोळाः महाशक्तिमन्तः आसन् । तेषां शक्तेः ह्राससमये पाण्ड्या: पुनरुत्थानं प्राप्तवन्त: । एषः कालः हिन्दुमन्दिराणां, साहित्यानां च निर्माणस्य अत्युत्तमः कालः आसीत् । चेराः सङ्घकालात् पूर्वं दक्षिणतमिळ्नाडुप्रदेशस्य शासनं क्रुतवन्तः । कोयम्बत्तूर् ,करूर् ,सेलम् ,इत्यादीनि स्थलानि,इदानीन्तनकेरले विद्यमानाः केचन भागा: च चेरानाम् अधीने आसन् । चेरानां राजधानी पश्चिमे विद्यमानं वाञ्चिमुत्तूर् आसीत् । ते धान्यानां ,गजदन्तानां , मौक्तिकानां , रत्नानां वाणिज्यं कुर्वन्ति स्म । ईजिप्तदेशः , ग्रीस , श्रीलङ्का , फ्रोनीसिया , अरेबिया , मेसफोटोमिया , पर्शिया इत्यादिभिः पौराणिकसाम्राज्यैः सह तेषां वाणिज्यसम्पर्कः आसीत् । कलभराणाम् आक्रमणेन तमिळ्वंशीयानां त्रयाणाम् अपि शासनस्य क्षयः अभवत् । कलभराः सङ्घकालस्य तृतीयशतकात् षष्टशतकपर्यन्तं शासनं कृतवन्तः । एषः कालः तमिळ्चरिते अधमकालः अथवा अन्धकारकालः इति कथ्यते । ते षष्टशतके पाण्ड्यैः , पल्लवैश्च पराजिताः अभवन् । कलभराणां काले तमिळ्भूमौ जैनमतस्य विकासः जातः । तस्य बोधनार्थम् “नालडियार्” नामकः कश्चन ग्रन्थ: रचित: । सः ग्रन्थः ४० अध्यायेषु ४०० श्लोकैः जैनतत्वानि बोधयति । ’वेण्पा’ इत्येकस्मिन् छन्दसि रचितः अस्ति । नालडियार् इन्द्रियनिग्रहं , सरलजीवनं , त्यागचिन्तनं च बोधयति । यतः कलभराः हैन्दवानां , बौद्धानाञ्च रक्षणं कृतवन्त: । केचन कलभराणाम् हिन्दुत्वविरोधताम् कल्पयन्ति । तत्र शङ्का वर्तते । पल्लवानाम् अभ्युदयः चतुर्थशतकात् अष्टमशतकपर्यन्तम् महेन्द्रवर्मणः , तस्य पुत्रस्य मामल्लनरसिंहवर्मणः , तस्य पुत्रस्य बोधिधर्मस्य च काले द्रष्टुं शक्नुमः । पल्लवा: दक्षिणभारते काञ्चीपुरनगरं राजधानीं कृत्वा विस्तृतप्रदेशस्य शासनं कृतवन्तः । पल्लवानां कालः द्रविडभवननिर्माणकलायाः श्रेष्ठः कालः आसीत् । चेन्नैनगरस्थ महाबलिपुरे नरसिंहवर्मणा निर्मितं मन्दिरम् अस्ति । तत् युनेस्को स्थलम् (युनेस्को वर्ल्ड् हेरिटेज् सैट्) अस्ति । दशमशतके चोळैः पल्लवाः पराजिता: । त्रयोदशशतके पाण्ड्याः चोळान् जितवन्तः । पाण्ड्यानां राजधानी आसीत् मधुरै । तत् दक्षिणभारते समुद्रतटात् दूरे आसीत् । तथापि तेषां वाणिज्यसम्पर्क: विशालः आसीत् । तेषां वाणिज्यसम्पर्क: समुद्रतटस्थ साम्राजा श्रीविजयेन सह , रोमसाम्राज्येन सह च आसीत् । त्रयोदशशतके मार्कोपोलेन उल्लिखितं यत् पाण्ड्याः बहु धनिका: आसन् , पाण्ड्यसाम्राज्यं महत् धनिकसाम्राज्यम् आसीत् इति । मधुरै नगरस्थं मीनाक्षीमन्दिरं , तिरुनेल्वेलीनगरस्थं नेल्लैयप्पर् मन्दिरं च पाण्ड्यानां भवननिर्माणकलाया: उदाहरणम् । पाण्ड्यानां वाणिज्यसाहित्यक्षेत्रयोः नैपुण्यम् आसीत् । ते मौक्तिकस्य वाणिज्यं भारत- श्रीलङ्घयोः मध्ये उपस्थापितवन्तः। तानि मौक्तिकानि श्रेष्ठानि सुप्रसिद्धानि च आसन् तस्मिन् काले ।

चोळसाम्राज्यम्

नवमशतकानन्तरं द्वितीयः चोळः आसीत् चक्रवर्तिः आदित्यः । अस्य पुत्रः परान्तकचोळः । परान्तकचोळ: आन्ध्रप्रदेशस्य कांश्चन भागान् , कर्णाटकस्य भागान् च जित्वा स्वसाम्राज्यस्य विस्तारं कृतवान् आसीत् । राजराजचोळस्य , राजेन्द्र्चोळस्य च काले चोळवंशीया: दक्षिण-एशियायाम् उल्लेखार्हां शक्तिं प्राप्तवन्त: । चोळचक्रवर्ति: अतिदूरस्थबङ्गालपर्यन्तं स्वसाम्राज्यस्य विस्तारं कृतवन्तः आसन् । ३,६००,०००वर्गकिलोमीटर् परिमितस्थलानि तस्याधीने आसन् । राजराजचोळः दक्षिणभारतद्वीपगर्भं , श्रीलङ्कां च जितवान् । ततोऽपि अधिकः प्रदेशः राजेन्द्रचोळस्यवशे आसीत् । बर्मा(अधुना मियान्मर्) तः वियट्नां ,दक्षिणपूर्व-एशियायाम् अण्डमान् निकोबार् द्वीपाः , लक्षद्वीप: , सुमात्रा,माल्या,पेगु द्वीपा: च तस्याधीने आसन् । स: बङ्गागालदेशस्य महाराजस्य महिपालस्य पराजयम् कारितवान् । तस्य स्मारकरूपेण गङ्गैकोण्डचोळपुरम् नाम नूतनां राजधानीं सृष्टवान् । तस्याः समीपे मेलकडम्बूर् इत्यस्मिन् प्रदेशे मन्दिरमपि निर्मितवान् । तदेव अधुना " कर्कोविल् " इत्युच्यते । चोळानाम् मन्दिरनिर्माणकलायाः समुदाहरणम् अस्ति तञ्जावूर् बृहदीश्वरमन्दिरम् । तत् युनेस्को संरक्षितस्थलेषु अन्यतमम् । एतस्य गोपुरस्य छाया भूमौ न पतति । गोपुरस्य शिखरे विद्यमाना शिला अपि अखण्डा अस्ति । तिरुवण्णामलै नगरस्थम् अण्णामलैयार् मन्दिरं , चिदम्बरं नगरस्थं नटराजमन्दिरं च चोळनिर्मितेषु मन्दिरेषु सुप्रसिद्धे । राजराजचोळस्य, राजेन्द्रचोळस्य च कालः तमिळ्नाडुराज्यस्य सुवर्णकालः आसीत् । तयोः काले चोळसाम्राज्यं दक्षिणभारते शक्तियुक्तम् आसीत् । चोळानां क्षयकाल: १२३० तः १२८० पर्यन्तम् आसीत् । तदनन्तरं पुन: पाण्ड्यानाम् अभ्युदय: अभवत् मारवर्मा सुन्दरपाण्ड्यकाले, तस्यानुजः जातवर्मा पाण्ड्यकाले च । किन्तु तदा पाण्ड्यानां शासनम् अल्पकालं यावत् एव आसीत् । तदनन्तरम् १३१६ तमे वर्षे अल्लाविद्दीन् खिल्जेः सेना तस्य सेनधिपतेः मालिक् काफरस्य नेतृत्वे आक्रान्तवन्तः । मुसल्मान् जनानां शासनम् अपि अल्पकालिकम् एव आसीत् ।

विजयनगरीयाणाम्,नायकानां च कालः(१३३६-१६४६)

यवनानाम् आक्रमणेन हिन्दुविजयनगरसाम्राज्यस्य संवर्धने निरोधः जात: । तस्मात् समग्रतमिळ्प्रदेशस्य ह्रासकालः आसीत् । १३७० तमवर्षतः यदा ताळीकोटेयुद्धे पराजयः अभवत् तावत् पर्यन्तं तन्नाम १५६५ तमवर्षपर्यन्तं प्रायः शतकद्वयं यावत् नष्टदिशि एव आसीत् । युद्धे पराजयानन्तरं बहूनां राज्ञां नियन्त्रणं विजयनगरीयाणां हस्तात् गतम् । मधुरै नायकाः , तञ्जावूरनायकाः च विजयनगरसाम्राज्यस्य सम्पर्कं निवारितवन्तः । तदनन्तरम् तौ द्वौ अपि आत्मानं स्वतन्त्रौ इति उद्घोषितवन्तौ । नायकाः पूर्वम् विजयनगरीयैः एव निर्वहणार्थं विभिन्नप्रदेशेषु नियुक्ताः आसन् । परन्तु विजयनगरीयाणां पराजयकाले ते स्वातन्त्र्यम् उद्घुष्टवन्तः । तमिळ्नाडुराज्ये १७ शतके मधुरैनायकाः ,तञ्जावूरुनायकाः च प्रधानाः आसन् । ते मधुरैमीनाक्षीमन्दिरसदृशपौराणिकमन्दिराणां पुनर्निर्माणं कृतवन्तः ।

नवाबानां,निजामानां कालः(१६९२-१८०१)

१८शताब्देः आरम्भकाले तमिळ्नाडुराज्यस्य पूर्वदिशि विद्यमानाः केचन भागा: हैदराबाद् निजामस्य , कर्णाटकनवाबस्य अधीने अभवन् । वालाजा आङ्लेयानाम् आश्रयेन , चान्दसहिब् फ़्रेञ्चजनानाम् आश्रयेन च स्थितवन्तौ । १८शतकस्य आरम्भे तमिळ्नाडुराज्यस्य पश्चिमभागा: हैदराले: तस्य पुत्रस्य टिप्पुसुल्तानस्य च अधीने आगता: । विशिष्य तयोः आङ्लो-मैसूरु युद्धानन्तरम् ।

युरोपीयाणां शासनम्(१८०१-१९४७)

१६०९तमे वर्षे डच्जनाः पुलिकाट् पर्यन्तं साम्राज्यस्य विस्तरणं प्राप्तवन्तः (यदा दानिश् जनाः तरङ्गम्पाडिपर्यन्तं विस्तीर्णतां प्रप्तवन्तः तदा )। १६३९तमेवर्षे आङ्लेया: ब्रिटिष् ईस्ट् इण्डिया संस्थायाः अधीने सन्तः स्वसीमाम् पुलिकाट् प्रदेशस्य दक्षिणभाग(इदानीन्तनचेन्नै)पर्यन्तं विस्तरणं कृतवन्त: । १८ शतकस्य अन्ते आङ्ग्लेयाः भारते पाण्डिचेर्यां फ़्रेन्चजनैः सह सङ्ग्रामं कृत्वा तेषां प्राबल्यस्य दमनं कृतवन्तः । ईस्ट् इण्डिया संस्थया यदा पोलिगार्युद्धे जयः प्राप्तः तदा दक्षिणभारतस्य अधिकाः भागाः तेषाम् अधीना: अभवन् । तस्य “मद्रस् प्रेसिडेन्सी” इति अपि नाम दत्तवन्तः । अवशिष्टभागा: पुदुकोट्टै “प्रिन्स्लि स्टेट्” इति अभवत् ।

स्वतन्त्रभारते तमिळ्नाडु

१९४७तमे वर्षे भारतस्य स्वतन्त्र्यप्राप्तेः अनन्तरं “मद्रास् प्रेसिडेन्सी” “मद्रास् स्टेट्” अभवत् । तस्मिन् समुद्रतीरस्थः आन्ध्रप्रदेशः , ओरिस्सायाः गञ्जां मण्डलम् कर्णाटके [[दक्षिणकन्नडमण्डलम्|दक्षिणकन्नडमण्डलपर्यन्तं , केरळस्य केचन भागा: च अन्तर्भूता: आसन् । १९६९ तमे वर्षे भारतस्य भाषानुसारविभजनसमये “मद्रास् स्टेट् “ इति नाम “तमिळ्नाडु” इति परिवर्तितम्। तस्यार्थ: तमिळ्देश: इति ।

__SUB_LEVEL_SECTION_9__

शासनं , निर्वहणञ्च

गवर्नर् व्यवस्थानुगुणः अध्यक्ष: अस्ति । मुख्यमन्त्री शासनस्य मन्त्रीणां च अध्यक्षरूपेण भवति । मद्रास् उच्च न्यायालयस्य प्रधानन्यायादीश: एव न्यायसम्बद्धव्यवहारेषु अध्यक्ष: भवति । इदानीं गवर्नर् , मुख्यमन्त्री , न्यायाधीशश्च क्रमेण कोणीजेटि रोसैया , जे.जयललिता , एम्.आय्.इक्बाल् । निर्वहणदृष्ट्या एष: प्रान्त: ३२ मण्डलैः विभक्तः अस्ति । तस्मिन् १० महानगराणि , १२५ नगराणि , ५२९ नगरपञ्चायतस्थलानि ,१२५२४ ग्रामपञ्जायतस्थलानि च सन्ति । चेन्नै (पूर्वं मद्रास्) प्रान्तस्य राजधानी अस्ति । तत् भारते चतुर्थं बृहत् महानगरम् अस्ति । एतस्मिन् प्रान्ते ३९लोकसभास्थानानि, २३४ विधानसभास्थानानि च वर्तन्ते । भारतस्य अन्यप्रान्तेषु यथा पञ्जवर्षाणि शासनकाल: तथैव अत्रापि । अधुना ए.आय्.ए.डि.एम्.के. पक्षस्य शासनम् प्रचलति । ते २०११ तमे वर्षे अधिकारं प्राप्तवन्त: । तेषाम् ३३ मन्त्रिण: मुख्यमन्त्रिण्याः जे.जयललिताया: नेतृत्वे शासनं कुर्वन्त: सन्ति । विधानसभा( सट्टसभा)मेलनानि चेन्नैनगरे सेण्ट् जार्ज् दुर्गे प्रचलन्ति । पूर्वम् अत्र चतुर्वारं राष्ट्रपतिशासनम् आसीत् । प्रथमतया १९७६ वर्षत: १९७७ पर्यन्तम् ,१९८०तमे वर्षे अल्पकालम् , १९८८ वर्षात् १९८९ वर्षपर्यन्तम् , अन्ते १९९१ तमे वर्षे च । स्थानीयनिर्वहणं(राजस्वनिर्वहणम्) , संवर्धननिर्वहणम् इति द्विधा विभक्तं भवति । तमिळ्नाडुराजस्वनिर्वहणे राजस्वविभागा: , उपमण्डलानि च अन्तर्भवन्ति । निर्वहणविभाग: मण्डलानुसारेण विभक्तम् अस्ति । प्रत्येकं मण्डलम् उपमण्डलैः विभक्तम् । सर्वेषु अपि उपमण्डलेषु केचन राजस्वग्रामा: भवन्ति । तहसिल्दार् नामकः प्रमुख: एतेषाम् उपमण्डलानां प्रधानः अध्यक्ष: भवति । संवर्धननिर्वहणे ग्रामीणनिर्वहणार्थं पञ्चायतविभाग: भवति । पञ्चायत्विभागस्य अधीने द्वित्रा: पञ्चायत् ग्रामा: भवन्ति । नगरस्थलेषु स्थलस्य विस्तृतिम् अनुसृत्य महानगरसंस्थया वा नगरीयसम्स्थया वा ग्रामपञ्चायत् वभागेण वा निर्वहणम् क्रियते । तमिल्नाडु प्रान्ते १० महानगराणि सन्ति।तानि- चेन्नै,मदुरै,कोयम्बत्तूर्,तिरुच्चिराप्पल्ली,सेलम्,वेलूर्,तिरुनेल्वेली,ईरोड्,तिरुप्पूर्,तूत्तुकुडी । तमिल्नाडु शासका: ई-शासने अग्रेसरा: सन्ति । प्रभूतसर्वकार लेखा: (भू क्रयणस्य पञ्चीकरणपत्रादयः) सङ्गणकीकृतानि । सर्वकारकार्यालयेषु नगरस्थ स्थानीय कार्यालयाः,सर्वनगर,महानगर कार्याणि,राजस्वनिधेः सङ्ग्रहणम् इत्यादीनाम् व्यवहारः सङ्गणकद्वारा एव प्रचलति । अस्मिन् प्रान्ते न्यायपरिपालनमपि सुष्टु एव प्रचलति । अत्रत्य आरक्षकविभागस्य वयः १४० वर्षाणि । भारते प्रान्त आरक्षकेषु विस्त्रुतिम् अनुसृत्य पञ्चमम् स्थानम् अस्ति । देशे अत्यधिक आरक्षिका: अपि अत्रैव सन्ति । २००३ तमस्य वर्षस्य व्रुत्तानुसारम् ६६८ जनेभ्य: एकः इति रीत्या आरक्षकाः सन्ति अस्मिन् प्रान्ते । एतत् भारतस्य ७१७ जनेभ्यः एक: इत्यस्यापेक्षया अधिकम् ।

राजनीति क्षेत्रम्

स्वातन्त्र्यप्राप्तेः पूर्वम् तमिल्नाडु आङ्ग्लेयानाम् शासने आसीत् । तदानीम् अखिलभारत काङ्गरेस् पक्षः एव सर्वत्रापि प्रधानतया आसीत् । प्रादेशिकपक्षाणाम् आधिक्यम् अपि १९१६ पर्यन्तम् आसीत् । तस्मिन्नेव वर्षे तमिल्नाडु प्रान्ते “द्रविडपक्षः” इति अधुना यत् उच्यते तस्य पूर्वभूमिका रूपेण “सौत् इन्डियन् वेल् फ़ेर् अस्सोसियेश्न्” नाम्ना आरब्धा । ते अनन्तरम् जस्टिस् पक्षः इति आहूताः । अनन्तरकाले ते एव पुन: औपचरिकतया “सौत् इन्डियन् लिबेरल् फ़ेडरेशन्”(दक्षिणभरत स्वातन्त्र्य सम्स्था) इति नाम स्वीकृतवन्तः । अखिलभारत काङ्ग्रेस् पक्षीयाः अखण्डभारतम्,सम्पूर्णभारतस्य स्वातन्त्र्यप्राप्तिश्च इति घोषितवन्त: इति कारणेन ते जेयम् प्राप्तवन्तः । स्वातन्त्र्य आन्दोलनसमये मुत्तुरामलिङ्गत्तेवर् ,के.कामराज् ,सुब्रह्मण्यभारती (स्वस्य कविता शक्त्या स्वतन्त्राय जनान् प्रेरितवान्) ,सुब्रह्मण्यशिवा , व.उ.चिदम्बरम् पिल्लै ,तिरुप्पूर् कुमरन् ,राजगोपालाचार्या(राजाजी) ,सत्यमूर्तिः इत्यादयाः नेताराः आसन् । पेरियार् ई.वे.रमस्वामि जस्टिस् पक्षस्य लक्ष्यमार्गम् परिवर्तितवान् । तस्य नेतृत्वे जस्टिस् पक्षस्य वर्धनम् सम्यक् अभवत् । १९४४ तमे वर्षे जस्टिस्पक्षः इत्यस्य “ द्राविडर्कळगम् “ इति नामपरिवर्तनम् कृतवान् ई.वे.रामस्वामि । ते द्राविडनाडु (द्रविडदेशः) नाम्ना पृथक् स्वतन्त्रप्रान्तम् प्रार्थितवन्त: । कालान्तरे पक्षस्य नायकद्वयोरभ्यन्तरे (ई.वे.रा--अण्णातुरै) अभिप्रायभेदकारणेन पक्षस्य विच्छेदः अभवत् । अण्णातुरै द्राविडर्कळगम् त्यक्त्वा “द्राविडमुन्नेट्रकळगम् “ इति एकम् नूतनम् पक्षम् आरब्धवान् । द्र.मु.क पक्ष: १९५६ तमे वर्षे राजनीतिक्षेत्रे तीव्रतया प्रवेष्टुम् निश्चितवन्तः । १९ शताब्दौ पाश्चात्यपण्डिता: द्रविडभाषाः प्रभूततया दक्षिणभारते व्यवहारे सन्ति इति , उत्तरभारते इन्दो-आर्य भाषाणाम् प्रभावः अस्ति इति आविष्कृतवन्तः । ते भारतीयान् द्रविडाः ,आर्याः इति विभज्य तयोरभ्यन्तरे स्पर्धाम् कारितवन्त: । एतस्याम् स्पर्धायाम् कृष्णत्वचयुक्ताः द्रविडाः पृथक् कृता: । एतेन जनानाम् मनस्सु प्रादेशिकानुसार भेदभावः आरूढः । अतः भारतस्य भाषानुसार प्रान्तनिर्माणावसरे द्रविडा: भारतदेशात् प्रुथक् भूत्वा द्रविडेभ्यः पृथक् देश: आवश्यकः इति आदेशितवन्त: । १९६० तमे वर्षे द्र.मु.क पक्षस्य शीघ्रवर्धनम् ,श्क्तिप्राप्तिश्च अभवत् । तस्य कारणम् आसीत् हिन्दीविरुद्धभावना तत् सम्बन्धितम् कलहाश्च । द्र.मु.क.पक्ष: १९६७ तमे वर्षे निर्वाचने अखिलभारतकाङ्ग्रेस्पक्षम् जितवन्त: । काङ्ग्रस्पक्षस्य द्रुढग्राहणम् तमिल्नाडु मध्ये तदानीम् समाप्तम् । सी.एन्.अण्णातुरै द्र्.मु.क पक्षस्य प्रथम मुख्यमन्त्री अभवत् । अण्णातुरै महोदयस्य मरणानन्तरम् १९६९ तमे वर्षे पक्षस्य नायकत्वम्, मुख्यमन्त्री पदवीञ्च मुत्तुवेल् करुणानिधि: आप्तवान् । शीघ्रमेव करुणानिधे: नेत्रुत्वेन सह स्पर्धी कर्तुम् एम्.जी.रामचन्द्रः आगतः। १९७२ तमे वर्षे सः द्र.मु.क पक्षात् प्रुथक् गत्वा “ अखिल भारतीयअण्णाद्राविडमुन्नेट्र्कळ्गम् “नाम नूतनम् पक्षम् आरब्धवान् । एम्.जी.रामचन्द्रः १९७७ तः१९८७ पर्यन्तम् मुख्यमन्त्री आसीत् । तस्य मरणानन्तरम् अ.भा.अ.द्र.मु.क पक्ष: जानकीरामचन्द्रस्य नेत्रुत्वे, जे.जेयललिताया: नेत्रुत्वे इति द्विधा विभक्तः । तेन कारणेन १९८९ तमे वर्षे निर्वाचने अ.भा.अ.द्र.मु.क पक्षस्य पराजेय: अभवत् । अनन्तरकाले जे.जेयललिताया: वशमेव पूर्णपक्षः अपि आगतः । सा सम्युक्तपक्षस्य कार्यदर्शी रूपेण चिता । अद्य पर्यन्तम् सा एव तस्य पक्षस्य कार्यदर्शी अस्ति । द्र्.मु.क पक्षे, अ.भा.अ.द्र.मु.क.पक्षे अपि विच्छेदाः बहुधा अभवन् । तथापि एतयोर्मध्ये एक: एव तमिल्नाडु राज्यस्य शासनम् करोति ।

मण्डलानि -३०

इतिहासः

तमीळुनाडुराज्ये पूर्वं चोळाराजाः प्रशासनं कृतवन्तः । तेषा राजधानी तञ्जावूरु आसीत् । अनन्तरम् पल्लववंशीयानां प्रशासनम् आसीत् । तेषां राजधानी काञ्चिपुरम् आसीत् । पाण्डयराजाः मधुरैनगरं राजधानीं कृत्वा शासकाः अभवन् । तमिलुनाडुराज्यस्य राजधानी ‘चेन्नै’ अस्ति । राज्ये युगादिः, पोङ्गल् , दीपावलिः इत्यादिपर्वाणि विशिष्टानि भवन्ति।

नद्यः

ताम्रपर्णी, कावेरी, मणिकर्णिका, भवानी, अमृता, वेगै

सम्‍बन्‍धितविषया:

बाह्यानुबन्धाः

__SUB_LEVEL_SECTION_21__
This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.