मिजोरामराज्यम्

स्क्रिप्ट त्रुटि: "Settlement short description" ऐसा कोई मॉड्यूल नहीं है।

मिजोरामराज्यम्
Mizoram

Seal
भारते मिजोरामराज्यम्
राष्ट्रम्  भारतम्
उद्घोषणा २० फेब्रवरी १९८७
राजधानी ऐजोल
मण्डलम्
Government
  राज्यपालः एम एम लखेरा
  मुख्यमन्त्री जोरामथांगा
Area
  Total �.
Area rank २४ तम
Population
(२०११)
  Rank २७तम
Time zone UTC+05:30 (भारतीय कालगणनम्)
साक्षरतापरिमाणम् ९१.५८% (१५तम)
भाषा मिजो
Website http://mizoram.nic.in/

मिजोरामराज्यं (आङ्ग्ल: Mizoram) भारतदेशस्य ईशान्यभागे विद्यमानं राज्यम् । अस्य राज्यस्य राजधानी ऐजोल इत्येतन्नगरम् । ईशान्यभारते मिजोरामराज्यस्य स्थानं महत्त्वपूर्णम् विद्यते ।

भौगोलिकम्

अस्य राज्यस्य विस्तारः २१,०८१ च.कि.मी.मितः अस्ति । अस्य राज्यस्य पूर्वदक्षिणदिशोः म्यानमारदेशः अस्ति । पश्चिमदिशि बाङ्गलादेशः अस्ति । अस्मिन् राज्ये २०८ से.मी.मितः वार्षिकवृष्टिपातः भवति । मिजोरामप्रदेशः प्रकृतिसौन्दर्ययुक्तः वर्तते । विवधैः जन्तुभिः सुशोभते । विविधानि सस्यानि वनस्पत्यादीनि च विलसन्ति । ’मिजो’ पदस्य मिजोभाषायां पर्वतनिवासिनां स्थलम् इत्यर्थः । पर्वतप्रदेशः अधिकः अस्ति अतः सार्थकनाम ।

नद्यः

मिजोराम-राज्ये बह्व्यः नद्यः सन्ति । तलवाङ्ग-नदी, तलाऊ-नदी, तुईचाङ्ग-नदी, तुईरियअल-नदी, छिमतुईपुई-नदी च इत्यादयः मिजोराम-राज्यस्य प्रमुखाः नद्यः सन्ति । एतासु नदीषु छिमतुईपुई-नदी अस्य राज्यस्य दीर्घतमा नदी अस्ति । तमदील-तडागः, रङ्गदील-तडागः, पलक-तडागः इत्यादयः मिजोराम-राज्यस्य प्रमुखाः तडागाः सन्त् [1]

जलवायुः

अस्मिन् प्रदेशे पर्वतीयक्षेत्राणि ग्रीष्मर्तौ शीतलानि भवन्ति । किन्तु अधस्थानि क्षेत्राणि उष्णानि भवन्ति । शीतर्तौ अस्य राज्यस्य न्यूनतमं तापमानं प्रायः ११ डिग्रीसेल्सियस्-मात्रात्मकं भवति । ग्रीष्मर्तौ अस्य राज्यस्य अधिकतमं तापमानं ३० डिग्रीसेल्सियस्-मात्रात्मकं भवति । मई-मासतः दिसम्बर-मासपर्यन्तम् अस्मिन् राज्ये अधिकमात्रायां वृष्टिः भवति । सम्पूर्णे वर्षे अस्मिन् राज्ये प्रायः २,५०० मिलिमीटरमिता वर्षा भवति [2]

इतिहासः

१८९१ तमसंवत्सरे लुशायी प्रदेशनाम्ना आङ्ग्ल-प्रशासने आसीत् अयं प्रदेशः । १८९८ तमे संवत्सरे लुशायीपरिसरस्य मण्डलत्वेन स्थापना जाता । १९७२ तमसंवत्सरपर्यन्तं प्रदेशोऽयं अस्सामराज्यस्य मण्डलत्वेन समाविष्टः आसीत् । १९७२ तमे संवत्सरे मिजोरामपरिसरः केन्द्रशासितप्रदेशे समावेशितः । अन्ततः १९८७ तमे संवत्सरे भारतदेशस्य २३ तमगणराज्यत्वेन 'मिजोराम' नाम्ना अस्य प्रदेशस्य उद्घोषणा कृता सर्वकारेण । १९ शताब्दे आङ्ग्ल-शासकानाम् आधिपत्यम् आसीत् । अतः अत्र क्रिस्तधर्मस्य अधिकप्रभावः दृश्यते । मिजोभाषायाः स्वतन्त्रलिपिः नासीत् । आङ्ग्लाधिपत्य-प्रभावात् रोमन-लिपिः स्वीकृता तैः ।

जनसङ्ख्या

मिजोरामराजस्य जनसङ्ख्या (२०११) १०,९७,२०६ अस्ति । अत्र ५,५५,३३९ पुरुषाः, ५,४१,८६७ महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. ५२ जनाः निवसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. ५२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २३.४८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७६ अस्ति । अत्र साक्षरता ९१.३३% अस्ति ।

प्रमुखाः अंशाः

  • विस्तारः - २१,०८१ च.कि.मी.
  • जनसङ्ख्या - १०,९७,२०६ (२०११)
  • जनसङ्ख्या -
  • मिजो/लुशायी-६३.१%
  • म्हार-
  • पोयी- ८%
  • चकमा- ७.७%
  • राल्ते- ७%
  • पोवायी- ५.१%
  • कुकी- ४.६%
  • अन्य- ५.१%

मण्डलानि

महानगराणि

आईजोल

आईजोल-नगरं मिजोरम-राज्यस्य राजधानी अस्ति । इदं नगरं समुद्रतलात् ११३२ मीटरमितम् उन्नतम् अस्ति । अस्य नगरस्य उत्तरदिशि “दुर्तलैङ्ग” नामकानि पर्वतशिखराणि सन्ति । नगरमिदं तलौङ्ग-नद्याः तटे स्थितम् अस्ति । इयं नदी अस्य नगरस्य पश्चिमदिशि प्रवहति । अनया नद्या अस्य नगरस्य सौन्दर्ये वृद्धिर्भवति । नगरमिदम् अतीव पुरातनम् अस्ति । इदं नगरं विकासशीलनगरेषु अन्यतमम् अस्ति । अस्मिन् नगरे बहूनि वीक्षणीयस्थलानि सन्ति । अस्य नगरस्य समीपे तामदिल-तडागः अस्ति । अस्य तडागस्य सौन्दर्यम् अद्भुतम् अस्ति । वनतवाङ्ग-जलप्रपातः अस्य नगरस्य समीपे एव स्थितः अस्ति । अयं जलप्रपातः ७५० पादोन्नतः अस्ति । अयं मिजोराम-राज्यस्य सर्वोन्नतः जलप्रपातः अस्ति । तत्र फौङ्गपुई-नामकं मिजोराम-राज्यस्य उच्चतमं पर्वतशिखरम् अस्ति । आईजोल-नगरं मिजोराम-राज्यस्य सांस्कृतिककेन्द्रत्वेन विद्यते । अस्मिन् नगरे सङ्ग्रहालयः, सोलोमन-मन्दिरं, रङ्गदिल-तडागः च इत्यादीनि पर्यटनस्थलानि सन्ति । तेषु रङ्गदिल-तडागः युगलतडागः अस्ति । आईजोल-नगरस्य समीपे रीक-ग्रामः अस्ति । अयं ग्रामः सांस्कृतिकग्रामः कथ्यते । अस्मिन् ग्रामे मिजो-जनजातेः जनाः निवसन्ति । आईजोल-नगरस्य जलवायुः शीतोष्णः, सौम्यः च अस्ति । शीतर्तौ अस्य नगरस्य तापमानं प्रायः २० तः २९ डिग्रीसेल्सियस्-मात्रात्मकं भवति । शीतर्तौ अस्य तापमानं प्रायः ७ डिग्री-सेल्सियस्-मात्रात्मकं भवति । आइजोल-नगरे प्रतिवर्षं प्रायः २५४ सेन्टीमीटरमिता वर्षा भवति ।

आईजोल-नगरं ५४ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अयं राजमार्गः आइजोल-नगरं शिलाङ्ग-नगरेण, गुवाहाटी-नगरेण च सह सञ्योजयति । मिजोराम-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः जनाः मिजोराम-राज्यस्य वीक्षणीयस्थलानि गन्तुं शक्नुवन्ति । असम-राज्यस्य सिलचर-नगरस्य रेलस्थानकम् आइजोल-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकम् आइजोल-नगरात् १८० किलोमीटरमिते दूरे स्थितम् अस्ति । सिलचर-रेलस्थानकात् आइजोल-नगराय नियमितरूपेण बसयानानि, भाटकयानानि च प्राप्यन्ते । सिलचर-रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । लेङ्गपुई-नगरस्य विमानस्थानकम् आईजोल-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । ततः गुवाहाटी-नगराय, कोलकाता-नगराय च नियमितरूपेण वायुयानानि प्राप्यन्ते । आईजोल-नगरात् लेङ्गपुई-विमानस्थानकं ३५ किलोमीटरमिते दूरे स्थितम् अस्ति । तस्मात् विमानस्थानकात् बसयानैः, भाटकयानैः वा आईजोल-नगरं गन्तुं शक्यते ।

चम्पाई

चम्पाई-नगरं मिजोराम-राज्यस्य चम्पाई-मण्डलस्य केन्द्रं विद्यते । इदं मण्डलं “मिजोरम-राज्यस्य तण्डुलपात्रम्” इति कथ्यते । इदं मण्डलं परितः म्यान्मार-पर्वताः स्थिताः सन्ति । नगरमिदं पारम्परिकं, सांस्कृतिकं च वर्तते । इदम् उत्तरपूर्व-भारतस्य विशिष्टं पर्यटनस्थलं वर्तते । म्यान्मार-पर्वताः अस्य नगरस्य सौन्दर्यं वर्धयन्ति । अस्मिन् मण्डले मिजो-जनजातिः निवसति । मिजो-जनानां परम्परा अपि भिन्ना भवति । सांस्कृतिकदृष्ट्या, पारम्परिकदृष्ट्या च नगरमिदं समृद्धम् अस्ति । मिजोराम-राज्यस्य विकासशीलनगरेषु इदं नगरम् अन्यतमम् अस्ति । म्यान्मार-भारतयोः व्यापारद्वारत्वेन इदं नगरं मन्यते । किन्तु इदं स्थलं पर्यटनदृष्ट्या भारते प्रसिद्धं नास्ति । चम्पाई-मण्डले नैकानि पर्यटनस्थलानि सन्ति । “मुर्लेन-राष्ट्रियोद्यानं”, मुरा पुक, “रिह डिल तडागः”, “थासिआमा सेनो नैइहना” इत्यादीनि अस्य मण्डलस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति । अस्य मण्डलस्य जलवायुः सर्वदा सुखदः भवति । कस्मिँश्चिदपि समये चम्पाई-नगरस्य भ्रमणं कर्तुं शक्यते ।

चम्पाई-नगरम् आईजोल-नगरात् १९२ किलोमीटरमिते दूरे स्थितम् अस्ति । मिजोराम-राज्यस्य सर्वकारेण पर्यटकानां सौकर्याय बसयानानि प्रचालितानि सन्ति । मण्डलमिदं ५४ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । असम-राज्यस्य सिलचर-नगरस्य रेलस्थानकं चम्पाई-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । चम्पाई-नगरात् इदं रेलस्थानकं ३५२ किलोमीटरमिते दूरे स्थितम् अस्ति । सिलचर-रेलस्थानकात् चम्पाई-नगराय नियमितरूपेण बसयानानि, भाटकयानानि च प्राप्यन्ते । सिलचर-रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । लेङ्गपुई-नगरस्य विमानस्थानकं चम्पाई-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । ततः गुवाहाटी-नगराय, कोलकाता-नगराय, अगरतला-नगराय, इम्फाल-नगराय च नियमितरूपेण वायुयानानि प्राप्यन्ते । तस्मात् विमानस्थानकात् बसयानैः, भाटकयानैः वा चम्पाई-नगरं गन्तुं शक्यते । अनेन प्रकारेण जनाः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च चम्पाई-नगरं प्राप्तुं शक्नुवन्ति ।

शिक्षणम्

ई. स. २०११ तमस्य वर्षस्य जनगणनानुसारं मिजोराम-राज्यस्य साक्षरतामानं ९१.५६ प्रतिशतम् अस्ति । तेषु पुरुषाणां साक्षरतामानं ९३.७२ प्रतिशतं, स्त्रीणां साक्षरतामानं ८९.४० प्रतिशतं च अस्ति । मिजोराम-राज्यं भारतस्य साक्षरप्रदेशेषु द्वितीयम् अस्ति । अर्थात् शैक्षणिकदृष्ट्या इदं राज्यं द्वितीये क्रमाङ्के स्थितम् अस्ति । आइजोल-नगरे “नॉर्थ्-ईस्टर्न् हिल् विश्वविद्यालयः” स्थितः अस्ति । अयं विश्वविद्यालयस्य मुख्यालयः मेघालय-राज्यस्य शिलाङ्ग-नगरे स्थितः अस्ति । “नेशनल् इन्स्टीट्यूट् ऑफ् टेक्नोलॉजी”, “आई. सी. एफ्. ए. आई. युनिवर्सिटी”, “कॉलेज् ऑफ् वेटरनरी सायन्स् एण्ड् एनिमल् हस्बेण्डरी”, आइजोल-नगरस्य “रिजनल् इन्स्टीत्यूट् ऑफ् पेरामेडिकल् नर्सिङ्ग्” च इत्यादीनि मिजोराम-राज्यस्य प्रमुखाणि शैक्षणिकसंस्थानानि सन्ति । अस्मिन् राज्ये भारतस्य प्रसिद्धशैक्षणिकसंस्थानेषु अन्यतमानि शैक्षणिकसंस्थानानि विद्यन्ते [3]

राजनीतिः

मिजोराम-राज्ये एकसदनात्मकं विधानमण्डलम् अस्ति । अस्य राज्यस्य विधानसभायाः ४० स्थानानि सन्ति । मिजोराम-राज्ये लोकसभायाः एकं स्थानं, राज्यसभायाः चापि एकं स्थानम् अस्ति । लालडेङ्गा-इत्याख्यः अस्य राज्यस्य प्रथमः मुख्यमन्त्री आसीत् । “मिजो नेशनल् फ्रण्ट्”, ’मिजोराम पीपुल्स् कॉन्फ्रेन्स्”, “जोराम नेशनलिस्ट् पार्टी”, “मारालैण्ड् डेमोक्रेटिक् पार्टी”, “भारतीय राष्ट्रीय कॉङ्ग्रेस्” च इत्यादयः मिजोराम-राज्यस्य प्रमुखाः राजनैतिकाः समूहाः सन्ति [4]

अर्थव्यवस्था, कृषिः, उद्योगश्च

मिजोराम-राज्यस्य अर्थव्यवस्था कृष्याधारिता अस्ति । अस्य राज्यस्य ८० प्रतिशतं जनाः कृषिकार्येषु संलग्नाः सन्ति । २१ लक्षाधिक हेक्टेर् परिमिता भूमिः कृषिकार्यार्थम् उपयुक्ता । नारङ्गफलं, कदलीफलं, द्राक्षाफलं, मधुकर्कटी, आर्द्रकं, हरिद्रा, मरीचिका इत्यादीनि अस्य राज्यस्य प्रमुखसस्योत्पादनानि सन्ति । पुष्पाणि अपि समृद्धतया जनाः संवर्धयन्ति । पाटलपुष्पाणि, तेषु तेषु समयेषु उपलभ्यमाणानि पुष्पाणि, वनौषधयः च उपलभ्यन्ते । राज्येस्मिन् हस्तनिर्मितानां वस्तूनां, तण्डुलयन्त्रागाराणां, मुद्रणालयस्य च उद्योगाः सन्ति । अस्मिन् राज्ये विशेषरीत्या बृहदुद्योगाः न सन्ति । राज्येऽस्मिन् बहवः लघूद्योगाः सन्ति । यतः अधिकमात्रायाम् आदिवासिनः निवसन्ति । अतः ते लघूद्योगान् कुर्वन्ति । राज्यमिदं म्यान्मार-भारतस्य व्यापारिकं केन्द्रम् अस्ति । इदं व्यापारस्य द्वारत्वेन स्थितम् अस्ति । ई. स. १९८९ तमे वर्षे मिजोराम-राज्यस्य सर्वकारेण राज्यस्य औद्योगिकविकासाय औद्योगिकनीतेः घोषणा कृता आसीत् [5]

कला, संस्कृतिश्च

मिजो-जनजातेः बह्व्यः उपजातयः प्राप्यन्ते । तासु लुशाई, हमार, चकमा, पवी, लाखरे, राल्टे इत्यादयः उपजातयः सन्ति । अस्य राज्यस्य “बाँस-नृत्यं” प्रसिद्धम् अस्ति । अस्मिन् राज्ये एकस्मिन् सङ्ग्रहालये मिजोराम-राज्यस्य कलाकृतीनां वैविध्यपूर्णः सङ्ग्रहः अस्ति । मिजोराम-राज्यस्य उत्सवाः कृष्या सह सम्बद्धाः सन्ति । “पॉल कुट”, “चापचार”, “कुटमिम कुट” च इत्यादयः अस्य नगरस्य प्रमुखाः उत्सवाः सन्ति [6]

लोकजीवनम्

अस्य राज्यस्य बहुसङ्ख्यजनाः क्रैस्ताः सन्ति । मिजोजनाः मङ्गलोइड-जनजातिसम्बद्धाः वर्तन्ते । अस्यां जनजातौ जातिभेदाः, वर्गीकरणं च नास्ति । जनाः शान्ततापूर्णं, व्यवस्थितं च जीवन्ति । परिसरेऽस्मिन् जनानां गृहाणि विशिष्टानि सन्ति, पर्यटकान् च आकर्षन्ति । जनाः सामान्यतः मांसाहारिणः सन्ति । मण्डलेऽस्मिन् क्रिस्तिमिशनरी जनानां कार्यं बहु वर्तते । परिणामतः संस्कृत्यां पारम्परिकी-मिजो, क्रिस्ती-पाश्चात्त्यः इत्येतयोः संस्कृत्योः सङ्ग्रहणं दृश्यते । मिजोरामराज्ये अधिकतया मिजो जनाः सन्ति । ’राल्ते’, ’म्हार’, ’पोयी’, ’पवायी’ अन्यप्रमुखप्रजातयः सन्ति । मिजोजनजातिं विहाय ’चकमा’ मुख्या जातिः । मण्डलेऽस्मिन् मिजो, आङ्ग्ल, हिन्दी इत्येताः भाषाः प्रचलन्ति । शिक्षणसंस्थादिषु मिजोभाषायाः उपयोगः भवति । मिजोजनाः तेषां पारम्परिकीं 'पुआन्' इति वेशभूषां धरन्ति । मिजोजनानां चेरो, खोआल्लं, छेइह्लम् इत्येते विशिष्टनृत्यप्रकाराः सन्ति ।

उत्सवाः

मिजोरामराज्यस्य जनाः कृषीवलाः । अतः फलचयसङ्ग्रहणानन्तरम् उत्सवादिकम् आचरन्ति । उत्सवार्थं मिजोभाषायां 'कुट्' इति शब्दः । प्रसिद्धाः उत्सवाः त्रयः । ते चपचार कुट्, मिमकुट्, थालफवाङ्गकुट् च । अधिकाः क्रिस्ती-जनाः सन्ति अतः 'क्रिसमस'-पर्व उत्साहेन वैभवेन च जनाः आचरन्ति ।

वीक्षणीयस्थलानि

मिजोराम-राज्यं पर्वतीयक्षेत्रे स्थितम् अस्ति । अस्मिन् राज्ये बहूनि पर्यटकस्थलानि सन्ति । मिजोराम-राज्यस्य राजधानी आईजोल-नगरं मिजो-जनानां धार्मिकं सांस्कृतिकं च केन्द्रं विद्यते । राज्येस्मिन् जलप्रपाताः अपि सन्ति । वानताङ्ग-जलप्रपातः मिजोराम-प्रदेशस्य सर्वोन्नतः, सुन्दरश्च जलप्रपातः अस्ति । म्यान्मार-देशस्य सीमायां चमकाई नामकं स्थलम् अस्ति । अस्मिन् स्थले जनाः पर्यटनाय गच्छन्ति । अस्य स्थलस्य प्राकृतिकदृश्यानि सुन्दराणि, मनोहराणि च भवन्ति । राज्येऽस्मिन् तामदिल-नामकः प्राकृतिकतडागः अपि अस्ति । द ब्लू माउण्टेन् (फाङ्गुपूई), प्रसिद्धाः गुहाः, मिलू पुक, पुकजिङ्ग-गुहाः, सुआङ्ग, पईलान-शिलालेख, बुद्धमूर्तिः (मुआलवेङ्ग), इत्यादीनि मिजोराम-राज्यस्य पर्यटनस्थलानि सन्ति । स्थलमिदं पर्वतीयम् अस्ति । अतः पर्वतारोहिणः अपि तत्र गच्छन्ति । नद्यः अपि बह्व्यः सन्ति । उत्तरदिशः सप्तभगिनीषु (seven sisters) अन्यतमं राज्यम् अस्ति । इदं राज्यं नीलपर्वतेषु स्थितम् अस्ति । राज्यमिदं प्राकृतिकसौन्दर्येण परिपूर्णम् अस्ति । वनेषु विविधाः वनस्पतयः, पशवः च दृश्यन्ते ।

लुङ्गलेई

लुङ्गलेई-मण्डलं मिजोराम-राज्यस्य मण्डलेषु अन्यतमम् अस्ति । लुङ्गलेई-नगरम् अस्य मण्डलस्य केन्द्रं विद्यते । इदं “लुङ्गलेह” इति नाम्ना अपि ज्ञायते । “पाषाणसेतुः” इति तस्यार्थः भवति । लुङ्गलेई-नगरे विविधाः वनस्पतयः, जन्तवः च प्राप्यन्ते । अस्य नगरस्य समीपे बहूनि वीक्षणीयस्थलानि सन्ति । लुङ्गलेई-नगरस्य समीपे मुआल्चेङ्ग-ग्रामः अस्ति । अयं ग्रामः लुङ्गलेई-नगरात् ५० किलोमीटरमिते दूरे स्थितः अस्ति । तस्मिन् ग्रामे भगवतः बुद्धस्य प्रतिमा अस्ति । अयम् अस्य नगरस्य एकमात्रः बौद्धावशेषः अस्ति । अस्याः प्रतिमायाः विषये कोऽपि न जानाति यत् –“ इयं प्रतिमा कुतः समुद्भूता” इति । अतः एव इदं स्थलं रोचकम् अस्ति । “खौनग्लुङ्ग वाइल्डलाइफ सैङ्क्चुअरी”, “कौमजवी-उद्यानं”, “सैकुती हॉल्”, “थुआम्लूआइआ मुआल पादकन्दुकक्रीडाङ्गणं” च इत्यादीनि अस्य मण्डलस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति । अस्य मण्डलस्य वातावरणं सदैव मनोहरं, सुखदं च भवति । अतः जनाः कस्मिँश्चिदपि समये अस्य मण्डलस्य भ्रमणं कर्तुं शक्नोति । भारतस्य विभिन्ननगरेभ्यः जनाः तत्र गच्छन्ति ।

इदं मण्डलं ५४ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अयं राष्ट्रियराजमार्गः इदं मण्डलं राज्यस्य विभिन्ननगरैः सह सञ्योजयति । मिजोराम-राज्यस्य सर्वकारेण अपि बसयानानि प्रचालितानि सन्ति । अतः तैः बसयानैः अपि इदं मण्डलं प्राप्तुं शक्यते । मिजोराम-राज्ये रेलमुख्यालयः नास्ति । अतः असम-राज्यस्य सिलचर-नगरस्य रेलस्थानकं लुङ्गलेई-मण्डलस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकं भारतस्य कैश्चित् नगरैः सह सम्बद्धम् अस्ति । सिलचर-रेलस्थानकात् लुङ्गलेई-नगराय नियमितरूपेण बसयानानि, भाटकयानानि च प्राप्यन्ते । लेङ्गपुई-नगरस्य विमानस्थानकं लुङ्गलेई-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । ततः गुवाहाटी-नगराय, कोलकाता-नगराय च नियमितरूपेण वायुयानानि प्राप्यन्ते । लुङ्गलेई-नगरात् लेङ्गपुई-विमानस्थानकं १९३ किलोमीटरमिते दूरे स्थितम् अस्ति । तस्मात् विमानस्थानकात् बसयानैः, भाटकयानैः, वैयक्तिकवाहनैः वा लुङ्गलेई-नगरं गन्तुं शक्यते ।

थेनजोल

थेनजोल-ग्रामः मिजोराम-राज्यस्य सेरसिप-मण्डले स्थितः अस्ति । अयं ग्रामः सेरसिप-मण्डलस्य प्रमुखं पर्यटनस्थलम् अस्ति । पुरा अस्मिन् स्थले सघनं वनम् आसीत् । ई. स. १९६१ पर्यन्तं तत्र वन्यप्राणिनः एव दृश्यन्ते स्म । तदनन्तरं तत्र कृषिकार्यम् आरब्धम् । तत्पश्चात् ई. स. १९६३ तमे वर्षे “बेगुअइया सायलो” इत्याख्येन अयं ग्रामः वासितः । थेनजोल-ग्रामः आईजोल-नगरात् ४३ किलोमीटरमिते दूरे स्थितम् अस्ति । साम्प्रतम् अयं ग्रामः हस्तकलायै भारते विख्यातः अस्ति । स्थलमिदं सर्वोत्तमं पर्यटनस्थलं वर्तते । अस्मिन् स्थले विविधाः वनस्पतयः, जीवजन्तवः च सन्ति । तत्र वानताङ्ग-जलप्रपातः स्थितः अस्ति । अयं जलप्रपातः मिजोराम-राज्यस्य बृहत्तमेषु जलप्रपातेषु अन्यतमः अस्ति । तत्र “थेनजोल-मृगोद्यानं” मृगाणां गृहं कथ्यते । अस्य ग्रामस्य समीपे “च्वाङ्गचिल्ही-गुहा” अस्ति । कथ्यते यत् – “सा गुहा स्त्रीसर्पयोः प्रेमकथया सह सम्बद्धा अस्ति । आवर्षम् अस्य ग्रामस्य वातावरणं सामान्यं, स्वास्थ्यकरं, सुखदं च भवति । अतः जनाः कस्मिँश्चिदपि समये तत्र गच्छन्ति ।

थेनजोल-ग्रामः ५४ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितः अस्ति । थेनजोल-नगरात् आईजोल-नगरं गन्तुम् अयं राष्ट्रियराजमार्गः उपयुज्यते । थेनजोल-नगरात् आईजोल-नगरं ४३ किलोमीटरमिते दूरे स्थितम् अस्ति । सर्वकारेण प्रचालितैः बसयानैः अपि इमं ग्रामं प्राप्तुं शक्यते । असम-राज्यस्य सिलचर-नगरस्य रेलस्थानकं थेनजोल-ग्रामस्य समीपस्थं रेलस्थानकम् अस्ति । सिलचर-रेलस्थानकात् थेनजोल-ग्रामाय नियमितरूपेण बसयानानि, भाटकयानानि च प्राप्यन्ते । सिलचर-रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । लेङ्गपुई-नगरस्य विमानस्थानकं थेनजोल-ग्रामस्य समीपस्थं विमानस्थानकम् अस्ति । ततः गुवाहाटी-नगराय, कोलकाता-नगराय, अगरतला-नगराय, इम्फाल-नगराय च नियमितरूपेण वायुयानानि प्राप्यन्ते । तस्मात् विमानस्थानकात् बसयानैः, भाटकयानैः वा थेनजोल-ग्रामः गन्तुं शक्यते ।

साइहा

साइहा-मण्डलं मिजोराम-राज्यस्य मण्डलेषु अन्यतमम् अस्ति । साइहा-नगरम् अस्य मण्डलस्य मुख्यालयः अस्ति । “मारा ऑटोनोमस् डिस्ट्रिक् काउन्सिल्” इत्यस्यै संस्थायै अपि मण्डलस्य मुख्यालयत्वेन स्थितम् अस्ति । साइहा-मण्डलस्य उत्तर-पश्चिमदिशि लुङ्गलेई-मण्डलं, पश्चिमदिशि लाङ्गतलाई-मण्डलं, दक्षिणदिशि, पूर्वदिशि च म्यान्मार-देशः च स्थितः अस्ति । नगरमिदं मिजोराम-राज्यस्य बृहत्तमेषु अन्यतमम् अस्ति । “गजदन्तः” इति “साइहा” शब्दस्य अर्थः भवति । कथ्यते यत् – “अस्मिन् मण्डले अधिकमात्रायां गजदन्ताः प्राप्यन्ते” इति । अतः एव अस्य नाम “साइहा” अभवत् । “साइहा” इत्ययं शब्दः मारा-भाषायाः अस्ति । अस्मिन् मण्डले कानिचन पर्यटनस्थलानि एव सन्ति । “पाला टीपो-तडागः”, “माउण्ट् मावमा” च अस्य मण्डलस्य प्रमुखे वीक्षणीये स्थले स्तः । मण्डलेऽस्मिन् मारा-जनजातेः जनाः निवसन्ति । साइहा-मण्डलस्य वातावरणं सर्वदा सौख्यकरं, सुखदं च भवति । अतः जनाः कस्मिँश्चिदपि ऋतौ साइहा-मण्डलस्य पर्यटनं कर्तुं गच्छन्ति ।

साइहा-नगरात् आइजोल-नगरं ३०५ किलोमीटरमिते दूरे स्थितम् अस्ति । नगरमिदं ५४ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । मिजोराम-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः साइहा-मण्डलस्य भ्रमणं कर्तुं शक्यते । असम-राज्यस्य सिलचर-नगरस्य रेलस्थानकं साइहा-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकं साइहा-नगरात् ४७९ किलोमीटरमिते दूरे स्थितम् अस्ति । सिलचर-रेलस्थानकात् साइहा-नगराय नियमितरूपेण बसयानानि, भाटकयानानि च प्राप्यन्ते । सिलचर-रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । लेङ्गपुई-नगरस्य विमानस्थानकं साइहा-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । ततः गुवाहाटी-नगराय, कोलकाता-नगराय च नियमितरूपेण वायुयानानि प्राप्यन्ते । तस्माद् विमानस्थानकाद् बसयानैः, भाटकयानैः वा आईजोल-नगरं गन्तुं शक्यते । अतः जनाः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च साइहा-मण्डलं सरलतया गन्तुं शक्नुवन्ति ।

परिवहनम्

भूमार्गः

मिजोराम-राज्यस्य आहत्य भूमार्गाः ४,९८२ किलोमीटरमिताः दीर्घाः सन्ति । राज्यमिदं ५४ क्रमाङ्कस्य राष्ट्रियराजमार्गेण श्रेष्ठतया सम्बद्धम् अस्ति । मिजोराम-राज्यस्य सर्वकारेण ३.५ अर्व (३५० कोटिः) रुप्यकाणां निवेशेन प्रधानमन्त्रिग्रामीणमार्गयोजनान्तर्गततया मिजोराम-राज्ये बहूनां ग्राम्यमार्गाणां, नगरीयमार्गाणां, राजमार्गाणां निर्माणकार्यम् आरब्धम् । जनाः सरलतया भूमार्गेण मिजोराम-राज्यं गन्तुं शक्नुवन्ति ।

धूमशकटमार्गः

मिजोराम-राज्ये धूमशकटमार्गाः न सन्ति । यतः मिजोरामराज्यं पर्वतीयम् अस्ति । अतः धूमशकटमार्गान् निर्मातुं समस्या भवति । तथापि राज्यसर्वकारः, केन्द्रसर्वकारश्च प्रयासान् कुर्वन्तौ स्तः । इदं राज्यम् असम-राज्यस्य सिलचर-नगरस्य रेलस्थानकेन सह भूमार्गेण सम्बद्धम् अस्ति । सिलचर-रेलस्थानकात् बसयानैः, भाटकयानैः वा मिजोराम-राज्यं प्राप्यते ।

वायुमार्गः

मिजोराम-राज्यस्य आईजोल-नगरे एकं विमानस्थानकम् अस्ति । इदं विमानस्थानकं गुवाहाटी-नगरेण, कोलकाता-नगरेण च सह सम्बद्धम् अस्ति । लेङ्गपुई-नगरे अपि एकं विमानस्थानकम् अस्ति । इदं विमानस्थानकं गुवाहाटी-नगरेण, कोलकाता-नगरेण, देहली-नगरेण इतरैश्च भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । अनेन प्रकारेण पर्यटकाः वायुमार्गेण सरलतया मिजोराम-राज्यं भ्रमणार्थं गन्तुं शक्नुवन्ति ।

वीथिका

बाह्यानुबन्धः

सन्दर्भाः

  1. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३०४
  2. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३०४
  3. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३०४-३०५
  4. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३०१-३०२
  5. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३०४
  6. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३०१-३०५
This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.