शास्त्रसम्बद्धाः लेखाः
शास्त्रीयलेखाः

केनोपनिषत् प्राचीनासु दशसु उपनिषत्सु अन्यतमा। अस्यां ३४ मन्त्राः विद्यन्ते। अस्याः उपनिषदः प्रमुखः विषयः भवति ब्रह्मविद्या। परब्रह्मस्वरूपः परमात्मा इन्द्रियातीतः, सः एव सर्वप्रेरकः इत्ययं विषयः समीचीनतया वर्णितः वर्तते। ब्रह्मज्ञानिनः लक्षणानि कानि इत्येतं विषयं मनोरञ्जकरीत्या विरोधाभासयुक्तैः वचनैः वर्णितवन्तः सन्ति। कापि देवता न स्वतन्त्रा, सर्वाः देवताः परब्रह्मणा प्रेरिताः इत्ययं सिद्धान्तः अत्र प्रदर्शितः अस्ति। 'एकं सद्विप्रा बहुधा वदन्ति' इत्यस्य वा 'एकमेवाद्वितीयम्' इत्यस्य श्रुतिवाक्यस्य मनोहरं व्याख्यानरूपं वर्तते केनोपनिषत्। परमसत्यम् एकमेव विद्यते, तच्च अतीन्द्रियं विद्यते इत्येतत् तत्त्वद्वयमेव अत्र कविभिः चर्चितः प्रमुखः विषयः। (अधिकवाचनाय »)



অবদানকারীর জন্য পাঠ্য
अद्यतनं चित्रम्
फलकम्:POTD/२०१९-०३-१२
आधुनिकलेखः
आधुनिकाः लेखाः

अष्टाङ्गयोगः अर्थात् योगस्य अष्टानाम् अङ्गानां समूहः। पातञ्जलयोगसूत्रे उ्ल्लेखः वर्तते यत्, यम-नियम-आसन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयोsष्टाङ्गानि।।२.२९।। इति। अनेन सूत्रेण एव राजयोगनामकस्य अध्यायस्य आरम्भः भवति। एतानि अष्टाङ्गानि एव राजयोगत्वेन पतञ्जलिमूनिना प्रोक्तानि। अतः एतस्य राजयोगस्य नामान्तरम् एव ‘अष्टाङ्गयोगः’ इति। पतञ्जलिमुनिः अष्टाङ्गयोगस्य भागद्वयम् अकरोत्। बहिरङ्गः, अन्तरङ्गश्चेति। (अधिकवाचनाय »)



प्रश्नस्य उत्तरं जानासि?
ज्ञायते किं भवता?
चतुर्विधपुरुषार्थाः -
  1. धर्मः
  2. अर्थः
  3. कामः
  4. मोक्षः



वर्तमानघटनाः
अद्यतनं सुभाषितम्
अधमा धनमिच्छन्ति धनमानौ तु मध्यमाः।

उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥

चाणक्यनीतिदर्पणम् ८/१

अनुत्तमाः जनाः जीवने धनमात्रम् इच्छन्ति। धनसम्पादनम् एव तेषां जीवनस्य लक्ष्यं भवति। एतादृशं जीवनं कदापि श्लाघ्यं न भवति। मध्यमजनाः धनं मानं च इच्छन्ति। धनेन सह मानम् अपि एते इच्छन्ति इत्यतः एतेषां जीवनं निन्द्यं न भवति चेदपि अतिप्रशस्तं तु न। महापुरुषाः सदापि मानम् एव इच्छन्ति। ते धनं तृणसमानं भावयन्ति। मानम् एव धनं भावयन्ति। मानधनानाम् एतेषां जीवनम् एव उत्कृष्टम्।


सहपरियोजनाः

विकिस्रोतः
विकिस्रोतः
विकिसूक्तिः
विकिसूक्तिः
विकिशब्दकोशः
विकिशब्दकोशः
विकिशब्दकोशःविकिमीडिया
विकिमीडिया
मेटाविकि
मेटाविकि
विकिकामन्स्
विकिकामन्स्
This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.