चेन्नै

चेन्नै (சென்னை) तमिलनाडु राज्यस्‍य राजधानी अस्‍ति। चैन्नैनगरं (तस्य पूर्वनाम मदरास्) भारते स्थितेषु महानगरेषु अन्यतममस्ति । अत्र स्थित्वा दर्शनीयानि स्थानानि बहूनि सन्ति ।

कपालेश्वरदेवालयः, मैलापुर्

विजिपि युनिवर्सल् किङ्गडम्

एतत् सागरतीरस्थं विहारधाम अस्ति । विनोदाय विहाराय च अत्र ‘बीचरेसार्ट’ अस्ति एम्यूसमेण्ट् उद्यानमस्ति । वसत्यर्थम् ६५ कुटीराः सन्ति कुटुम्बस्य सर्वे जनाः आगत्य अत्र विरोमदिनेषु सन्तोषम् अनुभवितुम् उत्तमं स्थानमेतत् । मार्गः –चैन्नैतः २९ कि.मी मामल्लपुरम् मार्गः ।....

एम् ए सि क्रिकेट्-क्रीडाङ्गणम्

एम. जि. एम. डि.जि. वर्ल्ड्

एतत् मुत्तकाडु इति प्रसिद्धं विश्रामस्थानमस्ति । बालानां वयस्कानां च अत्र अनेकविधक्रीडाः सन्ति । अप्सरालोके(fairy tale) वर्णितानि पात्राणि हम्प्टी, डम्प्टी, ब्याटमन् , क्रूकड् ट्रि, टोरेण्डो कोस्टल् रैड इत्यादीनि सन्ति । पाश्चात्यदेशे दृश्यमानानि कतिचन दृश्याणि अपि अत्र द्र्ष्टुं शक्नुमः । कौबाय् ल्याण्ड् , विण्डमिल् शिप् व्रेक इत्येतानि अतीवसुन्दराणि सन्ति । सुन्दरे प्यारिसमार्गे चलितुं शक्यते । क्रीडासु बम्पर् कार्, स्लैड्, आन्दोलिकाः च सन्ति । अत्र मनोरञ्जनद्वारा शिक्षणमपि साध्यमस्ति । इतरस्थानानि नाम डाष् अण्ड् स्प्ल्याष् तथा किष्किण्ट् (१२२ कि.मी दूरे अस्ति)

पुलिकाट्लेक्

चैन्नैनगरस्य उत्तरभागे स्थितं प्रेक्षणीयं स्थानम् एतत् । अत्र तरणं मत्स्यग्रहणं च मनोहरं भवति । चैन्नैनगरतः एतेषां प्रवासार्थं दर्शनार्थं व्यवस्था कल्पिता अस्ति । चैन्नैनगरे वासः कर्तुं शक्यते ।

वस्तुसङ्ग्रहालयः, चेन्नै

देवालयाः

चेन्नै नगरे अनेके देवालयाः विद्यन्ते । तेषु कपालीश्वर-मरुन्धीश्वर-देवालयौ अन्यतमौ ।

चैन्नैनगरस्य सागरतीराणि

अत्र कोरमण्डलसागरतीरम् अत्यन्तं सुन्दरम् अस्ति । मरिना सागरतीरम् अतीव जनप्रियम् । एतत् ४.५ कि.मी दीर्घम् । प्रपञ्चे दीर्घतीरेषु द्वितीयम् इति प्रसिद्धम् अस्ति । प्रतिदिनम् अत्र सहस्रशः जनाः आगच्छन्ति । बिहारं समुद्रस्नानम् च कुर्वन्ति । ईलियट्स् बीच् (बेसेण्ट्नगर), कोवलाङ्गबीच् चैन्नैतः ४० कि.मी. दूरे स्तः । मुत्तुकाडुप्रदेशे सागरपूर्व जले विहारः नौकायानं, मत्स्यग्रहणं च कर्तुं शाक्यते । मामल्लपुरमपि सागरतीरे एव अस्ति । देशीयानां विदेशीयानां च प्रमुखम् आकर्षणकेन्द्रमेतत् । अत्र तरणं कदाचित् अपायाय भवति । तरङ्गाः अत्र वेगेन आगच्छन्ति ।

बाह्यग्रन्थय:

This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.