काशी

स्क्रिप्ट त्रुटि: "Settlement short description" ऐसा कोई मॉड्यूल नहीं है।

Varanasi

वाराणसी

Benares, Banaras
Metropolitian City
वाराणस्यां गङ्गा
Nickname(s): 
भारतस्य सांस्कृतिकराजधानी
देशः  भारतम्
राज्यम् उत्तरप्रदेशः
मण्डलम् वाराणसीमण्डलम्
Government
  Mayor Ram Gopal Mohle (BJP)
Area
  Metropolitian City १,५५०
Elevation
८०.७१
Population
(2012)
  Metropolitian City
  Rank 29th
  Density
  Metro
Languages
  Official हिन्दी, आङ्ग्लभाषा, उर्दु
Time zone UTC+5:30 (IST)
PIN
221 001 to** (** area code)
Telephone code 0542
Vehicle registration UP 65
Sex ratio 0.926 (2011) /
Literacy 77.05 (2011)%
Website www.nnvns.org

काश्याः प्राचीनः इतिहासः

भारते वाराणसीस्थानम्

महाजनपदेषु अन्यतमः अस्ति काशीजनपदः । काशीनगरम् (इदानीन्तनबनारस्नगरम्)परितः एषः जनपदः प्रसृतः आसीत् । आर्यजनाः अत्र वसन्ति स्म । वाराणसी एतस्य काशीजनपस्य राजधानी आसीत् । एषः जनपदः उत्तरभागे वरुणानद्या दक्षिणे असिनद्या च आवृतः आसीत् । तस्मादेव तस्य जनपदस्य नाम "वाराणसी" इत्यभवत् । बुद्धस्य पूर्वं काशी १६ महाजनपदेषु अत्यन्तं बलवान् जनपदः आसीत् । भारतस्य इतिहासे बहुत्र एतस्य जनपदस्य उत्कृष्टताविषये समृद्धिविषये च उल्लेखः दृश्यते । अङ्ग-मगधजनपदाभ्यां सह काश्याः दीर्घकालस्य शत्रुत्वम् आसीत् इत्यपि तत्र तत्र उल्लेखः अस्ति भारतस्य इतिहासे । काश्याः राजा बृहद्रथः कोसलराज्यं पराजितवान् । किन्तु अनन्तरकाले बुद्धस्य अवधौ राज्ञः कंसस्य काले च काशी कोसलान्तर्गता जाता । मत्स्यपुराणे अल्बेरुनिलेखेषु काशी "कौशिक" "कौशक" इति वा उल्लिखिता दृश्यते । अन्यत्र सर्वत्र प्राचीनलेखेषु "काशी" इत्येव दृश्यते। काशी बनारस् वाराणसी इत्यादिनामभिः प्रसिद्धम् अस्ति । प्रसिद्धं काशीपट्टणं पुराणकालादपि अपूर्वं स्थानम् अस्ति । हिन्दुजनानां यात्रास्थलं वारणा असीनद्योः मध्यभागे अस्ति । बनारस् इति राजा अत्र प्रशासनं कृतवान् । अतः बनारस् इति नाम आगतम् अस्ति । काशीनगरे विशालाक्षीमन्दिरं विश्वनाथमन्दिरं गङ्गातीरे घट्टप्रदेशाः सन्ति । हनुमानघाट् माणिकर्णिकाघाट् पञ्चगङ्गाघाट् दशाश्वमेधघाट् तुलसीमानसमन्दिरं सङ्कटविमोचनमन्दिरं व्यासकाशी बिर्लाभवनम् इत्यादिदर्शनीयानि स्थानानि सन्ति । तुलसीमानसमन्दिरम् अमृतशिलाभिः निर्मितम् अस्ति । भित्तिषु श्रीतुलसीदासस्य जीवनघटनाः चित्रिताः सन्ति । बिर्लामन्दिरेषु शिवमन्दिरे मध्ये , दक्षिणे शिवपार्वत्योः मन्दिरं वामभागे श्रीलक्ष्मीनारायणमन्दिरं प्रत्येकगर्भगृहेषु सन्ति । काशीविश्वविद्यालये अपि विश्वनाथमन्दिरं बृहत्शिवलिङ्गम् अत्र आकर्षणीयम् अस्ति ।

काश्याः आधुनिकः इतिहासः

इदानीं काशी उत्तरप्रदेशराज्यस्य प्रमुखं यात्रास्थलम् अस्ति । भारतस्य सर्वेभ्यः भागेभ्यः रैलयानस्य वायुमार्गस्य च सम्पर्कः अस्ति ।

बनारस् हिन्दुविश्वविद्यालयस्य प्रवेशः
गङ्गापुण्यस्नाने निरताः भक्ताः

प्रस्तावना

अस्माकम् भारते देशे अनेकानि तीर्थानि सन्ति । तेषु कानिचित् नगरतीर्थानि सन्ति । एषु एकम् सुप्रसिद्धम् तीर्थम् अस्ति काशी । इयम् काशीनगरी उत्तरप्रदेशे गङ्गातटे (अनुनदि) स्थिता वर्तते । ( इयम् काशी नगरी अनुगङ्गम् स्थिता अस्ति । )इह भारते वर्षे सन्त्यनेकानि नगरतीर्थानि । इमानि प्रायेणानुनदि स्थितानि सन्ति । अत एव ऋषिजुष्टाम्बु तीर्थमित्याभिधानिकाः ( तीर्थज्ञाः ) आमनन्ति ( कथयन्ति, स्मरन्ति )। अपहतपाप्मभिः महात्मभिः चिरम् अध्युषिताः प्रदेशाः प्रयताः भवन्ति पूज्याश्च । अत एव “ यद् अध्यासितम् अर्हद्भिः तद्धि तीर्थम् प्रचक्षत ” इति कविकुलपतिः कालिदासः । काशी (वाराणसी) खल्वपि एतादृशमे एकम् सुप्रसिद्धम् तीर्थम् । अनुगङ्गम् चेयं स्थिता इति उत्कर्षप्रकर्षो∫स्याः। इयं ह्यधिवासो भगवतो विश्वनाथस्य ( शिवस्य, पशुपतिनाथस्य, पार्वतीपतेः शंकरस्य वा) मर्त्यलोकस्थितस्य । यथा जरूसलम् ख्रिस्तीयानां यथा वा मक्केति मौहम्मदानां तथा वाराणसी भक्तिभाजनं श्रद्धास्पदं चार्य्याणाम् । प्राचीनकालादेव इयम् नगरी तीर्थरूपेण प्रसिद्धा वर्तते । हिमालयपुत्र्याः गङ्गायाः पावने तटे सा स्थिता अस्ति । इयम् भगवतः शिवस्य पार्वतीसहितस्य नित्यम् निवासस्थानम् इति पौराणिकाः वदन्ति ।

काश्याः वैशिष्ट्यम्

काश्यां मरणे मरणात् वा मुक्तिरिति पुराणप्रवादः । अस्मिन् प्रवादे श्रद्दधानाः पौराणिकाः भक्ताः पश्चिमे वयसि वर्तमानाः विपश्चितो∫विपश्चितो वा धनिकः अधनिकः वा सन् अपि नानादिग्भ्यो विदिग्भ्यश्च परापत्येह निवसन्ति स्वकीयम् मृत्युं च प्रतिपालयन्ति ।= एवम् हि कथ्यते काश्यां मरणात् मुक्तिः भवति । न केवलम् मरणात् एव अपितु मरणम् अन्यत्र भवेत् तथापि यदि अत्र मृतकस्य अन्तिमसंस्कारः अत्र क्रियते , तदा तस्य मृतकजनस्य आत्मनः मुक्तिः भवति । अत एव ये∫पि नाम वाराणसीमभितो ग्रामास्तत्र एषः समाचारो यदि ग्रामे ग्रामान्तरे वा कश्चिदुपरमति तर्हि प्रेतमिहैव हारयन्ति यथाशास्त्रं च संस्कुर्वन्ति ।

काश्याः निवासिनः

अत्रोदीच्याः प्राच्या अवाच्याः प्रतीच्याश्च निवासिनः स्वेन स्वेन नेपत्येन (वेशेन , परिधानेन वा) परिक्रमिताङ्गाः यत्र तत्र सञ्चरन्ति । तेषु केचिदुष्णीषिणो परे∫नुष्णीषाः, केचिद् मुक्तोपानत्काः परे अमुक्तोपानत्काः ( युक्तोपानत्काः वा), केचिच्छाटकिनो∫न्ये पादायामधृताः यथास्वं भारत्या भाषमाणाः किमपि वैचित्र्यम् अस्याः जनयन्ति । अनारतं चेह भक्तवत्सलः परमेश्वरः कीर्त्यते प्रजागरव्रतैः प्रणतैः । इदं च श्रद्धीयते तैः तैः भक्तजनैः यत् पुण्यप्रसन्नसलिलायां भगवत्याम् भागीरथ्याम् आप्लवः (स्नानम्) नो निर्हणिष्यति अनांसीति (पापानीति) ।

काश्याः इतिवृत्तम्

सेयं वाराणसी कदा प्रत्यष्ठात्केन वा निर्वृत्तेति न विशिष्य विद्मः । इदं तु प्रथे पुराणेष्वैक्ष्वाको राजर्षिः श्रीहरिश्चन्द्र इहैवात्मानं चाण्डालाय विचिक्रिये । इदं च दृढतरं प्रतीमो यदा सुगतः सारनाथे मृगाजिरे धर्मनुशशास तदा पि वाराणसी वैदिकैकनिलयो विद्यापारदृश्वनां ब्राह्मणानामावास आस । तदात्वे पि सहस्रशो भक्तिप्रह्वा यात्रिकाः पावनीमिमां शिवपुरीं तीर्थमिति तारयिष्यति नो भवार्णवमिति च धिया सोत्कलिकं प्रपेदिरे । ब्राह्मणगाथासु बौद्धकथानकेषु चैषा बहुमानपुरःसरं कीर्तिता अभूत् । इदं हि पुण्यतमं तीर्थमार्य्याणामित्यसहमानाः परमतमपद्विषन्तः स्वस्यैव परमार्थो द्विषन्तः पशुप्रायास्तुरुष्कप्रभृतयो मुगलाद्याश्चास्कन्तार इमां वाराणसीमवस्कन्दमवस्कन्दमुत्सादयाञ्चक्रुर्देवतायतनानि चोज्जासयामासुः । अवरङ्गजीवस्त्वक्षिदुःखितो दीपशिखामिव नार्य्याणां स्थितिं सेहे, नामीषां चरणं चक्षमे न चैतेषामर्हणाविधां ममृषे । अयं हि राजापसदः श्रीविश्वनाथमन्दिरमप्यखण्डयत्स्वीयानि च सुकृतानि । निरमाच्च तत्स्थानापन्नं मस्जिदाख्यं पारमेश्वरं गृहम् । परमद्यापि वाराणसी तामेव वहत्यविहतांत पुराणीं सुषमाम् । अद्यापि सामगानां पुण्यो वेदध्वनिमूर्च्छति श्रवणयोः । अद्यापि बटूनां बद्धब्रह्माञ्जलीनां स्वाध्यायमधीयानानां विप्राणां विचरति कलकलः काष्ठाः । अद्यापि पूर्ववत्समवयन्त्यत्र यतस्ततो विद्याकमनाः प्रदीप्तप्रज्ञानाः । अद्यापीदं पुण्यतमं तीर्थमिति श्रद्धयोपयन्ति पुङ्खानुपुङ्खशो यात्रिकाः । अद्यापि स्थगितरोदसीकन्दराः समुच्चरन्ति देवालयेषु सायम्प्रातिकास्तूर्यनादा मङ्गल्याश्च शङ्खस्वनाः । किं बहुना । कालपरिवासेनाप्यपर्युषितशोभा नुपहतयाशाः पूर्वद् विराजते नगरीयं सुरयुवतिरिव निर्जरा ।

काशीवर्णनम्

हरिवर्षीया वाराणसी वीनिस् इति प्रख्यातेन रामणीयकनिकेतनेनाधिष्ठानेनोपमिमते । सत्यं हरिवर्षस्योपवनायते तदिति, समुद्रोर्मिमालाभिश्च परिचुम्बितं कामप्यभिख्यां धत्त इति, वाराणसीदर्शनं त्वन्या एव जागरयति भावनाः । यदा वयं रेलयानमारूढाः प्रातस्तरां भागीरथीसेतुमतिक्रामामो वाराणस्यां च दृशौ पातयामस्तदा यत्पश्यामो न तत्प्रस्मतु पारयामः । बालार्कमयूखोपरक्तानि भास्वन्ति देवेश्मानि हर्म्यश्रृङ्गाणि च, समुच्छ्रायवत्यः क्रमनिम्ना अवतारभूमयः, सामि वर्तुला∫नुगङ्गं स्थिता परिणाहवती च नगरी – सर्वमिदं यात्रिकचेतसि यं भावमुद्भावयति तं नालं पाश्चात्त्यो यथातथं द्रष्टुम् । यात्रिकस्येदं दर्शनं मृगितार्थस्योपलब्धिर्वा स्वस्य स्वप्नस्य चरितार्था वा । यो ह्यस्य परितोषो हृदये समुल्लसति स परिच्छेदमत्यन्तमत्येति ।

काश्याः देवस्थानानि

देवागाराणि च भूम्ना मरतटिन्या रोधसि संनिविष्टानि । इमानि च निशान्ते यात्रिकसम्बाधानि भवन्ति । विशालानि बद्धभूमीनि सरित्तीर्थानि विशेषतो रम्याणि । तेषु दशाश्वमेधतीर्थं मणिकर्णतीर्थं केदारतीर्थं बृहत्तमानि यात्रिकैरासेवितानि । विश्वनाथमन्दिरस्य नेदीय इत्याख्यानेषु बहुश्रुतमिति च दशाश्वमेधतीर्थ मणिकर्णतीर्थं केदारतीर्थं बृहत्तमानि यात्रिकैरासेवितानि । विश्वनाथमन्दिरस्य नेदीय इत्याख्यानेषु बहुश्रुतमिति च दशाश्वमेधतीर्थ भूयिष्ठान्समाकर्षति यात्रिकान् । वयोवृद्धानां ज्ञानवृद्धानां चेयं वसतिर्वाराणसी । इहत्यानि देवतायतनानि प्रायेणाश्मानि । नैतानि निर्माणसौष्ठवस्य हेतोरन्यसाधारणानि, पावित्र्येण तु सर्वातिशायीनि । विश्वनाथमन्दिरमन्नपूर्णामन्दिरं च मन्दिरान्तराणि सुदूरमतिक्रामतो गरिम्णा । यदि श्रद्धाभक्त्युपपन्नो यात्रिकः शिवलिङ्गं स्प्रष्टुं लभते न्नपूर्णा वा साक्षात्कुरुते तदा विपक्त्रिमाणि मे सुचरितानि फलितानि च गुरुजनाशीर्वचनानीति धन्यमात्मानं मन्यते । वेणिमाधवमन्दिरं चात्र चित्रेण निर्माणेन । किमपि विस्माययति दर्शकान् । एतत्सदेशे वरङ्गजीवनिर्मिता मस्जिदस्ति, यस्याः समुच्छिते श्रृङ्गे मन्दिरस्यैवैते इति वाराणसेयैर्गण्येते । एकतरमपि समारूढेन जनेन शक्या सर्वा वाराणसी मनोरमा द्रष्टुम् । अपरं चेह तथाविधं जयपुराधीशेन श्रीमानसिंहेन कारितं विस्मयनीयं वेधगृहं चकास्ति यत्र प्राचीनज्योतिर्विदुपयुक्तानि नक्षत्रादिप्रेक्षणोपकारीणि तत्तत्कार्तान्तिककृतान्तकलनकल्पानि साधनान्यद्यापि विराजन्ति ।

काश्याः सायंतनः कालः

नक्तं च यथा दीप्तिमत्तां विभूतिमत्तां च वाराणस्या विभावयामो न तथा दिवा । आरात्रिकमिति मन्द्रध्वाना नदन्ति घण्टा मन्दिरेषु त्वरयन्ति च भक्तान्संनिपातयन्ति च तान्प्रवेशद्वारेष्वङ्गणाभोगेषु च । स्फटिकविशदेन पयःपूरेण मन्दमन्दमकति मन्दाकिनी, प्रतिफलितानि चात्रोपकण्ठस्थितानि दीप्राणि हर्म्याणि देवतागाराणि च यत्सत्यमासेचनकानि भवन्ति । पारेगङ्गं च निशम्यन्ते दैवतार्चायां प्रवृत्तानां दैवतस्तवाः शास्त्रानुगाः ।

काश्याः विद्यास्थानानि

अस्तीहार्वाक्कालो विश्वविद्यालयः । सन्ति चेह वज्रकनिर्मिताः पन्थानः । सन्ति च वैद्युताः प्रदीपाः । सन्ति चापां नालिका नगराधिकृतैः संविहिताः । इदं चापरमभ्युपेयम्- साम्प्रतिकं वार्तौन्मुख्यं साम्प्रतिकमुद्योगतात्पर्यं साम्प्रतिकं विज्ञानवैयग्र्यं च वाराणसीमपि कलया कान्तवन्ति दृश्यन्ते, तथापीदं न पार्यते पह्नोतुं वक्रासु वाराणस्या रथ्यासु, महत्सु तीर्थेषु, विचित्रचनेष्वाश्मेष्वस्या देवतायतनेषु वरीवृत्यते सुरक्षिता नपायिनी श्रद्धा नुरक्तिश्च दृढभूमिर्देवतासु । स्यादेतत् । इहा वसथेषु शीलभ्रंशः, पुरोधसो वा प्रतारका यात्रिकद्रव्यपिशितपिशाचाः, देवतास्तु समुदिता इमामेव पुण्यां पुरीमावसन्तीति ।।

दशाश्वमेधघट्टे सायं सन्ध्यागङ्गारती
गङ्गानदी

बाह्यसम्पर्कतन्तुः

This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.