जपान्

सूर्यमूलम् (Japan) पूर्वेशियाखण्डे विद्यमानः कश्चन द्वीपदेशः । पेसिफिक्-सागरे विद्यमानः अयं देशः जपान्-सागरः, चीना, उत्तरकोरिया, दक्षिणकोरिया, रशियादेशानां पूर्वभागे विद्यते । जपान्-देशे सूर्योदयः प्रथमवारं भवति इत्यतः अयं देशः सूर्योदयदेशः,सूर्यमूलम् इत्यपि उच्यते ।

जपान्देशस्य मानचित्रम्

सामान्यपरिचयः

अस्‍य राजधानी टोक्‍योवर्तते । जपान्-देश: ६८५२ लघूनां द्वीपानां समूह: । तत्र होन्शू, होक्काइडो, क्युशू, शिकोकू च मुख्या: चतुर्द्वीपा: । एतै: चतुर्द्वीपै: जपानदेशस्य ९७% भूभागः आक्रान्तः । अत्रत्या जनसङ्ख्या - । जपान्-देश: लोकसंख्यया विश्वे दशमक्रमाङ्कस्य देश: । उच्च टोक्यो वर्ग: सह राजधानी टोक्यो इति विश्वे श्रेष्ठतम: महानगर: वर्तते । जपान्-देशस्य अर्थव्यवस्था विश्वे तृतीयक्रमाङ्कं प्राप्ता वर्तते । टोकियोप्रदेशः जगतः अत्याधुनिकप्रदेशेषु अन्यतमः यत्र जनाः वसन्ति ।

इतिहासः

जपानदेशं २००० वर्षाणाम् इतिहास: प्राप्त:। जपान्-देशस्य उल्लेख: ऐतिहासिकदृष्ट्या १४,००० वर्षपूर्वम् अस्ति । यायोई काले जपान्-देशं घटकला, ओदन-तृणानां कृषी, धातुक्रिया च विकसिता: । जपानीभाषा प्रथमं हानस्य पुस्तके(Book of Han) उल्लेखितम् । एतत् पुस्तकं चीनीभाषायां विरचितम् । बाएक्जेइति प्रदेषे जपान्-देशे बौद्धधर्म: प्रविष्टः । किन्तु बौद्धधर्मस्य प्रसार: असुकाकालस्य (५९२-७१० तमे) पूर्वार्धे अभवत् । नाराकाले(७१०-७८४ तमे) जपान्-देशस्य संरक्षणव्यवस्था अतीव बलवती अभवत् । एतत् कारणेन जपान्-देशे बौद्धधर्मस्य प्रसार: अभवत् । हिन्दुधर्मस्य प्रसार: कुकोई नाम्ना व्यक्तिना कृतम्।

चित्रवीथिका

उल्लेखाः

    बाह्यशृङ्खला

    विकिपीडिया-जालस्य सहपरियोजनाभ्यः Japan एतस्मिन् विषये अधिकं विवरणं प्राप्यताम् -
    परिभाषाः विकिशब्दकोषे
    चित्राणि एवम् अन्याः सञ्चिकाः कॉमन्स् मध्ये
    पाठ्यपुस्तकानि विकिपुस्तके
    Government
    Tourism
    General information
    This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.