संस्कृतभारती

संस्कृतभारती (Samskrita Bharati) इति काचित् संस्था या च संस्कृतस्य संरक्षणार्थं ,संवर्धनार्थं , प्रसारणार्थं च अविच्छिन्नरूपेण निरन्तरं कार्यं कुर्वती अस्ति । एतस्याः प्रधानकार्यालयः देहल्यां विद्यते । जगति संस्कृतभाषां व्यावहारिकाभाषात्वेन आनेतुं श्रममाणा अस्ति एषा संस्था ।

संस्कृतभारत्याः कार्यालयः, बेङ्गळूरु
१२°५६′२५.४६″ उत्तरदिक् ७७°३२′३१.०६″ पूर्वदिक्

कार्यलक्ष्यम्

संस्कृतस्य सर्वतोमुखविकासं सम्पाद्य भारतस्य सर्वाङ्गीणोन्नतिसम्पादनमेव "संस्कृतभारत्या:" चरमं लक्ष्यम् । दूरगामिलक्ष्यमिदं साकारीकर्तुम् अपेक्षितस्य देशव्यापिन:, विशालस्य, गुणसम्पन्नस्य, शक्तिशालिन: 'संस्कृतभारती’-नामकस्य जनसङ्घटनस्य निर्माणं समीपवर्तिलक्ष्यम् वर्तते । परं सङ्घटनस्य प्रत्येकं घटकस्य कृते तु लक्ष्यं भवति संस्कृतस्य विकासाय कार्यकरणं, राष्ट्रोन्नतिसम्बन्धिषु कार्येषु सहभाग: चेति ।

१) व्यावहारिकभाषारूपेण पुनरानयनम्

चतु:शतात् वर्षेभ्य: पूर्वं विश्वे ५००० भाषा: आसन् । इदानीम् उपद्विसहस्रा: सन्ति । व्यवहार: परित्यक्त: इत्यत: 3000 भाषा: विनष्टा: । व्यवहारह्रासादेव सहस्राधिका: भाषा: विनाशपथे सन्ति । "संस्कृतभाषा नित्यव्यवहारस्य भाषा करणीया इति।

२) शैक्षिकपरिवर्तनम्

सर्वकारीयनीतिपरिवर्तनं तु बहुसमयसाध्यम् । शैक्षिकं चिन्तनं प्रयोगश्च प्रत्यक्षत: परोक्षत: वा अस्माकं संस्कृतज्ञानाम् अधीनानि भवन्ति । अत: शैक्षिकपरिवर्तनं प्रारम्भबिन्दु: भवितुम् अर्हति । संस्कृत-शिक्षणे 'संस्कृतस्य शिक्षणं’ भवेत्, न तु केवलं संस्कृतस्य विषये, वाङ्मयसम्बन्धे वा । संस्कृतशिक्षणविधे: गुणवत्ता, पाठ्यपुस्तकानां गुणवत्ता, शिक्षकाणां गुणवत्ता इति त्रिषु अंशेषु गुणवर्धनाय प्रयत्न: भवेत् । संस्कृतस्य संस्कृतमाध्यमेन पाठनं भवेत् । संस्कृतशिक्षणे प्राचीनार्वाचीनयो: उभयो: अपि विषययो: सङ्गम: भवेत् । कक्ष्यासु संस्कृतभाषाशिक्षणं तावद् आकर्षकं करणीयं यद् सर्वे छात्रा: संस्कृतमेव स्वीकुर्यु:, तावद् प्रभावि करणीयं यद् सर्वे छात्रा: संस्कृतेन भाषितुं लेखितुं च समर्था: भवेयु:, तावद् प्रेरणादायि करणीयं यद् सहस्रश: छात्रा: पश्चात् शास्त्राध्ययने प्रवृत्ता: भवेयु: ।

३) स्वाध्ययनसामग्रीनिर्माणम्

अभ्यासस्य पूरकरूपेण पुस्तकानि, ध्वनिमुद्रिका:,‘डिविडि’ इति त्रिविधा: सामग्र्य: अत्यन्तम् आवश्यक्य: । तासु अपि बहुवैविध्यानि भवेयु: । यथा - शिक्षार्थिनां वयस: अनुगुणं, शैक्षिकपृष्ठभूम्यनुसारं, वृत्त्यनुसारं, रुच्यनुसारं च विभिन्नानि पुस्तकानि भवितुम् अर्हन्ति । विभिन्नविषयाणां द्वारा शिक्षणाय बहुविधानि पुस्तकानि, भाषाशिक्षणस्य विभिन्नविधीनां द्वारा शिक्षणाय पुस्तकानि, संस्कृत-वाङ्मयस्य विविधांशानां शिक्षणाय पुस्तकानि, व्याकरणस्य एकैकं प्रकरणम् अधिकृत्य पुस्तकानि - इत्येवंप्रकारेण सहस्राधिकविधपुस्तकानि भवितुम् अर्हन्ति । तावन्ति एव डिविडि, ध्वनिमुद्रिका: च भवेयु: ।

४) सान्ध्यशिक्षणकेन्द्राणि

संस्कृताभिमानिन: संस्कृतपिपठिषव: समाजे असंख्या: सन्ति । स्थाने स्थाने, नगरे नगरे, ग्रामे ग्रामे सान्ध्यशिक्षणकेन्द्रम् आरब्धम् । तत्र बहुविधा: कक्ष्या: भवन्ति - प्रारम्भिका: कक्ष्या:, प्रगतपाठ्यक्रमा:, विविधविषयाणां शिक्षणकार्यक्रमा: चेति । स्वल्प-कालिका: दीर्घकालिका: च पाठा: ।

५) शास्त्रशिक्षणम्

संस्कृतभाषाध्ययनं नाम प्रथमसोपानम् । काव्याध्ययनं द्वितीयं सोपानम् । वास्तविकं संस्कृताध्ययनं नाम शास्त्राध्ययनम् एव । समग्रसंस्कृतवाङ्मयस्य नवनीतभूतं तु शास्त्राणि । भारतीयं ज्ञानम् इति कथ्यमानं तत्रैव वर्तते । परन्तु अद्यत्वे शास्त्राध्येतार: विरला: । सुष्ठु अध्यापयितार: तु विरलतरा: । सा शास्त्रपरम्परा नष्टा चेद् भारतस्य सर्वस्वमपि नष्टमिव । अत: अस्माभि: शास्त्राध्ययनसम्बन्धे विशेषचिन्तनं करणीयम् । सर्वेऽपि तदर्थं प्रेरणीया: । केचन प्रतिभावन्त: छात्रा: एतदर्थं चेतव्या:, शास्त्राध्ययने योजनीया:, अपेक्षितम् अर्थव्यवस्थादिकं कर्तव्यं च । शास्त्रपरिचायकशिबिराणि, शास्त्रार्थचिन्तनगोष्ठ्य:, शास्त्रकक्ष्या:, शास्त्रपरीक्षा: इत्यादय: स्थाने स्थाने आयोजनीया: । प्रतिशास्त्रं व्युत्पन्ना: युवविद्वांस: निर्मातव्या: ।

७) नवसाहित्यनिर्माणम्

यथा जना: गतसप्ताहस्य दिनपत्रिकां पठितुं न इच्छन्ति । अत: संस्कृते अपि अद्यतनजगत: सम्बद्धानां विषयाणां नवं साहित्यं स्रष्टव्यम् । तत्रापि बालसाहित्यं, मनोरञ्जनसाहित्यं, कथासाहित्यं, विज्ञानसाहित्यम् - इत्येवं साहित्यस्य विविधप्रकाराणां निर्माणं करणीयम् । सृष्टे नवसाहित्ये अद्यतनसन्निवेशा:, अद्यतनविषया:, अद्यतननामानि, अद्यतनं जीवनम्, अद्यतनी वैज्ञानिकी प्रगति: इत्यादिकं प्रतिबिम्बितं स्यात् । अद्यत्वे विश्वे सर्वासु अपि भाषासु महोन्नतसाहित्येषु अपि सरलतमभाषाया: प्रयोग:, गद्यात्मकता इति एतद् अंशद्वयं प्रचारे अस्ति । तदुभयमेव जनै: इष्यते, तथैव लिख्यते च । अत: संस्कृते अपि वाचकरुच्यनुगुणं सरलतमसंस्कृतेन प्रणीतं गद्यात्मकम् अभिनवं साहित्यं स्रष्टव्यम् । एतस्मिन् कार्ये अनुवाद:, अनुकरणं, सर्जनम् इति सोपानत्रयं भवितुम् अर्हति ।

८) दूरस्थशिक्षणम्

संस्कृतभारत्या: द्वारा पत्राचारमाध्यमेन संस्कृतस्य पाठनस्य व्यवस्था कतिपयेषु राज्येषु अस्ति । यथा यथा शक्ति: वर्धेत तथा तथा सर्वेषु अपि राज्येषु एषा व्यवस्था आरब्धा भवितुम् अर्हति । पत्राचारमाध्यमेन बहूनां संस्कृतविषयाणां बहुविधपाठ्यक्रमा: भवितुम् अर्हन्ति । इण्टरनेट्माध्यमेन शिक्षणम्, 'सेटलैट् चानल्’माध्यमेन संस्कृतशिक्षणम् इत्येतादृश्य: काश्चन महाव्यवस्था: अपि करणीया: ।

कार्यक्रमाः

लक्ष्यसाधने कार्यक्रमाः साधनभूताः भवन्ति । कार्यक्रमः एव उद्देशः न, उद्देशार्थं कार्यक्रमः भवति । विचारप्रचारः, भाषशिक्षणं, कार्यकर्तृनिर्माणं, धनसङ्ग्रहः, नूतनक्षेत्रप्रवेशः, उत्साहवर्धनं, सङ्घटनं, कार्यस्य दृढीकरणम् इत्यादीन् विविधान् उद्देशान् साधयितुं तदनुगुणं कार्यक्रमान् रूपयामः । स्थानीयस्तरे कर्तुं योग्याः कार्यक्रमाः, जिला-महानगर-विभाग-राज्यस्तरेषु कर्तुं योग्याः कार्यक्रमाः इति अत्र द्विधा दद्मः ।

स्थानीयस्तरे

  • सम्भाषणशिबिरम्
  • साप्ताहिकमेलनम्
  • संस्कृतदिवसः संस्कृतसप्ताहश्च
  • प्रतियोगिताः (स्पर्धाः)
  • संस्कृतबालकेन्द्रम्
  • सान्ध्यशिक्षणकेन्द्राणि
  • विविधजयन्त्यः / सामाजिकसमरसतादिनम्
  • पत्रालयद्वारा संस्कृतशिक्षणम्
  • संस्कृतगृहम्
  • स्नेहमेलनम् / कौमुदीकार्यक्रमः
  • संस्कृतप्रवासः
  • संस्कृतसन्ध्या
  • प्रदर्शिनी
  • शोभायात्रा
  • वीथीनाटकम्
  • वीथीभाषणम्
  • सम्भाषणशिबिरप्रात्यक्षिकाणि
  • सन्देशाभियानम्
  • सम्पर्कसप्ताहः / सम्पर्कपक्षः
  • छात्रशिक्षणशिबिरम्
  • स्वाध्यायशिबिरम्
  • संस्कारशिबिरम् / ग्रीष्मशिबिरम्

मण्डल/महानगर/विभाग/राज्यस्तरे

संस्कृतभाषायाः संरक्षणार्थं एते कार्यक्रमाः आयोजनीयाः । ते क्रमशः भवन्ति।

  • अभ्यासवर्गः
  • भाषाबोधनवर्गः
  • शिक्षकप्रशिक्षणशिबिरम्
  • व्याकरणशिबिरम् / सिद्धान्तकौमुदीशिबिरम्
  • संस्कृतगृहसम्मेलनम्
  • शिक्षकसम्मेलनम्
  • छात्रसम्मेलनम्
  • महिलासम्मेलनम्
  • शास्त्रगोष्ठी / शास्त्रशिबिरम्
  • संस्कृतविज्ञानकार्यक्रमाः
  • शैक्षिककार्यशाला
  • नाटकोत्सवः
  • सम्भाषणोत्सवः / शिबिराभियानम्
  • व्यक्तित्वविकासशिबिरम् (नेतृत्वप्रशिक्षणम्)

वीथिका

  • पदाधिकारिणः

अवलोकताम्

बाह्यानुबन्धाः

This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.