व्याकरणम्

व्याकरणं नाम वेदानां रक्षकत्वाद् वेदार्थावबोधने सहायकत्वात्, प्रकृति-प्रत्यय-उपदेश-पुरस्सर-पदस्वरूप-प्रतिष्ठापकत्वाद् अर्थनिर्णयनकृत्साधनेषु अन्यतमसाधनत्वेन प्रयुक्तत्वाद् वेदाङ्गस्य किञ्चन अङ्गम्।

हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः


शब्दार्थः

व्याकरणस्य व्युत्पत्तिलभ्योऽर्थोऽस्ति पदमीमांसाकरं शास्त्रम्।

व्याकरण > वि + आङ् + कृ + ल्युट्

> व्याक्रियन्ते व्युत्पाद्यन्ते विशोध्यन्ते शब्दाः अनेनेति व्याकरणम्



> वि + आङ् + कृ + ल्युट्


महत्त्वम्

एतद्वेदस्य मुखत्वेन स्मृतम् - 'मुखं व्याकरणं स्मृतम्।' भाषा लोकव्यवहारं प्रवर्तयति। यदि भाषा न स्यात्, तर्हि जगदिदमन्धेतमसि मज्जेत्। यथोक्तं दण्डिना -

'इदमन्धन्तमः कृत्स्नं जायते भुवनत्रयम्।

यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते॥' [1]

भाषायाः शुद्धये व्याकरणस्य अपेक्षा भवत्येव। न हि व्याकरणज्ञानशून्यो जनः साधून् शब्दान् प्रयोक्तुं शक्नोति। स्वयम् ऋक्संहितायाम् अस्य व्याकरणशास्त्रस्य प्रशंसायाम् अनेके मन्त्राः भिन्न-भिन्नस्थानेषूपलब्धा भवन्ति। ऋग्वेदस्यैकस्मिन् सुप्रसिद्धमन्त्रे व्याकरणं वृषभस्य रूपकत्वेन प्रतिपादितमस्ति -

'चत्वारि शृङ्गाः त्रयोऽस्य पादा द्वे शीर्षे सप्तहस्ता सोऽस्य।

त्रिधाबद्धो वृषभो रोरवीति महोदेवो मर्त्याम् आविवेश।।'[2]

अस्य वृषभरूपी व्याकरणस्य चत्वारि शृंङ्गाणि सन्ति - नाम-आख्यात-उपसर्ग-निपात-रूपाणि। त्रिपादोऽस्य भूत-भविष्य-वर्तमानाः। सुप्तिङन्तश्च द्वे शीर्षे स्तः, सप्तविभक्तयश्च सप्तहस्ताः सन्ति। उरसि शिरसि च कण्ठे त्रिधाबद्धो वृषभोऽयमस्ति। एवंविधव्याकरणज्ञानाद् योऽनभिज्ञोऽस्ति, सः जानन्नपि न जानाति, पश्यन्नपि न पश्यति, शृण्वन्नपि न शृणोति। किञ्च यो हि जनो व्याकरणशास्त्रज्ञोऽस्ति, तत्सन्निधौ वाणी सुसज्जिता कामिनी इव समागत्य सर्वतोभावेन समर्पिता भवति —

'उतत्वः पश्यन् न ददर्श वाचम् उतत्वः शृण्वन् न शृणोत्येनाम्।

उतोत्वस्मै तन्वं विसले जायेव पत्ये उशती सुवासाः।।' [3]

अाचार्यवररुचिः व्याकरणशास्त्रस्य महनीयतां गायन् यदा तदध्ययनप्रयोजनानि पञ्च प्रतिपादयति, तदा महर्षिः पतञ्जलिः तदध्ययनप्रयोजनानि त्रयोदश ब्रूते। तेन हि व्याकरणशास्त्रं नितरां प्राचीनं शास्त्रमस्ति। न हि व्याकरणज्ञानशून्यः साधून् शब्दान् प्रयोक्तुमीशः। वेदस्य रक्षार्थं व्याकरणाध्ययनमत्यावश्यकम्।

'रक्षार्थवेदाध्ययनमध्येयं व्याकरणं, लोपागमवर्णविकारज्ञो हि पुरुषः सम्यग् वेदान् परिपालयिष्यति' इति पतञ्जलिः। वेदरक्षाक्षमतयैव व्याकरणस्य वेदाङ्गत्वमपि समर्थ्यते।

व्याकरणाध्यनस्य आवश्यकता

ऋषिर्ब्रूते यद्वेदानां रक्षायै व्याकरणस्याध्ययनमपेक्ष्यते। यो जनो लोपागमवर्णविकारज्ञो भवति, स एव वेदान् साधु रक्षितुमर्हति। तथा हि - वेदे 'जहार' इत्येतस्य क्रियापदस्य स्थाने 'जभार' इत्येतत् क्रियापदं प्रयुज्यते। व्याकरणानभिज्ञस्य दृष्ट्या 'जभार' इत्येतत्क्रियापदं न शुद्धम्, स 'जहार' इत्येतदेव शुद्धं मत्वा 'जभार' इत्येतत्पदम् अनुच्चार्य 'जहार' इति प्रयोक्तुमुपक्रान्तो भविष्यति। कुफलञ्चैतदीयमिदं स्याद् वेदोऽनेकपरिवर्तितपदवान्। अयं हि महान्नर्थो व्याकरणज्ञानशून्यतया निपातितो भवेत्। तस्माद् व्याकरणस्य अध्ययनमतितरामपेक्ष्यते।

व्याकरणाध्ययनेन विभक्तिविपरिणामस्य च बोधो जायते तस्माद व्याकरणम् अवश्यम् अध्ययनीयमस्ति। न सर्वैः लिङ्गैः न च सर्वाभिः विभक्तिभिः वेदे मन्त्राः निगदिताः सन्ति। ते च अवश्यं यज्ञगतेन यथायथं विपरिणमयितव्या भवति। न अवैयाकरणस्तान् यथायर्थं विपरिणमयितुं शक्नोति। तथाहि 'अग्नये त्वा जुष्टं निर्वपामि' इत्येतदस्ति वेदवाक्यम्। इदं हि वाक्यम् अग्निदेवताकं वर्त्तते। निर्वापकाले अग्निदेवताम् उद्दिश्य मन्त्रोऽयं पठितो भवति। परं यदा सूर्यदेवता लक्ष्यीकृत्य निर्वापः कृतो भवति, तदा सूर्याय त्वा जुष्टं निर्वपामि इत्येतेन विपरिणामेन पठनीयो भवति मन्त्र एषः। इमं हि विपरिणामं वैयाकरण एव सम्यग् यथायथं कर्तुं पारयति।

‘ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्च' इत्येतस्मादपि हेतोः व्याकरणस्याऽध्ययनं परमापेक्षितं भवति। वेदस्य षडङ्गत्वात् षटत्स्वङ्गेषु च व्याकरणस्य प्रधानत्वात्।

सुलभतया यथार्थज्ञानं व्याकरणं विना न भवितुमर्हति अतोऽपि व्याकरणस्य पठनमपेक्ष्यते। इदं तु विदितमेव वर्त्तते यद्, जिज्ञासुनाऽवश्यमेव शब्दस्य कार्यं ज्ञानम्। शब्दस्य ज्ञानं व्याकरणं विहाय न केनाप्यन्येन सुलभेनोपायेन शक्यम्।

संशयराहित्यनिमित्तेनाऽपि व्याकरणमध्येयमस्ति। याज्ञिकाः पठन्ति 'स्थूलपृषतीमाग्निवारुणीमनड्वाहीमालभेते'ति तस्यां सन्देहोऽयमस्ति - स्थूला चासौ पृषती च स्थूलपृषतीति कथनमभिप्रेतं किं वा स्थूलानि पृषन्ति यस्याः सा स्थूलपृषतीकथनमिष्टम् ? अवैयाकरणस्तां न स्वरतोऽध्यवसति। यदि पूर्वपदप्रकृतिस्वरत्वं ततो बहुव्रीहिः। अथान्तोदातत्त्वं ततस्तत्पुरुष इति।

एतेन विवेचनेन व्याकरणस्य उपादेयत्वं तन्महत्त्वञ्च समुपस्थापयन् आचार्यपतञ्जलिः तस्य अन्यानि च कतिपयानि आवश्यकतां प्रस्तौति। स आह यद् व्याकरणं हि यो नरो न जानाति, स शुद्धमपि वक्तुं न शक्नोति। शुद्धोच्चारणलाभाय व्याकरणस्याध्ययनं कर्तव्यम्। अशुद्धोच्चारणकर्ता शिक्षितसमाजे निन्दितो भवति। तस्माद् विज्ञेन सततमुच्चारणस्य शुद्धता समुपासनीयेति।

अध्ययनं तदेव लाभप्रदं भवति यदर्थाभिधारणपूर्वकं विधीयते। अर्थावधारणायाः कृते व्याकरणस्य ज्ञानमपेक्षितं जायते। यदध्ययनं विनाऽर्थावबोधं कृतं जायते, तदध्ययनं सदैवाध्येतारं दुनोति। तदध्ययनं तु तदर्थं भाररूपमेव जायते। मया यत्किमपि पठितं तन्न जाने किं पठितमिति विचार्य सखिन्नमना जायते। अतस्तस्मात् स जुगुप्सते। कथनस्य प्रयोजनमिदमेव यद् यत् किमपि पठनीयं जनेन तद्बोधपूर्वकं पठनीयम्। बोधपूर्वकं पठनं तदैव सम्भवं भवितुं मर्हति, यदा व्याकरणस्य ज्ञानं स्यात्। इत्थं हि विद्वान् पतञ्जलिव्याकरणस्य महत्त्वं विदधानोऽग्रे पुनराह - मानवेन शब्दप्रयोगे प्रवीणेन भवितव्यम्। कः शब्दः केन प्रकारेण प्रयोक्तव्यः इत्येतद् यो जानाति, सः स्वीयेनैकेनाऽपि शब्देन नैजं प्रभावं जनताया मानसे समुपस्थापयितुं शक्नोति। जनतां स तां दिशां नेतुमर्हति यां दिशं प्रति तस्या अावर्जनं तस्येष्टं भवति।

शब्दज्ञ एव समुदाचारस्य विधिं प्रयोक्तुमर्हति। अस्य कथनस्य तात्पर्यमिदमस्ति यत्, समुदाचारे किं वा सामाजिकव्यवहारे शब्दस्य पदस्य च उच्चारणं केन विधिना कार्यमित्यपि कोऽपि शब्दज्ञ एव साधु वेत्ति यतः स एव यथाऽवसरे हस्व-दीर्घप्लुतोच्चारणस्य महत्त्वं जानाति, तेन व्याकरणाध्ययनस्य प्रयोजनं सुस्पष्टमेवेति।

वैयाकरण एव यज्ञे प्रयुक्तान् मन्त्रान् सविभक्तिकान् विधाय पठितुं समर्थो भवति, तदर्थमपि व्याकरणस्याध्ययनमपेक्षितमस्ति। यज्ञकर्मणि स एव विद्वान् अधिकारी भवितुमर्हति यः पदोच्चारणं तथा करोति यथा न किमपि पदं न कोऽपि स्वरो न च किमप्यक्षरमस्फुटं स्यात्। यज्ञाधिकारस्य लाभार्थमपि व्याकरणमध्येतव्यम्। 'शब्दो ब्रह्मः' तेन हि शब्देन सह तादात्म्ये सति शब्दस्य परब्रह्मभूतेनार्येण सहापि तादात्म्यं भवितुं शक्नोतीत्येतस्मादपि व्याकरणस्य ज्ञानमपेक्षितम्। वाक्यगतस्य अर्थज्ञानस्यापि लाभाय व्याकरणं पठनीयमस्ति। नापि श्रुतेन न चापि लिखितेन वाक्येन न तावत् किमपि कार्यं भवितुमर्हति यावद् वाक्यगतार्थस्य साधुज्ञानं न जायते। वस्तुतः तदनवगतार्थ वाक्यन्तु निरर्थकमेव तदर्थमपि व्याकरणस्य ज्ञानं काङ्क्ष्यते।

प्रयोजनम्

व्याकरणस्य सर्वाणि प्रयोजनानि उक्तानि महाभाष्ये — 'रक्तोहागमलध्वसन्देहाः प्रयोजनम्॥' रक्षार्थं वेदानामध्येयं व्याकरणम्। ऊहः खल्वपि, न सर्वैलिङ्गैर्न सर्वाभिः विभक्तिभिर्वेदे मन्त्राः निगदिताः, ये चावश्यं यज्ञगतेन पुरुषेण यथायथं विपरिणमयितव्याः, तान्नावैयाकरणः शक्नोति यथायथं विपरिणमयितुम्। तस्मादध्येयं व्याकरणम्। एवम् अन्यान्यपि अपभाषण-दुष्टशब्द-अर्थज्ञान-धर्मलाभ-नामकरणादीनि प्रयोजनानि व्याख्यातानि महाभाष्ये।

व्याकरणशास्त्रं तु नितरां प्राचीनशास्त्रमस्ति। वैदिकमन्त्रेषूपलभ्यमानास्तत्तत्पदविषयिण्यो व्युत्पत्तय अपि उपर्यभिहितमभिधानं परिपुष्णन्ति -

१. 'यज्ञेन यज्ञमजयन्त देवाः'।[4] यजयाचेत्यादिनङ्।

२. 'ये सहांसि सहसा सहन्ते'।[5] सहधातोरसुन् उणादौ।

३. 'धान्यमसि धिनुहि'।[6] धिनोतेर्धान्यम्, महाभारते।

४. 'केतपूः केतं नः पुनातु'।[7] क्विप् च।

५. 'तीर्थोस्तरन्ति'।[8] पातृतुदिव*** इति स्थक्० उ०।

व्याकरणशास्त्रस्य प्रमाणभूतः अाचार्यः पतञ्जलिव्याकरणशास्त्रस्य उपरिनिर्दिष्टानि प्रयोजनानि वर्णयन् 'चत्वारि शृङ्गाः' 'चत्वारि वाक्', 'उतत्वः', 'सक्तुमिव', 'सुदेवोऽसि' -इत्येतन्मन्त्रपञ्चकमुद्धरति स्म।

पतञ्जलेरपि प्राचीनतरो यास्कोऽपि 'चत्वारि वाक् इत्येतस्य मन्त्रस्य व्याख्यां व्याकरणशास्त्रपरकमेव कुर्वाणोऽवाप्यते। व्याकरणमित्येतत्पदं यस्माद्धातोः निष्पद्यते, तस्यापि मूलार्थो यजुषि - 'दृष्ट्वा रूपे व्याकरोत् सत्त्वाऽनृते प्रजापतिः' इत्येतस्मिन् वाक्ये प्रयुक्तः प्राप्यते।

व्याकरणशास्त्रस्य उत्पत्तिमधिकृत्य तु न निश्चप्रचतया किमपि कथनं सम्भवम्। इदं तु वक्तुं शक्यं यदुपलब्धवैदिकपदपाठेभ्यः प्राग् व्याकरणं शास्त्रं पूर्णतां गतं बभूव। प्रकृतिप्रत्ययधातूपसर्गसमासवत्पदविभागश्च कृत्स्नतया निर्धारितो जातो यदा तस्यानेहसो गतस्यानेकसहस्राब्दाः व्यतीताः। वाल्मीकिरामायणस्य रचनाकाले व्याकरणशास्त्रस्य अध्ययनमध्यापनञ्च सुव्यवस्थिततया प्रचलितमासीदित्येतद्धि —

'नूनं व्याकरणं कृत्स्नमनेन बहुधा श्रुतम्।

बहु व्याहरताऽनेन न किञ्चिदपभाषितम्।।'[9]

महाभारतयुद्धकालवर्तिनि यास्क-निरुक्ते बहूनां व्याकरणाचार्याणामुल्लेखो दृश्यते। आचार्यः शाकटायनस्तु नैजं व्याकरणं यास्कादपि प्राक् लिलेख। तैत्तिरीयसंहितायामस्य विषयस्य सर्वप्रथमस्तथा प्राचीनतमरुल्लेखो लभते।

प्राचीनव्याकरणानि

स्वशास्त्रे कृताः, तत्राऽपि प्राक्तनव्याकरणदृष्टसंज्ञाभिरेवाऽत्र व्यवहार इति व्याचक्षते व्याख्यातारः। अन्यच्च - 'त्रितुत्राथसिसुसरकसेषु च' इति दशसु कृत्प्रत्ययेषु पठ्यन्ते, तस्माद् व्याकरणान्तरस्थाऽप्यत्रानूदिता इत्येव वक्तव्यं स्यात्। किञ्च स्तम्भु-स्तुम्भुप्रभृतिधातवो न पाणिनीये धातुपाठे दृश्यन्ते। ते धातवश्च पूर्वव्याकरणसंस्कारेणैव पाणिनिना स्वसूत्रेषु निबद्धाः, इत्येव स्वीकर्त्तुमापतति। एवं 'चर्करीतस्व' इत्यदादिगणे पाणिनिना, यङ्लुगन्तं तेन गृह्यते इति व्याख्यातार आहुः। न हि पाणिनीये व्याकरणे यङ्लुगन्तं चर्करीतमिति परिभाष्यते, प्राक्तनेष्वेव व्याकरणेषु कारितमिति णिजन्तं, चिकीर्षितमिति सन्नन्तं, चेक्रीतमिति यङन्तं, चर्करीतमिति यङ्लुगन्तं व्यवहृतमासीत्। तस्मात्प्राचीनव्याकरणसंस्कारमात्रेण एव पाणिनिना 'चर्करीतञ्च' इत्यादौ सन्निवेशितम्। इदं दिङ्मात्रप्रदशितमपि स्पष्टमेव द्रढीयस्कतया ज्ञापयति यत्, पाणिनेः प्रागपि व्याकरणस्य सत्ता आसीत् इति।

पाणिनिरष्टाध्याय्यां स्वकीयायां दश प्राचीनान् व्याकरणाचार्यान् स्मरति सादरमेतेषु सूत्रेषु -

  1. वा सुप्यापिशलेः ६॥१॥९२,
  2. तृषिमृषिकृषेः काश्यपस्य १॥२॥२५,
  3. औतो गार्ग्यस्य ८॥३॥२०,
  4. तृतीयादिषु भाषितपुंस्कां पुंवद् गालवस्य ७॥१॥७४,
  5. ई ३ चाक्रवर्मणस्य ६॥१॥१३०,
  6. ऋतो भारद्वाजस्य ७॥२॥६३,
  7. लङः शाकटायनस्यैव ३॥४।। १११,
  8. लोपः शाकल्यस्य, ८।।३।१९,
  9. अवङ् स्फोटायनस्य ६॥१।१२३,
  10. गिरेश्च सेनकस्य ५॥४।। ११२

मीमांसकयुधिष्ठिरः 'संस्कृत व्याकरणशास्त्र का इतिहास' इत्येतन्नामके स्वकीये ग्रन्थे पाणिनेः प्राग्वर्तिनः त्रयोदश आचार्यानन्यानपि निर्दिशति। बहूनि प्रमाणानि समुद्रुत्य आचार्यमीमांसको मन्यते यत्, सञ्जातस्य पाणिनेः साम्प्रतिकात् कालात् ४८२१ वर्षाणि व्यतीतानि। परमाधुनिकानां प्रतीच्यानां विपश्चितां तु मान्यतेयं यत्पाणिनेः जातस्य प्रायेण प्रायः २७०० वषणि व्यतीतानि इति।

पाणिनीयव्याकरणम्

सम्प्रति व्याकरणरूपी वेदाङ्गस्य प्रतिनिधिव्याकरणमेकमेव मन्यते 'पाणिनीयं व्याकरणम्'। महर्षिपाणिनिना प्रायः ४००० अल्पाक्षरैः सूत्रैः संस्कृतभाषायां नितान्तं वैज्ञानिकं व्याकरणं प्रस्तुत्य विदुष आश्चर्यचकितं कृतम्। वैज्ञानिकदृष्ट्या देवभाषायां यावत् सुष्टु शास्त्रीयविवेचनं पाणिनिना कृतं, तादृशं विवेचनमन्यत्र दुर्लभमस्ति। पाणिनिरिव भाषामर्मज्ञो वैयाकरणः संसारेऽन्यत्र समुपलब्धो नाऽस्ति। पाणिनेर्ग्रन्थः अष्टासु अध्यायेषु विभक्तोऽस्ति, तेनैव कारणेनास्य ग्रन्थः ‘अष्टाध्यायी' इति नाम्ना ख्यातोऽस्ति। समयस्त्वस्य ईसापूर्व-षष्ठशतकमस्ति।

वार्तिकं, महाभाष्यञ्च

पाणिनीयस्य व्याकरणस्य परममहत्त्वपूर्णमङ्गं कात्यायनस्य वार्तिकपाठोऽस्ति। इममन्तरेण वस्तुतः पाणिनीयं व्याकरणमपूर्णमेव प्रतिभाति। पाणिनिनाऽऽख्यातान् संस्कृतसाहित्ये प्रयुक्तान् शब्दान् व्याख्यातुमेव ईसापूर्वचतुर्थशतके कात्यायनेन वार्तिकानां रचना कृतेति। कात्यायनस्य वार्तिकपाठमिदं पाणिनीयस्य व्याकरणस्य महत्त्वपूर्णमङ्गमस्ति। इममन्तरेण वस्तुतः पाणिनीयं व्याकरणमपूर्णम् एव प्रतिभाति। पतञ्जलिः कात्यायनस्य वार्त्तिकपाठमवलम्ब्यैव तत्र नैजं महाभाष्यमरचयत्। पतञ्जलिभगवत एषा हि महाभाष्याख्या रचना पाणिनीयं व्याकरणं सरलया सरसया च रीत्या व्याचष्टे। सकलेऽपि संस्कृतवाङ्मये महाभाष्यं वस्तुतोऽद्वितीयो ग्रन्थः। सर्वेऽपि विद्वांसो मुक्तकण्ठतया प्रशंसन्ति ग्रन्थमिमम्। ईसापूर्वद्वितीयशतकेऽस्य ग्रन्थस्य निर्माणमभवत्। व्याकरणस्य दार्शनिकसिद्धान्तानां मीमांसा प्रथमत अत्रैवोपलब्धा भवति। व्याकरणस्य पाणिनिः, कात्यायनः, पतञ्जलिरेव मुनित्रयमस्ति।

पाणिनिव्याकरणसम्बद्धाः ग्रन्थाः

महाभाष्यानन्तरं व्याकरण-दर्शनस्य सर्वाधिकप्रधानो ग्रन्थो वाक्यपदीयोऽस्ति। अस्य ग्रन्थस्य रचयिता षष्ठशतकोद्भवो भर्तहरिरासीत्। वाक्यपदीये व्याकरणशास्त्रस्य दार्शनिकस्वरूपं स्फुटरूपेण अभिव्यक्तं भवति। व्याकरणन्तु शैवागमान्तर्गतमेवास्ति। अस्य स्वीया विशिष्टा साधनप्रक्रियाऽस्ति। भक्तृहरिः शब्दाद्वैतस्य संस्थापकः आसीत्। तस्य विचारे 'स्फोट' एवैकमात्र परमतत्त्वमस्ति। जगदिदं तस्यैव विवर्त्तरूपमस्ति।

काशमीरनिवासिना कैयटेन विरचितं 'भाष्यप्रदीपम्' महाभाष्यीयसिद्धान्तस्य प्रदीपमिव प्रकाशयितः एकमात्रो ग्रन्थरत्नः अस्ति। प्रदीपस्य उद्योताख्या व्याख्या नागेशभट्टेन लिखिताऽस्ति। व्याकरणशास्त्रस्येतिहासे भट्टोजिदीक्षितेन एकस्य अभिनवयुगस्य स्थापना कृता। अस्य त्रयः सुप्रसिद्धा ग्रन्थाः सन्ति- (१) सिद्धान्तकौमुदी, (२) शब्दकौस्तुभः, (३) मनोरमा चेति।

दीक्षितपरम्परायामेव नागेशभट्टः उद्भटवैयाकरणोऽभवत्। अस्य विदुषः प्रतिभा बहुमुखी आसीत्। अस्य परिभाषेन्दुशेखरः पाणिनिव्याकरणस्य सर्वमान्यग्रन्थोऽस्ति। अस्य शब्देन्दुशेखरः इति मनोरमायाः विस्तृता व्याख्याऽस्ति। अस्य ‘लघुमञ्जूषा' शब्दार्थयोः सिद्धान्तस्य मीमांसकः सर्वश्रेष्ठग्रन्थोऽस्ति। नागेशभट्टः काशीनिवासी आसीत्। अष्टादशशतकस्य पूर्वार्द्धेऽयं विद्यमान आसीत्।

व्याकरणयस्य प्रमुखविषयाः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तु

उद्धरणम्

  1. शृङ्गारप्रकाशः/षष्ठः प्रकाशः
  2. ( ऋ० ४॥५८।।६ )
  3. ( ऋग्वे० १०।।७१।१ )
  4. (ऋग्ंं० १॥१६४॥५०)
  5. ( ऋग्० ६॥६६॥९ )
  6. ( यजु० १॥२० )
  7. ( यजु० ११॥७ )
  8. ( अथर्वे० १८॥४॥७ )
  9. वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्, 30
This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.