पाणिनिः

पाणिनिः (Panini) संस्कृतभाषायाः महान् वैय्याकरणः । तेन लिखितः अष्टाध्यायीनामकः व्याकरणग्रन्थः विश्वप्रसिद्धः वर्तते ।

पाणिनिः
जननम् क्रैस्तपूर्वं सप्तमशताब्दी
शालातुरग्रामः (सद्यः पाकिस्थानस्य लाहौर-नगरस्य समीपे)
मरणम् त्रयोदश्यां तिथौ
वृत्तिः वैयाकरणः, कविः
राष्ट्रीयता भारतीयः
प्रकारः संस्कृतव्याकरणस्य सूत्ररचयिता
विषयाः अष्टाध्यायी, लिङ्गानुशासनम्, जाम्बवतीजयम्।
प्रमुखकृतयः अष्टाध्यायी
भागी दाक्षी (माता), पणिनः (शालङ्किः) (पिता)

संस्कृतभाषायाः प्राचीनाः वैयाकरणाः नामभिः स्तूयन्ते यथा-

इन्द्रश्चन्द्रः काशकृत्स्नाऽपिशलाः शाकटायनः ।
पाणिन्यमरजैनेन्द्रा इत्यष्टौ शाब्दिका मताः ॥

इत्यष्टसु शाब्दिकेषु अष्टम एव पाणिनिः वर्तते ।
स्वतः पूर्वान् वैयाकरणान् पाणिनिः स्वस्य "अष्टाध्यायी" इत्येतस्मिन् ग्रन्थे अन्यान्यव्याकरणप्रक्रियानिरूपणसूत्रेषु स्मरति, यथा- "ऋतो भारद्वाजस्य"७/२/६३. "लोपः शाकल्यस्य"८/३/१९. "त्रिप्रभृतिषु शाकटायनस्य"८/४/५०. "वा सुप्यापिशलेः"६/१/९२. इत्यादि ।

तस्मै पाणिनये नमः

पाणिनीया शिक्षाग्रन्थे त्रयः श्लोकाः पाणिनेः नमस्कारपराः द्श्यन्ते । पाणिनिः वैयाकरणानां प्रातः स्मरणीयः मुनिः । न केवलं वैयाकरणानाम् अपि तु निखिलसंस्कृतविपश्चिताम् एष प्रातर्नमस्यः इत्यत्र न काऽपि संशीतिः । यतः तस्मात् पूर्वतनानाम् ऐन्द्-चान्द्र-आपिशलादीनां व्याकरणशास्त्राणि स्वयमधीत्य तानि असमग्राणि च परिभाव्य 'नवं, समग्रं, विश्वजनीनं च व्याकरणम्’ चिकीर्षुः वाचामधीशं परमेश्वरं तपसा आराधयामास । पाणिनेः तपसा सन्तुष्टः परशिवः ताण्डवं नाट्यम् अकरोत्, नृत्तान्ते चतुर्दशवारम् ढक्काम् अवादयत् । तस्याः ढक्कायाः शब्दान् पाणिनिः अशृणोत् । अत्रायं श्लोकः -

नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम् ।
उद्धर्तुकामः सनकादिसिद्धान् एतद्विमर्शे शिवसूत्रजालम् ॥

एते शिवडमरुसमुत्थाः शब्दा एव माहेश्वरसूत्राणि इति श्रूयन्ते । तदनन्तं पाणिनिः व्याकरणशास्त्रस्य मूलाधारम् अष्टाध्यायीति सूत्रग्रन्थं व्यरचयत् ।

शङ्करः शाङ्करीं प्रादात् दाक्षीपुत्राय धीमते ।
वाङ्मयेभ्यः समाहृत्य देवीं वाचमिति स्थितिः ॥
येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् ।
कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥
येन धौता गिरः पुंसाम् विमलैः शब्दवारिभिः ।
तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः ॥

पाणिनिः संस्कृतस्य महावैयाकरणः । यतः तदनन्तरीयाः ये ये वैयाकरणाः अभवन् ते सर्वेऽपि व्याकरणशास्त्रस्य नाना प्रक्रियायाः निरूपणार्थं पाणिनेः अष्टाध्याय्याः विविधाः व्याख्याः निरचिन्वन् ।

जन्म,कालः, नामानि च

पाणिनेः जन्म क्रिस्तपूर्वसप्तमशताब्द्यां शालातुरग्रामे अभवत् । अतः तस्य 'शालातुरीयः' इति नाम अति प्रसिद्धम् अस्ति । वर्तमानकाले पाकिस्तानदेशे स्थितः लहुरनामकः ग्रामः एव शलातुरग्रामः अस्ति । पाणिनेः मातुः नाम दाक्षी । [1] अतः एव सः दाक्षीपुत्रः इत्यपि संस्कृतज्ञाः तं प्रीत्या आह्वयन्ति । 'पणिनः' इति तस्य पितुः नाम । अतः तस्य नाम 'पाणिनिः' अभवत् । शालङ्किः इत्यपि पाणिनेः पितुः नाम आसीदिति वाराणसेयः विद्वान् श्रीगोपालशास्त्रिमहोदयः "प्रशिक्षणसंविधानम्" इति पुस्तके व्यलिखत् । अयं कृशाश्वपुत्रस्य देवलनाम्नः पौत्र इति John Garratt महाशयस्य Classical Dictionary of India पुस्तके उल्लिखितमस्ति । आचार्यः वर्षः पाणिनेः गुरुः आसीत् । पाणिनिः 'नलन्द'विश्वविद्यालये शिक्षां प्राप्तवान् । तस्य गुरुः आसीत् उपवर्षाचार्यस्य सहोदरः वर्षोपाध्यायवर्यः ।

मरणम्

पञ्चतन्त्रानुसारेण पाणिनेः मृत्युः सिंहकारणात् अभवत् - 'सिंहो व्याकरणस्य कर्तुरहरत् प्राणान् प्रियान् पाणिनेः ।' परम्परानुसारेण पाणिनेः मृत्युः त्रयोदशीतिथ्याम् अभवत् । अतः एव पण्डितपरम्परायाम् अधुना अपि त्रयोदश्यां व्याकरणस्य अनध्यायः भवति । मृत्युः इति स्थाने मृत्युः इति भवितव्यम्।

ग्रन्थाः

उद्धृतयः

  1. सर्वे सर्वपदादेशाः दाक्षीपुत्रस्य पाणिनि इत्येतेन महाभाष्यकारवचनेन अयं दाक्षीपुत्रः इति ज्ञायते । शास्त्रजीवित (कन्नडभाषा):. प्रकाशकः - श्री जयराम सेवा मण्डली, बेङ्गलूरु.
This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.